उत्पत्तिप्रकरणं - सर्गः ४४
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे राजमहिषी मत्तयौवना ।
तद्विवेश गृहं लक्ष्मीरिव पङ्कजकोटरम् ॥१॥
आलोलमाल्यवसना भिन्नहारलताकुला ।
अनुयाता वयस्याभिर्दासीभिर्भयविह्वला ॥२॥
चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा ।
तारकाकारदशना स्थिता द्यौरिव रूपिणी ॥३॥
अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत् ।
भूतसंग्रामसंरब्धममरेन्द्रमिवाप्सराः ॥४॥
देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् ।
शरणं देवमायाता वातार्तेव लता द्रुमम् ॥५॥
राजन्दारा हृतास्तास्ते बलवद्भिरुदायुधैः ।
ऊर्मिजालैर्महाब्धीनां तीरद्रुमलता इव ॥६॥
अन्तःपुराधिपाः सर्वे पिष्टाः शत्रुभिरुद्धतैः ।
अशङ्किताभिपतितैर्वातैरिव वरद्रुमाः ॥७॥
दूरेणाशङ्कमायातैः परैर्नः पुरमाहृतम् ।
रात्रौ वर्षास्विवोद्धोषैः कमलानीव वारिभिः ॥८॥
धूमं वर्षद्भिरुन्नादैर्लेलिहानोग्रहेतिभिः ।
वह्निभिर्नः पुरं प्राप्तं परयोधैश्च भूरिभिः ॥९॥
परिवारैर्विलासिन्यो देव्य आहृत्य मूर्धजैः ।
आक्रन्दन्त्यो बलान्नीताः कुरर्य इव धीवरैः ॥१०॥
इति नो येयमायाता शाखा प्रसरशालिनी ।
आपत्तामलमुद्धर्तुं देवस्यैवास्ति शक्तता ॥११॥
इत्याकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्यतः ।
क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी ॥१२॥
इत्युक्त्वा निर्ययौ राजा कोपारुणितलोचनः ।
मत्तेभनिर्भिन्नवनः कन्दरादिव केसरी ॥१३॥
लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् ।
प्रतिबिम्बमिवायातामादर्शे चारुदर्शनाम् ॥१४॥
प्रबुद्धलीलोवाच ।
किमिदं देवि हे ब्रूहि कस्मादियमहं स्थिता ।
या साऽभवमहं पूर्वं कथं सेयमहं स्थिता ॥१५॥
मन्त्रिप्रभृतयः पौरा योधाः सबलवाहनाः ।
सर्व एव त एवेमे स्थितास्तत्र तथैव ते ॥१६॥
तत्रापीह च हे देवि सर्वे कथमवस्थिताः ।
बहिरन्तश्च मुकुरे इवैते किं प्रचेतनाः ॥१७॥
श्रीदेव्युवाच ।
यथा ज्ञप्तिरुदेत्यन्तस्तथानुभवति क्षणात् ।
चितिश्चेत्यार्थतामेति चित्तं चित्तार्थतामिव ॥१८॥
यादृगर्थं जगद्रूपं तत्रैवोदेति तत्क्षणात् ।
न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् ॥१९॥
बाह्यमाभ्यन्तरं भाति स्वप्नार्थोऽत्र निदर्शनम् ।
यदन्तः स्वप्नसंकल्पपुरं च कचनं चितेः ॥२०॥
तदेतद्बाह्यनाम्नैव स्वभ्यासात्सत्स्फुटं स्थितम् ।
यादृग्भावो मृतो भर्ता तव तस्मिंस्तदा पुरे ॥२१॥
तादृग्भावस्तमेवार्थं तत्रैव समुपागतः ।
अन्य एव ह्यमी भूतास्तेभ्यस्तास्तादृशा अपि ॥२२॥
सद्रूपा एव चैतस्य स्वप्नसंकल्पसैन्यवत् ।
अविसंवादि सर्वार्थरूपं यदनुभूयते ॥२३॥
तस्य तावद्वद कथं कीदृशी वापि सत्यता ।
अथवोत्तरकाले तु भङ्गुरत्वादवस्तु तत् ॥२४॥
ईदृक्च सर्वमेवेदं तत्र का नास्तिताधिका ।
स्वप्ने जाग्रदसद्रूपा स्वप्नो जाग्रत्यसन्मयः ॥२५॥
मृतिर्जन्मन्यसद्रूपा मृत्यां जन्माप्यसन्मयम् ।
विशरेद्विशरारुत्वादनुभूतेश्च राघव ॥२६॥
एवं न सन्नासदिदं भ्रान्तिमात्रं विभासते ।
महाकल्पान्तसंपत्तावप्यद्याथ युगेऽनघ ॥२७॥
न कदाचन यन्नास्ति तद्ब्रह्मैवास्ति तज्जगत् ।
तस्मिन्मध्ये कचन्तीमा भ्रान्तयः सृष्टिनामिकाः ॥२८॥
व्योम्नि केशोण्ड्रकानीव न कचन्तीव वस्तुतः ।
यथा तरङ्गा जलधौ तथेमाः सृष्टयः परे ॥२९॥
उत्पत्त्योत्पत्त्य लीयन्ते रजांसीव महानिले ।
तस्माद्भ्रान्तिमयाभासे मिथ्यात्वमहमात्मनि ॥३०॥
मृगतृष्णाजलचये कैवास्था सर्गभस्मनि ।
भ्रान्तयश्च न तत्रान्यास्तास्तदेव परं पदम् ॥३१॥
घने तमसि यक्षाभास्तम एव न यक्षकः ।
तस्माज्जन्ममृतिर्मोहो व्यामोहत्वमिदं ततम् ॥३२॥
सर्वं तत्समहाकल्पं शान्तौ यदवशिष्यते ।
नातः सत्यमिदं दृश्यं न चासत्यं कदाचन ॥३३॥
द्वयमेवैतदथवा ब्रह्म तत्रैव संभवात् ।
आकाशे परमाण्वन्तर्द्रव्यादेरणुकेऽपि च ॥३४॥
जीवाणुर्यत्र तत्रेदं जगद्वेत्ति निजं वपुः ।
अग्निरौष्ण्यं यथा वेत्ति निजभावक्रमोदितम् ॥३५॥
पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित् ।
यथा सूर्योदये गेहे भ्रमन्ति त्रसरेणवः ॥३६॥
तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः ।
यथा वायौ स्थितः स्पन्द आमोदः शून्यमम्बरे ॥३७॥
पिण्डग्रहविनिर्मुक्तं तथा विश्वं स्थितं परे ।
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ॥३८॥
विवर्जितस्यावयवैर्भागा ब्रह्मण ईदृशाः ।
साकारस्यावबोधाय विज्ञेया भवताधुना ॥३९॥
अनन्याः स्वात्मनस्तस्य तेनानवयवा इव ।
यथास्थितमिदं विश्वं निजभावक्रमोदितम् ॥४०॥
रिक्तं न विश्वशब्दार्थैरनन्यद्ब्रह्मणि स्थितम् ।
न तत्सत्यं न चासत्यं रज्जुसर्पभ्रमो यथा ॥४१॥
मिथ्यानुभूतितः सत्यमसत्यं सत्परीक्षितम् ।
परमं कारणं चित्त्वाज्जीवत्वमिति चेत्यलम् ॥४२॥
ततस्तथैवानुभवाज्जीवत्वं विन्दति स्फुटम् ।
सत्यं भवत्वसत्यं वा खे विभातमिदं जगत् ॥४३॥
रञ्जयत्येव जीवाणुः स्वेच्छाभिरनुभूतिभिः ।
अनुभूयन्तु एवाशु काश्चित्पूर्वानुभूतितः ॥४४॥
अपूवानुभवाः काश्चित्समाश्चैवासमास्तथा ।
क्वचित्कदाचित्ता एव क्वचिदर्धसमा अपि ॥४५॥
कचन्त्यसत्याः सत्याभा जीवाकाशेऽनुभूतयः ।
तत्कुलास्तत्समाचारास्तज्जन्मानस्तदीहिताः ॥४६॥
त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति च ।
ते चैवात्मन्यलं सत्या देशकालेहितैः समाः ॥४७॥
सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः ।
यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी ॥४८॥
तथा तदग्रगोदेति सत्येव प्रतिभाम्बरे ।
त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुर्मयी ॥४९॥
इति लीलेयमाभाति प्रतिभाप्रतिबिम्बजा ।
सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति ॥५०॥
यादृशी यत्र सा तत्र तथोदेति निरन्तरम् ।
जीवाकाशस्य यान्तस्था प्रतिभा कुरुते स्वयम् ।
सा बहिश्च चिदादर्शे प्रतिबिम्बादियं स्थिता ॥५१॥
एषा त्वमम्बरमहं भुवनं धरा च
राजेति सर्वमहमेव विभातमात्रम् ।
चिद्व्योमबिल्वजठरं विदुरङ्ग विद्धि
त्वं तेन शान्तमलमास्स्व यथास्थितेह ॥५२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो ० अग्निदाहरात्रियुद्धे जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥४४॥
N/A
References : N/A
Last Updated : September 11, 2021
TOP