संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः २५

उत्पत्तिप्रकरणम् - सर्गः २५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
नभःस्थलाद्गिरिग्रामं गच्छन्त्यौ कंचिदेव ते ।
ज्ञप्तिचित्तस्थितं भूमितलं ददृशतुः स्त्रियौ ॥१॥
ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् ।
गिरिकेसरसंबाधं स्वामोदभरसुन्दरम् ॥२॥
सरित्केसरिकानालमध्येऽवश्यायबिन्दुकम् ।
शर्वरिभ्रमरीभ्रान्तं भूतौघमशकाकुलम् ॥३॥
अन्तर्गुणगणाकीर्णं सुरन्ध्रैः सुषिरैर्वृतम् ।
उह्यमानपयःपूरैर्दिवसालोककान्तिमत् ॥४॥
रसार्द्रं खे भ्रमद्धंसं रात्रिसंकोचभाजनम् ।
पातालपङ्कनिर्मग्ननागनाथमृणालकम् ॥५॥
कदाचिदास्पदाम्भोधिकम्पकम्पितदिग्दलम् ।
अधोनालगतानन्तदैत्यदानवकण्टकम् ॥६॥
असुरस्त्रैणवल्लर्या संभोगसुकुमारया ।
प्राप्यभूभृन्महाबीजहृदयं भूतबीजया॥
जम्बूद्वीप इति ख्यातां विपुलां तत्र कर्णिकाम् ।
सरित्केसरिकानाला नगरग्रामकेसराम् ॥८॥
कुलशैलेश्वरोत्तुङ्गबीजसप्तकसुन्दरीम् ।
मध्यस्थोच्चमहामेरुबीजाक्रान्तनभस्थलीम् ॥९॥
सरःप्रालेयकणिकां वनजङ्गलधूलिकाम् ।
स्थलेष्वामण्डलान्तस्थजनजालालिमण्डलाम् ॥१०॥
तां योजनशताकारैः प्रतिराकं प्रबोधिभिः ।
सागरैर्भ्रमरैर्व्याप्ता दिक्वतुष्टयशालिभिः ॥११॥
दिग्दलाष्टकविश्रान्तससुराम्भोधिषट्पदाम् ।
भ्रातृभिर्नवभिर्भूपैर्नवधा परिकल्पिताम् ॥१२॥
लक्षयोजनविस्तीर्णामाकीर्णां च रजोलवैः ।
नानाजनपदव्यूहस्थिरावश्यायसीकराम् ॥१३॥
द्वीपात्तु द्विगुणं मानं लवणार्णवलेखया ।
दधत्या वलितां बाह्ये प्रकोष्ठमिव कम्बुना ॥१४॥
ततोऽपि द्विगुणं देहं दधत्या वलयाकृतिम् ।
जगद्भूतलताव्याप्तां शाकाख्यद्वीपलेखया ॥१ ऽ
ततोऽपि द्विगुणाकारं धारयन्त्या च वेष्टिताम् ।
प्रत्यग्रक्षीरपूर्णाब्धिलेखया स्वादुशीतया ॥१६॥
ततोऽपि द्विगुणाकारं धारयन्त्योपवेष्टिताम् ।
नानाजनालंकृतया कुशाख्यद्वीपलेखया ॥१७॥
ततोऽपि द्विगुणाकारं धारयन्त्या च वेष्टिताम् ।
दध्यब्धिलेखया नित्यसंतर्पितसुरौघया ॥१८॥
ततः क्रौञ्चाभिधद्वीपलेखयैवं प्रमाणया ।
वेष्टितां खातरचया नवां नृपपुरीमिव ॥१९॥
ततोऽपि च घृताम्भोधिलेखयैवं प्रमाणया ।
ततोऽपि शाल्मलीद्वीपलेखया मलपूर्णया ॥२०॥
ततः सुरामहाम्भोधिलेखया पुष्पशुभ्रया ।
शेषस्य देहलतया हरिमूर्तिमिवावृताम् ॥२१॥
ततो गोमेदकद्वीपलेखयैवप्रमाणया ।
इक्ष्वब्धिलेखयाप्येवं हिमवत्सानुशुद्धया॥
ततोऽपि पुष्करद्वीपलेखया द्विगुणस्थया ।
अन्ते स्वादूदकाम्भोधिलेखयैवं प्रमाणया ॥२३॥
ततो दशगुणेनाथ पातालतलगामिना ।
निखातवलयेनोच्चैः श्वभ्रसंभाररूपिणा ॥२४॥
पातालगामिमार्गेण वलितां भयदात्मना ।
एतस्मात्खलु सर्वस्मात्ततो दशगुणोच्चया ॥२५॥
आव्योमसु चतुर्दिक्षु श्वभ्रसंभारभीषया ।
अर्धोन्म्लानतमोरूपलग्ननीलोत्पलस्रजा ॥२६॥
नानामाणिक्यशिखरकह्लारकुमुदाब्जया ।
लोकालोकाचलोत्तालविपुलोद्दाममालया ॥२७॥
वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनामिव ॥
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥२८॥
अज्ञातभूतसंचारनाम्नारण्येन मालिताम् ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥२९॥
नभसेव चतुर्दिक्कं व्याप्तामतुलवारिणा ।
एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥३०॥
मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम् ।
एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ॥३१॥
मेर्वाद्यचलसङ्घातं नयता तृणपांसुवत् ।
वहताद्रीन्द्रविस्फोटकारिणा जवहारिणा ॥३२॥
निःशून्यत्वादशब्देन मरुता परितो वृतम् ।
एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ॥३३॥
परितो वलितं व्योम्ना निःशून्येनैकरूपिणा ।
अथ योजनकोटीनां शतेन घनरूणिणा ।
व्याप्तं ब्रह्माण्डकुड्येन हैमेनापि द्विपर्वणा ॥३४॥
इति जलधिमहाद्रिलोकपालत्रिदशपुराम्बरभूतलैः परीतम् ।
जगदुदरमवेक्ष्य मानुषी द्राग्भुवि निजमन्दिरकोटरं ददर्श ॥३५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० भूलोकवर्णनं नाम पञ्चविंशः सर्गः ॥२५॥

N/A

References : N/A
Last Updated : September 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP