उत्पत्तिप्रकरणं - सर्गः १०
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
महाप्रलयसंपत्तौ यदेतदवशिष्यते ।
भवत्येतदनाकारं नाम नास्त्यत्र संशयः ॥१॥
न शून्यं कथमेतत्स्यान्न प्रकाशः कथं भवेत् ।
कथं वा न तमोरूपं कथं वा नैव भास्वरम् ॥२॥
कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् ।
कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेत् ॥३॥
कथं वा नैव किंचित्स्यात्कथं वा सर्वमित्यपि ।
अनयैव वचोभङ्ग्या मम मोह इवोदितः ॥४॥
श्रीवसिष्ठ उवाच ।
विषमोऽयमतिप्रश्नो भवता समुदाहृतः ।
भेत्तास्म्यहं त्वयत्नेन नैशं तम इवांशुमान् ॥५॥
महाकल्पान्तसंपत्तौ यत्तत्सदवशिष्यते ।
तद्राम न यथा शून्यं तदिदं श्रृणु कथ्यते ॥६॥
अनुत्कीर्णा यथा स्तम्भे संस्थिता शालभञ्जिका ।
तथा विश्वं स्थितं तत्र तेन शून्यं न तत्पदम् ॥७॥
अयमित्थं महाभोगो जगदाख्योऽवभासते ।
सत्यो भवत्वसत्यो वा यत्र तत्र त्वशून्यता ॥८॥
यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णपुत्रिकः ।
तथा भातं जगद्ब्रह्म तेन शून्य न तत्पदम् ॥९॥
सौम्याम्भसि यथा वीचिर्न चास्ति नच नास्ति च ।
तथा जगद्ब्रह्मणीदं शून्याशून्यपदं गतम् ॥१०॥
देशकालादि शान्तत्वात्पुत्रिकारचनं द्रुमे ।
संभवत्ययथाऽतो वै तेनानन्ते विमुह्यते ॥११॥
तत्स्तम्भपुत्रिकाद्येतत्परमार्थे जगत्स्थितेः ।
एकदेशेन सदृशमुपमानं न सर्वथा ॥१२॥
न कदाचिदुदेतीदं परस्मान्न च शाम्यति ।
इत्थं स्थितं केवलं सद्ब्रह्म स्वात्मनि संस्थितम् ॥१३॥
अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना ।
अशून्यत्वात्संभवतः शून्यताशून्यते कुतः ॥१४॥
ब्रह्मण्ययं प्रकाशो हि न संभवति भूतजः ।
सूर्यानलेन्दुतारादिः कुतस्तत्र किलाव्यये ॥१५॥
महाभूतप्रकाशानामभावस्तम उच्यते ।
महाभूताभावजं तु तेनात्र न तमः क्वचित् ॥१६॥
स्वानुभूतिः प्रकाशोऽस्य केवलं व्योमरूपिणः ।
योऽन्तरस्ति स तेनैव नत्वन्येनानुभूयते ॥१७॥
मुक्तं तमःप्रकाशाभ्यामित्येतदजरं पदम् ।
आकाशकोशमेवेदं विद्धि कोशं जगत्स्थितेः ॥१८॥
बिल्वस्य बिल्वमध्यस्य यथा भेदो न कश्चन ।
तथास्ति ब्रह्मजगतोर्न मनागपि भिन्नता ॥१९॥
सलिलान्तर्यथा वीचिर्मृदन्तर्घटको यथा ।
तथा यत्र जगत्सत्ता तत्कथं खात्मकं भवेत् ॥२०॥
भूर्जलाद्युपमानश्रीः साकारान्ता समानसा ।
ब्रह्म त्वाकाशविशदं तस्यान्तस्थं तथैव तत् ॥२१॥
तस्माद्यादृक्चिदाकाशमाकाशादपि निर्मलम् ।
तदन्तस्थं तादृगेव जगच्छब्दार्थभागपि ॥२२॥
मरीचेऽन्तर्यथा तैक्ष्ण्यमृते भोक्तुर्न लक्ष्यते ।
चिन्मात्रत्वं चिदाकाशे तथा चेत्यकलां विना ॥२३॥
तस्माच्चिदप्यचिद्रूपं चेत्यरिक्तं तदात्मनि ।
जगत्ता तादृगेवेयं तावन्मात्रात्मतावशात् ॥२४॥
रूपालोकमनस्कारास्तन्मया एव नेतरत् ।
यथास्थितमतो विश्वं सुषुप्तं तुर्यमेव वा ॥२५॥
तेन योगी सुषुप्तात्मा व्यवहार्यपि शान्तधीः ।
आस्ते ब्रह्म निराभासं सर्वाभाससमुद्गकः ॥२६॥
आकारिणि यथा सौम्ये स्थितास्तोये महोर्मयः ।
अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ॥२७॥
पूर्णात्पूर्णं प्रसरति यत्तत्पूर्णं निराकृति ।
ब्रह्मणो विश्वमाभातं तद्धि स्वार्थं विचक्षितम् ॥२८॥
पूर्णात्पूर्णं प्रसरति संस्थितं पूर्णमेव तत् ।
अतो विश्वमनुत्पन्नं यच्चोत्पन्नं तदेव तत् ॥२९॥
चेत्यासंभवतस्तस्मिन्यदेका जगदर्थता ।
आस्वादका संभवतो मरीचे कैव तीक्ष्णता ॥३०॥
सत्येवेयमसत्यैव चित्तचेत्यादिता परे ।
तद्भावात्प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ॥३१॥
परमाणोरपि परं तदणीयो ह्यणीयसः ।
शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ॥३२॥
दिक्कालाद्यनवच्छिन्नरूपत्वादतिविस्तृतम् ।
तदनाद्यन्तमाभासं भासनीयविवर्जितम् ॥३३॥
चिद्रूपमेव नो यत्र लभ्यते यत्र जीवता ।
कथं स्याच्चित्तताकारा वासना नित्यरूपिणी ॥३४॥
चिद्रूपानुदयादेव तत्र नास्त्येव जीवता ।
न बुद्धिता चित्तता वा नेन्द्रियत्वं न वासना ॥३५॥
एवमित्थं महारम्भपूर्णमप्यजरं पदम् ।
अस्मद्दृष्ट्या स्थितं शान्तं शून्यमाकाशतोऽधिकम् ॥३६॥
श्रीराम उवाच ।
परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः ।
पुनरेतन्ममाचक्ष्व निपुणं बोधवृद्धये ॥३७॥
श्रीवसिष्ठ उवाच ।
महाप्रलयसंपत्तौ सर्वकारणकारणम् ।
शिष्यते परमं ब्रह्म तदिदं वर्ण्यते श्रृणु ॥३८॥
नाशयित्वा स्वमात्मानं मनसो वृत्तिसंक्षये ।
सद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः ॥३९॥
नास्ति दृश्यं जगद्द्रष्टा दृश्याभावाद्विलीनवत् ।
भातीति भासनं यत्स्यात्तद्रूपं तस्य वस्तुनः ॥४०॥
चितेर्जीवस्वभावाया यदचेत्योन्मुखं वपुः ।
चिन्मात्रं विमलं शान्तं तद्रूपं परमात्मनः ॥४१॥
अङ्गलग्नेऽपि वातादौ स्पर्शाद्यनुभवं विना ।
जीवतश्चेतसो रूपं यत्तद्वै परमात्मनः ॥४२॥
अस्वप्नाया अनन्ताया अजडाया मनःस्थितेः ।
यद्रूपं चिरनिद्रायास्तत्तदानघ शिष्यते ॥४३॥
यद्व्योम्नो हृदयं यद्वा शिलायाः पवनस्य च ।
तस्याचेत्यस्य चिद्व्योम्नस्तद्रूपं परमात्मनः ॥४४॥
अचेत्यस्यामनस्कस्य जीवतो या स्वभावतः ।
स्यात्स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः ॥४५॥
चित्प्रकाशस्य यन्मध्यं प्रकाशस्यापि खस्य वा ।
दर्शनस्य च यन्मध्यं तद्रूपं ब्रह्मणो विदुः ॥४६॥
व्रेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा ।
वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः ॥४७॥
यतो जगदुदेतीव नित्यानुदितरूप्यपि ।
विभिन्नवदिवाभिन्नं तद्रूपं परमार्थकम् ॥४८॥
व्यवहारपरस्यापि यत्पाषाणवदासनम् ।
अव्योम्न एव व्योमत्वं तद्रूपं परमात्मनः ॥४९॥
वेद्यवेदनवेत्तृत्वरूपत्रयमिदं पुरः ।
यत्रोदेत्यस्तमायाति तत्तत्परमदुर्लभम् ॥५०॥
वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति ।
अबुद्ध्यादौ महादर्शे तद्रूपं परमं स्मृतम् ॥५१॥
मनः स्वप्नेन्द्रियैर्मुक्तं यद्रूपं स्यान्महाचितेः ।
जङ्गमे स्थावरे वापि तत्सर्वान्तेऽवशिष्यते ॥५२॥
स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत् ।
मनोबुद्ध्यादिनिर्मुक्तं तत्परेणोपमीयते ॥५३॥
ब्रह्मार्कविष्णुहरशक्रसदाशिवादि
शान्तौ शिवं परममेतदिहैकमास्ते ।
सर्वोपधिव्ययवशादविकल्परूपं
चैतन्यमात्रमयमुज्झितविश्वसङ्गम् ॥५४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे महाकल्पान्तावशिष्टपरमभाववर्णनं नाम दशमः सर्गः ॥१०॥
N/A
References : N/A
Last Updated : September 07, 2021
TOP