संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८९ Translation - भाषांतर भानुरुवाच ।मनो हि जगतां कर्तृ मनो हि पुरुषः परः ।मनःकृतं कृतं लोके न शरीरकृतं कृतम् ॥१सामान्यब्राह्मणा भूत्वा मनोभावनया किल ।ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥२मनसा भाव्यमानो हि देहतां याति देहकः ।देहभावनयाऽयुक्तो देहधर्मैर्न बाध्यते ॥३बाह्यदृष्टिर्हि नियतं सुखदुःखादि विन्दति ।नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये ॥४मनःकारणकं तस्माज्जगद्विविधविभ्रमम् ।इन्द्रस्याहल्यया सार्धं वृत्तान्तोऽत्र निदर्शनम् ॥५श्रीब्रह्मोवाच ।काहल्या भगवन्भानो को वात्रेन्द्रस्तमोनुद ।ययोरुदन्तश्रवणे पावनी दृष्टिरेति हि ॥६भानुरुवाच ।श्रूयते हि पुरा देव मागधेषु महीपतिः ।इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः ॥७तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना ।अहल्या नाम तत्रासीच्छशाङ्कस्येव रोहिणी ॥८तस्मिन्नेव पुरे षिङ्गः षिङ्गप्रकरशेखरः ।इन्द्रनामा परः कश्चिद्धीमान्विप्रकुमारकः ॥९॥अहल्या पूर्वमिन्द्रस्य बभूवेष्टेत्यहल्यया ।श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित् ॥१०॥आकर्ण्यैवमहल्या सा बभूवेन्द्रानुरागिणी ।अहल्यां मां स नो कस्मात्सक्तोऽभ्येतीत्यथोत्सुका ॥११॥मृणालभारकदलीपल्लवास्तरणेषु सा ।अतप्यत भृशं बाला लता लूना वनेष्विव ॥१२॥खेदमाप समग्रासु तासु भूपविभूतिषु ।मत्सी निदाघतप्तासु परिलोला स्थलीष्विव ॥१३॥अयमिन्द्रोऽयमिन्द्रश्चेत्येवं जातप्रलापया ।लज्जापि हि तया त्यक्ता वैवश्यमनुयातया ॥१४॥इत्यार्तया घनस्नेहमथ तस्या वयस्यया ।उक्तं तया प्रियेऽविघ्नमिन्द्रमभ्यानयाम्यहम् ॥१५॥इष्टं तवानयामीति श्रुत्वा विकसितेक्षणा ।पपात पादयोः सख्या नलिन्या नलिनी यथा ॥१६॥ततः प्रयाते दिवसे समायाते निशागमे ।सा वयस्या तमिन्द्राख्यं ययौ द्विजकुमारकम् ॥१७॥बोधयित्वा यथायुक्तं सा तमिन्द्रमथाङ्गना ।अहल्यानिकटं रात्र्यामानयामास सत्वरम् ॥१८॥ततः सा तेन षिङ्गेन सहेन्द्रेण रतिं ययौ ।कस्मिंश्चित्सदने गुप्ते बहुमाल्यविलेपना ॥१९॥हाराङ्गदमनोज्ञेन तरुणी तेन सा तदा ।रतेनावर्जिता वल्ली रसेन मधुना यथा ॥२०॥ततस्तदनुरक्ता सा पश्यन्ती तन्मयं जगत् ।न समस्तगुणाकीर्णं भर्तारं बह्वमन्यत ॥२१॥केनचित्त्वथ कालेन तस्या इन्द्रानुरागिता ।सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका ॥२२॥इन्द्रं ध्यायति सा यावत्तावत्तस्या विराजते ।मुखं पूर्णेन चन्द्रेण प्रबुद्धमिव कैरवम् ॥२३॥इन्द्रोऽपि च तदासक्तसमस्तकरणाकुलः ।न तिष्ठति क्षणमहो तया विरहितः क्वचित् ॥२४॥अथातिसुघनस्नेहनिरावरणचेष्टयोः ।तयोरनयवृत्तान्तो राज्ञाकर्णि कटुव्यथः ॥२५॥एवमन्योन्यमासक्तं भावमालक्ष्य भूपतिः ।चकार बहुभिर्दण्डैः स द्वयोरथ शासनम् ॥२६॥तावुभावपि संत्यक्तौ हेमन्ते सलिलाशये ।तुष्टौ जहसतुस्तत्र न खेदं समुपागतौ ॥२७॥अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती ।तावूचतुर्महीपाल जलाशयसमुद्धृतौ ॥२८॥संस्मृत्यावामिहान्योन्यमुखकान्तिमनिन्दिताम् ।आत्मानं न विजानीवो रूढभावं परस्परम् ॥२९॥शासनेषु च यत्सङ्गो निःशङ्कस्तेन हर्षितौ ।मुह्यावो न महीपाल स्वाङ्गैरपि विकर्तितैः ॥३०॥ततो भ्राष्ट्रे परिक्षिप्तावखिन्नावेवमेव तौ ।ऊचतुर्मुदितात्मानावन्योन्यस्मृतिहर्षितौ ॥३१॥ग्रथितौ गजपादेषु न खिन्नावेव संस्थितौ ।एवमेवोचतुर्भूपमन्योन्यस्मृतिहर्षितौ ॥३२॥कशाहतावखिन्नौ तावेवमेव किलोचतुः ।अन्यस्माच्छासनाद्राज्ञा कल्पिताच्च पुनः पुनः ॥३३॥उद्धृतावूचतुः पृष्टौ तमेवार्थं पुनः पुनः ।उवाचेन्द्रो महीपालं जगन्मे दयितामयम् ॥३४॥न शातनानि दुःखानि बाधन्ते किंचिदेव मे ।अस्याश्चैव जगद्राजन्सर्वं मन्मयमेव च ॥३५॥तेनान्यशासनाद्दुःखं किंचिदेव न विद्यते ।मनोमात्रमहं राजन् मनो हि पुरुषः स्मृतः ॥३६॥प्रपञ्चमात्रमेवायं देहो दृश्यत एव हि ।समकालप्रयुक्तेन सहसा दण्डराशिना ॥३७॥वीरं मनो भेदयितुं मनागपि न शक्यते ।का नाम ता महाराज कीदृश्यः कस्य शक्तयः ॥३८॥याभिर्मनांक्त भिद्यन्ते दृष्टनिश्चयवन्त्यपि ।वृद्धिमायातु वा देहो यातु वा विशरारुताम् ॥३९॥भावितार्थाभिपतितं मनस्तिष्ठति पूर्ववत् ।इष्टेऽर्थे चिरमाविष्टं दधानं तत्स्थितं मनः ॥४०॥भावाभावाः शरीरस्था नृप शक्ता न बाधितुम् ।भावितं तीव्रवेगेन मनसा यन्महीपते ॥४१॥तदेव पश्यत्यचलं न शरीरविचेष्टितम् ।न काश्चन क्रिया राजन्वरशापादिका अपि ॥४२॥तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः ।तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात् ॥४३॥मनश्चालयितुं शक्ता न महाद्रिं मृगा इव ।ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता ॥४४॥देवागारे महोत्सेधे देवी भगवती यथा ।न दुःखमनुगच्छामि प्रियया जीवरक्षया ॥४५॥गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया ।यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा ॥४६॥तत्रेष्टसंगमादन्यत्किंचिन्नानुभवाम्यहम् ।अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः ॥४७॥संसक्तमिदमायाति न स्वभावादृते परम् ।एककार्यनिविष्टं हि मनो धीरस्य भूपते ॥४८॥न चाल्यते मेरुरिव वरशापबलैरपि ।देहो हि वरशापाभ्यामन्यत्वमिव गच्छति ।ननु धीरं मनो राजन्विजिगीषुतया स्थितम् ॥४९॥एतानि चात्र मनसां न च कारणानिराजञ्शरीरशकलानि वृथोत्थितानि ।चेतो हि कारणममीषु शरीरकेषुवारीव सर्ववनखण्डलतारसेषु ॥५०॥आद्यं शरीरमिह विद्धि मनो महात्म-न्संकल्पितो जगति तेन शरीरसङ्घः ।आद्यं शरीरमधितिष्ठति यत्र यत्रतत्तद्भृशं फलति नेतरदस्य पुंसः ॥५१॥मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसोदेहास्ततः प्रविसृतास्तरुपल्लवाभाः ।नष्टेऽङ्कुरे पुनरुदेति न पल्लवश्री-र्नैवाङ्कुरः क्षयमुपैति दलक्षयेषु ॥५२॥देहे क्षते विविधदेहगणं करोतिस्वप्नावनाविव नवं नवमाशु चेतः ।चित्ते क्षते तु न करोति हि किंचिदेवदेहस्ततः समनुपालय चित्तरत्नम् ॥५३॥दिशि दिशि हरिणाक्षीमेव पश्यामि राजन्प्रिययुवतिमनस्त्वान्नित्यमानन्दितोऽस्मि ।तव पुरप्रकृतीनां यत्फलं दुःखदायिक्षणमथसुचिरं तत्तन्न पश्यामि किंचित् ॥५४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नामैकोननवतितमः सर्गः ॥८९॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP