संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ८५

उत्पत्तिप्रकरणं - सर्गः ८५

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
पुरा मे ब्रह्मणा प्रोक्तं सर्वं तत्कथयानघ ।
यदिदं तत्प्रवक्ष्यामि त्वयि पृच्छति राघव ॥१॥
पुरा मया हि भगवान्पृष्टः कमलसंभवः ।
इमे कथमुपायान्ति ब्रह्मन्सर्गगणा इति ॥२॥
तदुपाश्रुत्य भगवान्ब्रह्मा लोकपितामहः ।
ऐन्दवाख्यानसहितं मामुवाच बृहद्वचः ॥३॥
ब्रह्मोवाच ।
सर्वं हि मन एवेदमित्थं स्फुरति भूतिमत् ।
जलं जलाशयस्फारैर्विचित्रैश्चक्रकैरिव ॥४॥
दिनादौ संप्रबुद्धस्य संसारं सृष्टुमिच्छतः ।
पुराकल्पे हि कस्मिश्चिच्छृणु किं वृत्तमङ्ग मे ॥५॥
कदाचिदखिलं सर्गं संहृत्य दिवसक्षये ।
एक एवाहमेकाग्रः स्वस्थस्तामनयं निशाम् ॥६॥
निशान्ते संप्रबुद्धात्मा संध्यां कृत्वा यथाविधि ।
प्रजाः स्रष्टुं दृशौ स्फारे व्योम्नि योजितवानहम् ॥७॥
यावत्पश्यामि गगनं न तमोभिर्न तेजसा ।
व्याप्तमत्यन्तविततं शून्यमन्तविवर्जितम् ॥८॥
सर्गं संकल्पयामीति मतिं निश्चित्य तन्मया ।
समवेक्षितुमारब्धं शुद्धं सूक्ष्मेण चेतसा ॥९॥
अथाहं दृष्टवांस्तत्र मनसा विततेऽम्बरे ।
पृथक्स्थितान्महारम्भान्सर्गान्स्थितिनिरर्गलान् ॥१०॥
तेषु मत्प्रतिबिम्बाभाः पद्मकोशनिवासिनः ।
राजहंसान्समारूढाः संस्थिता दश पद्मजाः ॥११॥
पृथक्स्थितेषु सर्गेषु तेषूद्यद्भूतपङ्क्तिषु ।
जलजालेषु शुद्धेषु जगत्सु जलदायिषु ॥१२॥
प्रवहन्ति महानद्यः प्रध्वनन्ति यथाब्धयः ।
प्रतपन्त्युष्णरुचयः प्रस्फुरन्त्यम्बरेऽनिलाः ॥१३॥
दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवाः ।
दानवा भोगिनश्चैव पातालेषु च संस्थिताः ॥१४॥
कालचक्रपरिप्रोता यद्भावाः सकलर्तवः ।
यथाकालं फलापूर्णा भूषयन्त्यभितो महीम् ॥१५॥
प्रौढ्यं शुभाशुभाचारस्मृतयः ककुभं प्रति ।
नरकस्वर्गफलदाः सर्वत्र समुपागताः ॥१६॥
भोगमोक्षफलार्थिन्यः समस्ता भूतजातयः ।
स्वमीहितं यथाकालं प्रयतन्ते यथाक्रमम् ॥१७॥
सप्तलोकास्तथा द्वीपाः समुद्रा गिरयस्तथा ।
अप्येष्यमाणाः कल्पान्तं स्फुरन्त्युरुतरारवम् ॥१८॥
क्वचिद्भासित्वमायातं क्वचित्स्थिरतरं स्थितम् ।
स्थितं सर्वत्र कुञ्जेषु तमस्तेजोलवादृतम् ॥१९॥
नभोनीलोत्पलस्यान्तर्भ्रमदभ्रमधुव्रतम् ।
प्रस्फुरत्तारकाजालकेसरापूर्णतां गतम् ॥२०॥
कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः ।
शाल्मलेरमलं तूलमष्ठीलाकोटरेष्विव ॥२१॥
लोकालोकाद्रिरसनारणदर्णवघुंघुमा ।
तमःखण्डेन्द्रनीलाभा निजरत्नविराजिता ॥२२॥
धानाधरसुधा भूतरवकाकलिघुंघुमा ।
संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना ॥२३॥
गौराङ्गपङक्तिर्मध्यस्था रजनीराजिरञ्जिता ।
पद्मोत्पलस्रज इव लक्ष्यते वत्सरश्रियः ॥२४॥
बहुगर्तविभागस्थभूता लोकाः पृथक्पृथक् ।
जातारुणा विलोक्यन्तेदाडिमानीवकान्तिकाः ॥२५॥
त्रिप्रवाहा त्रिपथगा कृतोर्ध्वाधोगमागमा ।
जगद्यज्ञोपवीताभा स्फुरतीन्दुकलामला ॥२६॥
इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च ।
दिग्लतासु तडित्पुष्पा वातार्ता मेघपल्लवाः ॥२७॥
गन्धर्वनगरोद्यानलतावितानमालिनी ।
समुद्रभूमिनभसां पदवी प्रविराजते ॥२८॥
लोकान्तरेषु सङ्घेन देवासुरनरोरगाः ।
उदुम्बरेषु मशका इव घुंघुमिताः स्थिताः ॥२९॥
युगकल्पक्षणलवकलाकाष्ठाकलङ्कितः ।
कालो वहत्यकलितसर्वनाशप्रतीक्षकः ॥३०॥
एवमालोक्य शुद्धेन परेण स्वेन चेतसा ।
भृशं विस्मयमापन्नः किमेतत्कथमित्यलम् ॥३१॥
कथं मांसमयेनाक्ष्णा यन्न पश्यामि किंचन ।
तन्मायाजालमतुलं पश्यामि मनसाम्बरे ॥३२॥
अथालोक्य चिरं कालं मनसैवाहमम्बरात् ।
अर्कं तस्माज्जगज्जालादेकमानीय पृष्टवान् ॥३३॥
आगच्छ देवदेवेश भो भास्कर महाद्युते ।
स्वागतं तेऽस्त्विति प्रोक्तो मयासौ कथितोप्यथ ॥३४॥
कस्त्वं कथमिदं जातं जगदेव जगन्ति च ।
यदि जानासि भगवंस्तदेतत्कथयानघ ॥३५॥
इत्युक्तो मां समालोक्य संपरिज्ञातवानथ ।
नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा ॥३६॥
श्रीभानुरुवाच ।
अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि ।
गतः कस्मान्न जानीषे किं मामीश्वर पृच्छसि ॥३७॥
अथ मद्वाक्यसंदर्भे लीला चेत्तव सर्वग ।
अचिन्तितां मदुत्पत्तिं तच्छृणुष्व वदाम्यहम् ॥३८॥
सदसदिति कलाभिराततं यत्
सदसदबोधविमोहदायिनीभिः ।
अविरतरचनाभिरीश्वरात्मन्
प्रविलसतीह मनो महन्महात्मन् ॥३९॥
इत्यार्षे श्रीवशिष्ठमहारामायणे वा० मो० उ० ऐन्दवोपाख्यानोपक्रमे ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः ॥८५॥

N/A

References : N/A
Last Updated : September 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP