उत्पत्तिप्रकरणं - सर्गः ४९
योगवासिष्ठः
श्रीवसिष्ठं उवाच ।
ववुर्वलितनीहारा विकीर्णवनपल्लवाः ।
वायवो धूतवृक्षौघाः सल्लीलापीडपांसवः ॥१॥
पक्षिवद्भ्रान्तवृक्षौघाः पतनोत्पातनोद्भटाः ।
विकुट्टिताट्टालखण्डाश्चाभ्रभित्तिविभेदिनः ॥२॥
तेनातिभीमवातेन विदूरथरथोऽप्यथ ।
उह्यमानोऽभवन्नद्या यथा जर्जरपल्लवः ॥३॥
विदूरथोऽथ तत्याज पार्वतास्त्रं महास्त्रवित् ।
व्योमापि घनतोयेन समादातुमिवोद्यतम् ॥४॥
तेन शैलास्त्रघातेन विराट् प्राणसमीरणः ।
शमं चैतन्यशान्त्येव प्रययौ वायुराततः ॥५॥
अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि ।
नानाजनशवव्यूहे काकानामिव कोटयः ॥६
शेमुः सूत्त्कारडान्कारभांकारोत्कारका दिशाम् ।
प्रलापा इव विध्वस्ताः पूर्ग्रामवनवीरुधाम् ॥७॥
गिरीनपश्यन्नभसः पततः पत्रवर्णवत् ।
सिन्धुः सिन्धुरिवोत्पक्षान्मैनाकादीनितस्ततः ॥८॥
वज्रास्त्रमसृजद्दीप्तं चेरुर्वज्रगणास्ततः ।
पिबन्तोऽद्रीन्द्रतिमिरमग्निदाहमिवाग्नयः ॥९॥
ते गिरीणां तथा क्षिप्ताः कोटितुण्डावखण्डनैः ।
शिरांसि पातयामासुः फलानीवोल्बणानिलाः ॥१०॥
विदूरथोऽथ वज्रास्त्रशान्त्यै ब्रह्मास्त्रमत्यगात् ।
ततो ब्रह्मास्त्रवज्रास्त्रे समं प्रशममागते ॥११॥
श्यामाश्यामं पिशाचास्त्रमथ सिन्धुरचोदयत् ॥
तेनोदगुः पिशाचानां पङ्क्तयोऽत्यन्तभीतिदाः ॥१२॥
संध्यायामथ भीत्येव दिवसः श्यामतां ययौ ।
पिशाचा भुवनं जग्मुरन्धकारभरा इव ॥१३॥
भस्मनः स्तम्भसदृशास्तालोत्तालविलासिनः ।
दृश्यमानमहाकारा मुष्टिग्राह्या न किंचन ॥१४॥
ऊर्ध्वकेशाः कृशाङ्गाश्च केचिच्च श्मश्रुला अपि ।
कृष्णाङ्गा मलिनाङ्गाश्च ग्राम्या इव नभश्चराः ॥१५॥
सभया मूढदृष्टाश्च यत्किंचनकराश्चलाः ।
दीना वज्रासिनः क्रूरा दीना ग्राम्यजना इव ॥१६॥
तरुकर्दमरथ्यान्तः शून्यगेहगृहाश्चलाः ।
लेलिहानाः प्रेतरूपा कृष्णाङ्गाश्चपला इव ॥१७॥
जगृहुस्ते तदा मत्ता हतशिष्टमरेर्बलम् ।
आसंस्तत्सैनिकास्तत्र भिन्नास्त्रक्षुब्धचेतनाः ॥१८॥
त्यक्तायुधतनुत्राणास्त्रस्तप्राणाः स्खलद्गमाः ।
नेत्रैरङ्गेर्मुखैः पादैर्विकारभरकारिणः ॥१९॥
त्यक्तकौपीनवसना निमग्नावसनोत्तराः ।
विष्ठां मूत्रं च कुर्वन्तः स्थिरमारब्धनर्तनाः ॥२०॥
पिशाचराजी राजानं तस्य यावद्विदूरथम् ।
समाक्रामति तावत्तां मायां स बुबुधे बुधः ॥२१॥
पिशाचसंग्रामकरीं मायां वेत्ति स भूमिपः ।
तया पिशाचसैन्यं तत्परसैन्ये न्ययोजयत् ॥२२॥
ततः स्वसैनिकाः स्वस्थाः परयोधाः पिशाचिनः ।
तस्याशु रूपिकास्त्रं च ददावन्यदसौ रुषा ॥२३॥
उदगुर्भूतलाद्व्योम्नो रूपिका ऊर्ध्वमूर्धजाः ।
निर्मग्नविकरालाक्ष्यश्चलच्छ्रोणिपयोधराः ॥२४॥
उद्भिन्नयौवना वृद्धाः पीवराङ्ग्योऽथ जर्जराः ।
स्वरूपारूपजघना दुर्नाभ्यो विकसद्भगाः ॥२५॥
नररक्तशिरोहस्ताः संध्याभ्रारुणगात्रिकाः ।
अर्धचर्वितमांसासृक्स्रवत्सृक्क्याकुलाननाः ॥२६॥
नानाङ्गवलना नानानमन्नमनसत्तमाः ।
शिलाभुजगवक्रोरुकटिपार्श्वकराङ्गिकाः ॥२७॥
नारीकृतार्भकशवा हस्ताकृष्टान्त्ररज्जवः ।
श्वकाकोलूकवदना निम्नवक्त्रहनूदराः ॥२८॥
जगृहुस्तान्पिशाचांस्ता दुर्बलान्दुःशिशूनिव ।
पिशाचरूपिकासैन्यं तदासीदेकतां गतम् ॥२९॥
निर्मग्ननर्तनोत्तानवदनाङ्गविलोचनम् ।
परस्पराक्रान्तिकरं प्रधावच्च परस्परम् ॥३०॥
निष्कासितमहाजिह्व नानामुखविकारदम् ।
शरभाराढ्यमन्योन्यं ह्रियमाणशवाङ्गकम् ॥३१॥
रुधिराम्भसि मज्जं तदुन्मज्जद्धृल्लसत्तनु ।
लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् ॥३२॥
रक्तमांसमहापङ्केष्वन्योन्यं वेल्लनाभ्यसत् ।
मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् ॥३३॥
यथैव मायासंचारस्तेन तस्य कृतः पुरा ।
तेनापि तस्याशु तथा कृतो बुद्ध्वा स लाघवात् ॥३४॥
वेतालास्त्रं ततो दत्ते तेनोत्तस्थुः शवव्रजाः ।
अमूर्धानः समूर्धानो वेताला वेशवल्लिताः ॥३५॥
ततः पिशाचवेतालरूपिकोग्रकबन्धवत् ।
तद्बभूव बलं भीममुर्वीनिगरणक्षमम् ॥३६॥
अथेतरोऽपि भूपालो मायां संचार्य तां गुरौ ।
राक्षसास्त्रं ससर्जाथ त्रैलोक्यग्रहणोन्मुखम् ॥३७॥
उदगुः पर्वताकाराः सर्वतः स्थूलराक्षसाः ।
देहमाश्रित्य निष्क्रान्ताः पातालान्नरका इव ॥३८॥
अथोदभूद्बलं भीमं ससुरासुरभीतिदम् ।
गर्जद्रक्षोमहानादवाद्यनृत्यत्कबन्धकम् ॥३९॥
मेदोमांसोपदंशाढ्यं रुधिरासवसुन्दरम् ।
क्षीबकूश्माण्डवेतालयक्षताण्डवसुन्दरम् ॥४०॥
कूश्माण्डकोत्ताण्डवदण्डपाद-
क्षुब्धासृगुत्क्षिप्ततरङ्गसिक्तैः ।
संध्याभ्ररागोत्करकोटिकान्ति
भूतैरसृक्स्रोतसि दत्तसेतु ॥४१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० तृतीयास्त्रयुद्धं नामैकोनपञ्चाशः सर्गः ॥४९॥
N/A
References : N/A
Last Updated : September 11, 2021
TOP