संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अस्य देवाधिदेवस्य परस्य परमात्मनः ।ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानदुःखतः ॥१॥अत्र ज्ञानमनुष्ठानं नत्वन्यदुपयुज्यते ।मृगतृष्णाजलभ्रान्तिशान्तौ चेदं निरूपितम् ॥२॥नह्येष दूरे नाभ्याशे नालभ्यो विषमे न च ।स्वानन्दाभासरूपोऽसौ स्वदेहादेव लभ्यते ॥३॥किंचिन्नोपकरोत्यत्र तपोदानव्रतादिकम् ।स्वभावमात्रे विश्रान्तिमृते नात्रास्ति साधनम् ॥४॥साधुसंगमसच्छास्त्रपरतैवात्र कारणम् ।साधनं बाधनं मोहजालस्य यदकृत्रिमम् ॥५॥अर्यं सदेव इत्येव संपरिज्ञानमात्रतः ।जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च ॥६॥श्रीराम उवाच ।संपरिज्ञातमात्रेण किलानेनात्मनात्मना ।पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन ॥७॥देवदेवो महानेष कुतो दूरादवाप्यते ।तपसा केन तीव्रेण क्लेशेन कियताथवा ॥८॥श्रीवसिष्ठ उवाच ।स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।स देवो ज्ञायते राम न तपःस्नानकर्मभिः ॥९॥रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।विना राम तपोदानं क्लेश एव न वास्तवम् ॥१०॥रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।यदर्ज्यते तस्य दानाद्यस्यार्थास्तस्य तत्फलम् ॥११॥रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।तद्दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्ग च ॥१२॥तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् ।सच्छास्त्रसज्जनासङ्गौ संसृतिव्याधिनाशनौ ॥१३॥अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते ॥१४॥श्रृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये ।येन शाम्यत्यशेषेण रागद्वेषविषूचिका ॥१५॥यथासंभवया वृत्त्या लोकशास्त्राविरुद्धया ।संतोषसंतुष्टमना भोगगन्धं परित्यजेत् ॥१६॥यथासंभवमुद्योगादनुद्विग्नतया स्वया ।साधुसंगमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥१७॥यथाप्राप्तार्थसंतुष्टो यो गर्हितमुपेक्षते ।साधुसंगमसच्छास्त्रपरः शीघ्रं स मुच्यते ॥१८॥विचारेण परिज्ञातस्वभावस्य महामतेः ।अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशंकराः ॥१९॥देशे यं सुजनप्राया लोकाः साधुं प्रचक्षते ।स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् ॥२०॥अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारणात् ॥२१॥सच्छास्त्रसत्संगमजैर्विवेकै-स्तथा विनश्यन्ति बलादविद्याः ।यथा जलानां कतकानुषङ्गा-द्यथा जनानां मतयोऽपि योगात् ॥२२॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे मुमुक्षुप्रयत्नोपदेशो नाम षष्ठः सर्गः ॥६॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP