संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ८६

उत्पत्तिप्रकरणं - सर्गः ८६

योगवासिष्ठः

श्रीभानुरुवाच ।
कल्पनाम्नि महादेव ह्यस्तने दिवसे तव ।
तले कैलासशैलस्य जम्बूद्वीपैककोणके ॥१॥
सुवर्णजटनाम्ना यस्त्वत्पुत्रैर्जनितप्रजैः ।
मण्डलं कल्पितं श्रीमदनल्पसुखसुन्दरम् ॥२॥
तत्राभूदतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
इन्दुनामातिशान्तात्मा कश्यपस्य कुलोद्भवः ॥३॥
तस्मिंस्तदा निवसतो नित्यं स्वजनमण्डले ।
तस्य प्राणसमा भार्या काचित्तस्यां महात्मनः ॥४॥
न बभूवात्मजस्तस्य मरुभूमौ तृणं यथा ।
न व्यराजत सा भार्या तस्य निष्फलपुष्पिता ॥५॥
ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा ।
तौ ततो दंपती खिन्नौ पुत्रार्थे तपसे गिरेः ॥६॥
कैलासस्यांशमारूढौ रूढाविव नवद्रुमौ ।
भूतैरनावृते शून्ये तस्मिन्कैलासकुञ्जके ॥७॥
तेपतुस्तौ तपो घोरं जलाहारौ तरुस्थिती ।
एकं पानीयचुलकं पीत्वा दिवसपर्यये ॥८॥
निस्पन्दमुत्थितौ वार्क्षी वृत्तिमाश्रित्य संस्थितौ ।
तस्थतुस्तौ तदा तत्र तावत्कालं तरुव्रतौ ॥९॥
यावत्त्रेता द्वापरं च युगे द्वे एव ते गते ।
ततस्तुष्टोऽभवद्देवस्तयोः शशिकलाधरः ॥१०॥
दिनातपातापितयोरिन्दुः कुमुदयोरिव ।
आजगाम तमुद्देशं यत्र तौ विप्रदंपती ॥११॥
सलतापादपं देशं पुष्पाकर इवेश्वरः ।
दंपती तौ वृषारूढं सोमं सोमार्धशेखरम् ॥१२॥
फुल्लाननौ ददृशतुः कुमुदे शशिनं यथा ।
तौ तं प्रणेमतुर्देव तुषारामलमीश्वरम् ॥१३॥
द्यावापृथिव्यावुदितं परिपूर्णमिवोहुपम् ।
तर्जयन्पवनाधूतनववृक्षाननस्वरम् ॥१४॥
मृदूहामस्मितस्पन्दि प्रोवाचाथ वचः शिवः ।
ईश्वर उवाच ।
वरं विप्र गृहाणाशु तुष्टोऽस्मि तव वाञ्छितम् ॥१५॥
मधुमासरसाक्रान्तवृक्षवन्मुदितो भव ।
विप्र उवाच ।
भगवन्देवदेवेश दश पुत्रा महाधियः ॥१६॥
भव्या भवन्तु मे भूयः शोको येन न बाधते ।
भानुरुवाच ।
अथैवमस्त्विति प्रोच्य जगामान्तर्धिमीश्वरः ॥१७॥
व्योम्नि वारिनिधिर्ह्रादं कृत्वेवोर्मिमहावपुः ।
ततस्तौ दम्पती तुष्टौ शिवलब्धवरौ गृहम् ॥१८॥
गतौ गीर्वाणसदृशौ खमिवोमामहेश्वरौ ।
तत्रासौ ब्राह्मणी गेहे बभूवोदारगर्भिणी ॥१९॥
बभौ पूर्णोदरा श्यामा मेघलेखेव वारिणा ।
कालेऽथ सुषुवे पुत्रान्प्रतिपच्चन्द्रकोमलान् ॥२०॥
दशबालांस्ततो मुग्धान्वसुधेव नवाङ्कुरान् ।
कृतब्राह्मणसंस्कारा वृद्धिमीयुर्महौजसः ॥२१॥
स्वल्पेनैव हि कालेन प्रावृषेव नवाम्बुदाः ।
ते सप्तवर्षवयसो बभूवुर्ज्ञातवाङ्मयाः ॥२२॥
विरेजुस्तेजसा तत्र नभसीवामला ग्रहाः ।
अथ कालेन महता तेषां तौ पितरौ तदा ॥२३॥
संजग्मतुस्तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ ।
मातापितृभ्यां रहिता दश ते ब्राह्मणास्ततः ॥२४॥
ययुः कैलासशिखरं गृहं संत्यज्य खेदिनः ।
तत्र संचिन्तयामासुरुद्विग्नास्ते वितन्धवाः ॥२५॥
किं स्यादिह परं श्रेय ऊचुश्चेदं परस्परम् ।
किमिह स्यात्समुचितं भ्रातरः किमदुःखदम् ॥२६॥
किं महत्त्वं किमैश्वर्यं किं महाविभवं शुभम् ।
किं तदेतज्जनैश्वर्यं सामन्तो हि महेश्वर ॥२७॥
सामन्तसंपत्किंनाम राजानो हि महेश्वराः ।
का नाम संपद्भूपानां सम्राडिह महेश्वरः ॥२८॥
किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः ।
विनश्यति न यत्कल्पे किं स्यात्तदिह शोभनम् ॥२९॥
भाषमाणेष्वथैतेषु ज्येष्ठो भ्राता महामतिः ।
गम्भीरवागुवाचेदं मृगयूथान्मृगो यथा ॥३०॥
ऐश्वर्याणां हि सर्वेषामाकल्पं न विनाशि यत् ।
रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत् ॥३१॥
एतदुक्तं तदखिला द्विजपुत्रास्त उत्तमाः ।
वचोभिरैन्दवास्तत्र साधु साध्वित्यपूजयन् ॥३२॥
ऊचुश्चेदं कथं तात सर्वदुःखोपमार्जनम् ।
पद्मासनं जगत्पूज्यं विरञ्चित्वमवाप्नुमः ॥३३॥
भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः ।
 मदुक्तं सर्व एवेमे भवन्तः पालयन्तु वै ॥३४॥
पद्मासनगतो भास्वान्ब्रह्माहमिति तेजसा ।
सृजामि संहरामीति ध्यानमस्तु चिराय वः ॥३५॥
अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः ।
ध्यानाधीनधियस्तस्थुः सहैव ज्यायसा रसात् ॥३६॥
लिपिकर्मार्पिताकारा ध्यानासक्तधियश्च ते ।
अन्तस्थेनैव मनसा चिन्तयामासुरादृताः ॥३७॥
अथ उत्फुल्लकमलकोशवक्रोन्नतासनः ।
ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः ॥३८॥
यज्ञक्रियाक्रमवतः साङ्गोपाङ्गा महर्षयः ।
सरस्वत्याथ गायत्र्या युक्ता वेदा नरा इमे ॥३९॥
लोकपालपराक्रान्तः संचरत्सिद्धमण्डलः ।
अयमुद्दामसौभाग्यः स्वर्गः स्वरविभूषितः ॥४०॥
पर्वतद्वीपजलधिकाननैः समलंकृतम् ।
इदं भूमण्डलं चैव त्रिलोकीकर्णकुण्डलम् ॥४१॥
एतत्पातालकुहरं दैत्यदानवभोजितम् ।
अमृतस्त्रीगणाकीर्णं गृहं गगनकोटरम् ॥४२॥
अयमिन्द्रो महाबाहुः प्रजालंकृतदोत्तमः ।
त्रैलोक्यनगरीमेकः पाति पावनयज्ञभुक् ॥४३॥
दीप्रजालवरत्राभिरवष्टभ्याथ दिग्गणम् ।
क्रमेण प्रतपन्त्येते भानवो भूरिभानवः ॥४४॥
लोकपाला इमे लोकं रक्षन्ति शुद्धवृत्तयः ।
मर्यादाभिरतुच्छाभिर्गोपाला गोगणं यथा ॥४५॥
उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च ।
तरङ्गा इव तोयानामिमाः प्रतिदिनं प्रजाः ॥४६॥
सृजामीममहं सर्गं संहरामि तथादृतः ।
अयमात्मनि तिष्ठामि शाम्यामि भुवनेश्वरः ॥४७॥
अयं संवत्सरो यात इदं परिणतं युगम् ।
सृष्टेरयमसौ कालः स्वयं संहरणस्य च ॥४८॥
अयमेव गतः कल्पो ब्राह्मी रात्रिरियं तता ।
अयमात्मनि तिष्ठामि पूर्णात्मा परमेश्वरः ॥४९॥
इति भावितया बुद्ध्या ते द्विजा अथ ऐन्दवाः ।
दशाद्रिवृत्तयस्तस्थुः समुत्कीर्णा इवोपलात् ॥५०॥
अधिगतकमलासनक्रमास्ते
परिगलितेतरतुच्छवृत्तिजालाः ।
सततमतितरां कुशासनस्था-
श्चिरमिति पङ्कजकल्पने विरेजुः ॥५१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० ए० ऐन्दवसमाधानं नाम षडशीतितमः सर्गः ॥८६॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP