संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०१ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०१ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०१ Translation - भाषांतर श्रीराम उवाच ।किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः ।क्रमेण कथयैतन्मे मनोवर्णनकारणम् ॥१॥श्रीवसिष्ठ उवाच ।कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव ।कांचिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति ॥२॥सा बालस्य विनोदाय धात्री तस्य महामते ।आख्यायिकां कथयति प्रसन्नमधुराक्षरम् ॥३॥क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः ।धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने ॥४॥विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः ।द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः ॥५॥अथात्युत्तमलाभार्थं कदाचित्समवायतः ।विबन्धवः खिन्नमुखाः शोकोपहतचेतसः ॥६॥ते तस्माच्छून्यनगरान्निर्गता वितताननाः ।गगनादिव संश्लिष्टा बुधशुक्रशनैश्चराः ॥७॥शिरीषसुकुमाराङ्गाः पृष्ठतोऽर्केण तापिताः ।मार्गेऽहनि गता ग्रीष्मतापार्ताः पल्लवा इव ॥८॥संतप्तमार्गसिकतादग्धपादसरोरुहाः ।हा तात चेति शोचन्तो मृगा यूथच्युता इव ॥९॥दर्भाग्रभिन्नचरणास्तापखिन्नाङ्गसंधयः ।उल्लङ्घ्य दूरमध्वानं धूलिधूसरमूर्तयः ॥१०॥मञ्जरीजालजटिलं फलपल्लवमालितम् ।मृगपक्षिगणाधारं प्रापुर्मार्गे तरुत्रयम् ॥११॥यस्मिन्वृक्षत्रये वृक्षौ द्वौ न जातौ मनागपि ।बीजमेव तृतीयस्य स्वारोहस्य न विद्यते ॥१२॥विश्रान्तास्ते परिश्रान्तास्तत्रैकस्य तरोरधः ।पारिजाततले स्वर्गे शक्रानिलयमा इव ॥१३॥फलान्यमृतकल्पानि भुक्त्वा पीत्वा च तद्रसम् ।कृत्वा गुलुच्छकैर्मालां चिरं विश्रम्य ते ययुः ॥१४॥पुनर्दूरतरं गत्वा मध्याह्ने समुपस्थिते ।सरित्त्रितयमासेदुस्तरङ्गतरलारवम् ॥१५॥तत्रैका परिशुष्कैव मनागप्यम्बु न द्वयोः ।विद्यते सरितोर्दृष्टिरन्धलोचनयोरिव ॥१६॥परिशुष्का भृशं यासौ तस्यां ते सस्नुरादृताः ।घर्मार्ता इव गङ्गायां ब्रह्मविष्णुहरा इव ॥१७॥चिरं कृत्वा जलक्रीडां पीत्वा क्षीरोपमं पयः ।जग्मुस्ते राजतनयाः प्रहृष्टमनसः स्वयम् ॥१८॥अथासेदुर्दिनस्यान्ते लम्बमाने दिवाकरे ।भविष्यन्नवनिर्माणं नगरं नगसन्निभम् ॥१९॥पताकापद्मिनीव्याप्तं नीलाकाशजलाशयम् ।दूरश्रुतसमुल्लापगायन्नागरमण्डलम् ॥२०॥ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते ।मणिकाञ्चनगेहानि श्रृङ्गाणीव महागिरेः ॥२१॥अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै ।अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः ॥२२॥संप्रविश्योपविश्याशु विहरन्तो वराननाः ।प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम् ॥२३॥तत्र कर्परतां याते द्वे एका चूर्णतां गता ।जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः ॥२४॥द्रोणैर्नवनवत्या तैस्तस्यां द्रोणेन चान्धसः ।तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः ॥२५॥निमन्त्रितास्त्रयस्तैस्तु ब्राह्मणा राजसूनुभिः ।द्वौ निर्देहावथैकस्य मुखमेव न विद्यते ॥२६॥निर्मुखेनान्धसस्तत्र भुक्तं द्रोणशतं सुत ।विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः ॥२७॥त्रिभिस्ते राजपुत्राश्च परां निर्वृतिमागताः ।भविष्यन्नगरे तस्मिन् राजपुत्रास्त्रयो हि ते ।सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः ॥२८॥आख्यायिकैषा कथिता मया रम्या तवानघ ।एतां हृदि कुरु प्राज्ञ विदग्धस्त्वं भविष्यसि ॥२९॥धात्र्येति कथिता राम बालकाख्यायिका शुभा ।तुष्टिं जगाम बालश्च शुभाख्यायिकयानया ॥३०॥एषा हि कथिता राम चित्ताख्यानकथां प्रति ।बालकाख्यायिका तुभ्यं मया कमललोचन ॥३१॥इयं संसाररचना स्थितिमेवमुपागता ।बालकाख्यायिकेवोग्रैः संकल्पैर्दृढकल्पितैः ॥३२॥विकल्पजालकैवेयं प्रतिभासात्मिकानघ ।बन्धमोक्षादिकलनारूपेण परिजृम्भते ॥३३॥संकल्पमात्रादितरद्विद्यते नेह किंचन ।संकल्पवशतः किंचिन्न किंचित्किंचिदेव वा ॥३४॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।संकल्पकचितं सर्वमेवं स्वप्नवदात्मनः ॥३५॥राजपुत्रास्त्रयो नद्यो भविष्यन्नगरे यथा ।यथा संकल्परचना तथेयं हि जगत्स्थितिः ॥३६॥संकल्पमात्रमभितः परिस्फुरति चञ्चलः ।पयोमात्रात्मकोऽम्भोधिरम्भसीवात्मनात्मनि ॥३७॥संकल्पमात्रं प्रथममुत्थितं परमात्मनः ।तदिदं स्फारतां यातं व्यापारैर्दिवसं यथा ॥३८॥संकल्पजालकलनैव जगत्समग्रंसंकल्पमेव ननु विद्धि विलासचेत्यम् ।संकल्पमात्रमलमुत्सृज निर्विकल्प- माश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ॥३९॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे बालकाख्यायिकानामैकोत्तरशततमः सर्गः ॥१०१॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP