संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ४१ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ४१ योगवासिष्ठःसर्गः ४२ Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ४१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तयोः प्रविष्टयोर्देव्योः पद्मसद्म बभूव तत् ।चन्द्रद्वयोदयोद्द्योतधवलोदरसुन्दरम् ॥१॥कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् । तत्प्रभावेन निद्रालुनृपेतरनराङ्गनम् ॥२॥सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् ।सवसन्तं वनमिव फुल्लं प्रातीरवाम्बुजम् ॥३॥तयोर्देहप्रभापूरैः शशिनिस्यन्दशीतलैः ।आह्लादितोऽसौ बुबुधे राजोक्षित इवामृतैः ॥४॥आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम् ।मेरुशृङ्गद्वये चन्द्रबिम्बद्वयमिवोदितम् ॥५॥निमेषमिव संचिन्त्य स विस्मितमना नृपः ।उत्तस्थौ शयनाच्छेषादिव चक्रगदाधरः ॥६॥परिसंयमितालम्बिमाल्यहाराधराम्बरः ।पुष्पाहार इवोत्फुल्लं जग्राह कुसुमाञ्जलिम् ॥७॥उपधानप्रदेशस्थात्स्वयं पटलकोटरात् ।बद्धपद्मासनो भूमौ भूत्वोवाचेदमानतः ॥८॥जयतां जन्मदोस्थित्यदाहदोषशशिप्रभे ।देव्यौ बाह्यान्तरतमोविद्रावणरविप्रभे ॥९॥तयोरुक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम् ।तीरद्रुमो विकसितः पद्मिन्यो पद्मयोरिव ॥१०॥लीलायै भूपजन्माथ वक्तुं मन्त्रिणमीश्वरी ।बोधयामास पार्श्वस्थं संकल्पेन सरस्वती ॥११॥प्रबुद्धोप्सरसौ दृष्ट्वा प्रणम्य कुसुमाञ्जलिम् ।तयोः पादेषु संत्यज्य विवेश पुरतो नतः ॥१२॥उवाच देवी हे राजन्कस्त्वं कस्य सुतः कदा ।इह जात इति श्रुत्वा स मन्त्री वाक्यमब्रवीत् ॥१३॥देव्यौ युष्मत्प्रसादोऽयं भवत्योरपि यत्पुरः ।वक्तुं शक्नोमि तद्देव्यौ श्रूयेतां जन्म मत्प्रभोः ॥१४॥आसीदिक्ष्वाकुवंशोत्थो राजा राजीवलोचनः ।श्रीमान्कुन्दरथो नाम दोश्छायाच्छादितावनिः ॥१५॥तस्याभूदिन्दुवदनः पुत्रो भद्ररथाभिधः ।तस्य विश्वरथः पुत्रस्तस्य पुत्रो बृहद्रथः ॥१६॥तस्य सिन्धुरथः पुत्रस्तस्य शैलरथः सुतः ।तस्य कामरथः पुत्रस्तस्य पुत्रो महारथः ॥१७॥तस्य विष्णुरथः पुत्रस्तस्य पुत्रो नभोरथः ।अयमस्मत्प्रभुस्तस्य पुत्रः पूर्णामलाकृतिः ॥१८॥अमृतापूरितजनः क्षीरोदस्येव चन्द्रमाः ।महद्भिः पुण्यसंभारैर्विदूरथ इति श्रुतः ॥१९॥जातो मातुः सुमित्राया गौर्या गुह इवापरः ।पितास्य दशवर्षस्य दत्त्वा राज्यं वनं गतः ॥२०॥पालयत्येष भूपीठं ततः प्रभृति धर्मतः ।भवत्यावद्यसंप्राप्ते फलिते सुकृतद्रुमे ॥२१॥देव्यौ दीर्घतपःक्लेशशतैर्दुष्प्रापदर्शने ।इत्ययं वसुधाधीशो विदूरथ इति श्रुतः ॥२२॥अद्य युष्मत्प्रसादेन परां पावनतां गतः ।इत्युक्त्वा संस्थिते तूष्णीं मन्त्रिण्यवनिपे तथा ॥२३॥कृताञ्जलौ नतमुखे बद्धपद्मासनेऽवनौ ।राजन्स्मर विवेकेन पूर्वजातिमिति स्वयम् ॥२४॥वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती ।अथ हार्दं तमो मायापद्मस्य क्षयमाययौ ॥२५॥सुविकासं च हृदयं ज्ञप्तिस्पर्शोदयेऽभवत् ।सस्मार पूर्ववृत्तान्तमन्तः स्फुरदिव स्थितम् ॥२६॥त्यक्तदेहैकराज्यत्वं लीलाविलसितान्वितम् ।ज्ञात्वा प्रज्ञप्तिवृत्तान्तं लीलायास्तु विजृम्भितम् ॥२७॥आत्मोदन्तं बभूवासावुह्यमान इवार्णवे ।उवाचात्मनि संसारे बत मायेयमातता ॥२८॥परिज्ञाता प्रसादेन देव्योरिह मयाधुना ।राजोवाच ।हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे ॥२९॥गतमद्येह जातानि वयो वर्षाणि सप्ततिः ।स्मराम्यनेककार्याणि स्मरामि प्रपितामहम् ॥३०॥स्मरामि बाल्यं तारुण्यं मित्रं बन्धुपरिच्छदम् ।ज्ञप्तिरुवाच ।राजन्मृतिमहामोहमूर्च्छायाः समनन्तरम् ॥३१॥तस्मिँल्लोकान्तरेऽतीते तस्मिन्नेव मुहूर्तके ।तस्मिन्नेव गृहे चास्मिन्नेव व्योम्न्यपि सद्मनि ॥३२॥अयं तस्य गृहस्यान्तर्व्योमन्येव किल स्थिते ।गिरिग्रामकविप्रस्य गृहेऽन्तर्भूप मण्डपः ॥३३॥तस्यान्तरेऽयमाभाति प्रत्येकं च जगद्गृहम् ।किल ब्राह्मणगेहान्तर्जीवस्ते मदुपास्थितः ॥३४॥तत्रैव तस्य भूपीठं तस्मिंश्च किल मण्डपे ।तस्यैव च गृहस्यान्तरिदं संसारमण्डलम् ॥३५॥तन्नैवेदं तव गृहं स्थितमारम्भमन्थरम् ।तत्रैव चेतसि तव निर्मलाकाशनिर्मले ॥३६॥प्रतिभामागतमिदं व्यवहारभ्रमाततम् ।यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम ॥३७॥एवंनामान एते मे पुराभूवन्पितामहाः ।जातोऽहमभवं बालो दशवर्षस्य मे पिता ॥३८॥परिव्राड्विपिनं यात इह राज्येऽभिषिच्य माम् ।ततो दिग्विजयं कृत्वा कृत्वा राज्यमकण्टकम् ॥३९॥अमीभिर्मन्त्रिभिः पौरैः पालयामि वसुन्धराम् ।यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः ॥४०॥वयसः समतीतानि मम वर्षाणि सप्ततिः ।इदं परबलं प्राप्तं मम दारुणविग्रहः ॥४१॥युद्धं कृत्वेदमायातो गृहमस्मिन्यथास्थितम् ।इमे देव्यौ गृहे प्राप्ते ममैते पूजयाम्यहम् ॥४२॥पूजिता हि प्रयच्छन्ति देवताः स्वसमीहितम् ।ममेयमेतयोरेका ज्ञानं जातिस्मृतिप्रदम् ॥४३॥इह दत्तवती देवी भाब्जस्येव विकासनम् ।इदानीं कृतकृत्योऽस्मि जातोऽस्मि गतसंशयः ॥४४॥शाम्यामि परिनिर्वामि सुखमासे च केवलम् ।इतीयमातता भ्रान्तिर्भवतो भूरिसंभ्रमा ॥४५॥नानाचारविहाराढ्या सलोकान्तरसंचरा ।यस्मिन्नेव मुहूर्ते त्वं मृतिमभ्यागतः पुरा ॥४६॥तदैव प्रतिभैषा ते स्वयमेवोदिता हृदि ।एकामावर्तचलनां त्यक्त्वा दत्ते यथाऽपराम् ॥४७॥क्षिप्रमेव नदीवाहो वित्प्रवाहस्तथैव च ।आवर्तान्तरसंमिश्रो यथावर्तः प्रवर्तते ॥४८॥कदाचिदेवं सर्गश्रीर्मिश्राऽमिश्रा च वर्धते ।तस्मिन्मृतिमुहूर्ते ते प्रतिभानमुपागतम् ॥४९॥एतज्जालमसद्रूपं चिद्भानोः समुपस्थितम् ।यथा स्वप्नमुहूर्तेऽन्तः संवत्सरशतभ्रमः ॥५०॥यथा संकल्पनिर्माणे जीवनं मरणं पुनः ।यथा गन्धर्वनगरे कुड्यमण्डनवेदनम् ॥५१॥यथा नौयानसंरम्भे वृक्षपर्वतवेपनम् ।यथा स्वधातुसंक्षोभे पूर्वपर्वतनर्तनम् ॥५२॥यथा समञ्जसं स्वप्ने स्वशिरःप्रविकर्तनम् ।मिथ्यैवैवमियं प्रौढा भ्रान्तिराततरूपिणी ॥५३॥वस्तुतस्तु न जातोऽसि न मृतोऽसि कदाचन ।शुद्धविज्ञानरूपस्त्वं शान्त आत्मनि तिष्ठसि ॥५४॥पश्यसीवैतदखिलं न च पश्यसि किंचन ।सर्वात्मकतया नित्यं प्रकचस्यात्मनात्मनि ॥५५॥महामणिरिवोदार आलोक इव भास्वरः ।वस्तुतस्तु न भूपीठमिदं न च भवानयम् ॥५६॥न चेमे गिरयो ग्रामा न चैते न च वै वयम् ।गिरिग्रामकविप्रस्य मण्डपाकाशके किल ॥५७॥तल्लीलाभर्तृदाराढ्यं जगदाभाति भास्वरम् ।तत्र लीलाराजधानी मण्डपामण्डिताकृतिः ॥५८॥भाति तस्योदरे व्योम्नि तदेवं विदितं जगत् ।तस्मिञ्जगति गेहेऽन्तर्यस्मिन्वयमिह स्थिताः ॥५९॥एवं तेषां मण्डपानां व्योमाव्योमैव निर्मलम् ।तथैव मण्डपेष्वस्ति न मही न च पत्तनम् ॥६०॥न वनानि न शैलौघा न मेघसरिदर्णवाः ।केवलं तत्र निःशून्ये विहरन्ति गृहे जनाः ॥६१॥न पश्यन्ति जना नापि पार्थिवा न च भूधराः ।विदूरथ उवाच ।एवं चेत्तत्कथं देवि ममेहानुचरा इमे ॥६२॥संपन्ना आत्मना सन्ति ते किमात्मनि नोऽथवा ।जगत्स्वप्नार्थवद्भाति तस्य स्वप्ननरादयः ॥६३॥कथमात्मनि सत्याः स्युर्न सत्या वेति मे वद ।श्रीसरस्वत्युवाच ।राजन्विदितवेद्येषु शुद्धबोधैकरूपिषु ॥६४॥न किंचिदेतत्सद्रूपं चिद्व्योमात्मसु जागतम् ।शुद्धबोधात्मनो भाति कृतो नाम जगद्भ्रमः ॥६५॥रज्ज्वां सर्पभ्रमे शान्ते पुनः सर्पभ्रमः कुतः ।असद्भावे परिज्ञाते कुतः सत्ता जगद्भ्रमे ॥६६॥परिज्ञाते मृगजले पुनर्जलमतिः कुतः ।स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणं कुतः ।स्वस्वप्ने स्वप्नमृतिभीरमृतस्यैव जायते ॥६७॥बुद्धस्य शुद्धस्य शरन्नभःश्रीःस्वच्छावदातातितताशयस्य ।अहं जगच्चेति कुशब्दकार्थोन वस्तुतः सोऽङ्ग हि वाचिकं तत् ॥६८॥इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥६९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने भ्रान्तिविचारवर्णनं नामैकचत्वारिशः सर्गः ॥४१॥पञ्चमदिनम् । N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP