संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ४८ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ४८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ४८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।प्राप्य राजा पुरः प्राप्तं सिन्धुमुद्धुरकन्धरम् ।मध्याह्नतपनान्तेन कोपेन विततोऽभवत् ॥१॥धनुरास्फालयामास चिरारावितदिङ्मुखम् ।कल्पान्तपवनास्फोट इव मेरुगिरेस्तटम् ॥२॥विससर्जोर्जितो राजा प्रलयार्कः करानिव ।तूणीररजनीबद्धाः शिलीमुखपरम्पराः ॥३॥एक एव विनिर्याति गुणात्तस्य शिलीमुखः ।सहस्रं भवति व्योम्नि गच्छन्पतति लक्षशः ॥४॥सिन्धोरपि तथैवासीच्छक्तिर्लाघवमेव च ।वरेण वरदस्यैवं विष्णोर्धानुष्कता तयोः ॥५॥मुसला नाम ते बाणा मुसलाकृतयोऽम्बरम् ।छादयामासुरुन्नादाः कल्पान्ताशनयो यथा ॥६॥रेजुः कनकनाराचराजयो व्योम्नि सस्वनाः ।रसन्त्यः कल्पवातार्ताः पतन्त्य इव तारकाः ॥७॥विदूरथाच्छरासारा अजस्रमभिनिर्ययुः ।अब्धेरिव पयःपूराः सूर्यादिव मरीचयः ॥८॥प्रचण्डपवनोद्धूतात्पुष्पाणीव महातरोः ।अयःपिण्डादिवोत्तप्तात्ताडितात्कणपङ्कयः ॥९॥धारा वर्षमुच इव सीकरा इव निर्झरात् ।तत्पुराग्निमहादाहात्स्फुलिङ्गा इव भासुराः ॥१०॥तयोश्चटचटास्फोटं शृण्वत्कोदण्डयोर्द्वयोः ।बलद्वयमभूत्प्रेक्षामूकं शान्त इवाम्बुधिः ॥११॥वहन्ति स्म शरापूरा गङ्गापूरा इवाम्बरे ।सिन्धोरभिमुखं युद्धे घर्घरारावरंहसः ॥१२॥कचत्कनकनाराचशरवर्षा अनारतम् ।वहच्छवशवाशब्द निर्ययुर्धनुरम्बुदात् ॥१३॥बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे ।वातायनात्तमालोक्य लीला तत्पुरवासिनी ॥१४॥तेन बाणसमूहेन जयमाशङ्क्य भर्तरि ।उवाच वाक्यमानन्दविकसन्मुखपङ्कजा ॥१५॥जय देवि जयत्येष नाथोऽस्माकं विलोकय ।किंचानेन शरौघेण मेरुरप्येति चूर्णताम् ॥१६॥तस्यामेव वदन्त्या तु घनस्नेहरवाकुलम् ।प्रेक्षणव्यग्रयोर्देव्योर्हसन्त्योर्मानुषीं हृदा ॥१७॥तच्छरार्णवमामत्तमपिबत्सिन्धुवाडवः ।शरोष्मणा ह्यगस्त्येन जह्नुर्मन्दाकिनीमिव ॥१८॥बाणवर्षेण कणशस्तं सायकमहाघनम् ।छित्त्वा तनुरजः कृत्वा चिक्षेप गगनार्णवे ॥१९॥यथा दीपस्य शान्तस्य न परिज्ञायते गतिः ।तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः ॥२०॥तं छित्त्वा सायकासारं शरीराम्बुधरं घनम् ।व्योम्नि प्रसारयामास रसाच्छवशतान्वितम् ॥२१॥विदूरथस्तमप्याशु व्यधमत्सायकोत्तमैः ।सामान्यजलदं मत्तं कल्पान्तपवनो यथा ॥२२॥कृतप्रतिकृतैरेवं बाणवर्षैर्महीपती ।व्यर्थीकृतैरनयतां प्रहारमविचारणैः ॥२३॥अथादधे मोहनास्त्रं सिन्धुर्गन्धर्वसौहृदात् ।प्राप्तं तेन ययुर्लोका विना मोहं विदूरथात् ॥२४॥व्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः ।मृता इवाभवन्योधाश्चित्रन्यस्ता इवाथवा ॥२५॥यावद्विदूरथादन्यं मोहो नयति मन्दताम् ।तावद्विदूरथो राजा प्रबोधास्त्रमथाददे ॥२६॥ततः प्रबोधमापन्नाः प्रजाः प्रातरिवाब्जिनी ।विदूरथे भवत्सिन्धुः कुद्धोऽर्क इव राक्षसे ॥२७॥नागास्त्रमाददे भीमं पाशबन्धनखेददम् ।तेनाभवन्नभो व्याप्तं भोगिभिः पर्वतोपमैः ॥२८॥सर्पैर्विलसिता भूमिर्मृणालैः सरसी यथा ।संपन्ना गिरयः सर्वे कृष्णपन्नगकम्बलाः ॥२९॥पदार्थाः सर्व एवेमे विषोष्मखिन्नतां ययुः ।सपर्वतवनाभोगा ययौ विवशतां मही ॥३०॥पूताङ्गारसमाकीर्णं विषवैषम्यशंसिनः ।ववू रूक्षोष्णनीहारवाता ज्वलनरेणवः ॥३१॥विदूरथोऽथ सौपर्णमाददेऽस्त्रं महास्त्रवित् ।उदगुर्गरुडास्त्रेण सौपर्णाः पर्वता इव ॥३२॥काञ्चनीकृतसर्वाशाः सर्वाशापरिपूरकाः ।पक्षपर्वतसंरम्भजनितप्रलयानिलाः ॥३३॥घोणानिलजवाकृष्टश्वसद्भुजगमण्डलाः ।महाघुरघुरारावपूरिताम्भोधिखण्डकाः ॥३४॥स सुपर्णघनोऽपात्तं सर्पौघं भूप्रपूरकम् ।कष्टं शलशलायन्तमगस्त्य इव वारिधिम् ॥३५॥सर्पकम्बलनिर्मुक्तं भूमण्डलमराजत ।चिरात्तमवनीरन्ध्रमिव निर्वारिराशि च ॥३६॥ततस्तद्गरुडानीकं क्वाप्यगच्छददृश्यताम् ।दीपौघ इव वातेन शरदेवाब्दमण्डलम् ॥३७॥वज्रभीत्येव पक्षौघपर्वतप्रकरः पुरः ।स्वप्नदृष्टं जगदिव संकल्पपुरपूरवत् ॥३८॥ततस्तमोऽस्त्रमसृजत्सिन्धुरन्धान्धकारदम् ।तेनान्धकारो ववृधे कृष्णो भूजठरोपमः ॥३९॥रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् ।मत्स्या इवाभवन्सेनास्ताराश्च मणयोऽभवन् ॥४०॥अन्धकारप्रवृत्तेन मषीपङ्कार्णवोपमम् ।कज्जलाचलसंभारोद्भूतकल्पानिलैरिव ॥४१॥अन्धकूपे निपतिता इवासन्सकलाः प्रजाः ।कल्पान्त इव संशेमुर्व्यवहारा दिशं प्रतिं ॥४२॥विदूरथोऽथ मार्तण्डं दीपं ब्रह्माण्डमण्डपे ।अस्त्रं मन्त्रविदां श्रेष्ठः सृष्ट्वा मन्त्रो व्यचेष्टयत् ॥४३॥अथोदिततमोम्भोधिमर्कागस्त्यो गभस्तिभिः ।अपिबत्कृष्णमम्भोदं शरत्काल इवामलः ॥४४॥अन्धकाराम्बरोन्मुक्ता विरेजुरमला दिशः ।भूपतेः पुरतः कान्ता इव रम्यपयोधराः ॥४५॥ययुः प्रकटतामन्तरखिला वनराजयः ।लोभकज्जलजालेन मुक्ता इव सतां धियः ॥४६॥अथ कोपाकुलः सिन्धू राक्षसास्त्रं महाभयम् ।क्षणादुदीरयामास मन्त्रोदीर्णशरात्मकम् ॥४७॥उदगुर्भीषणा दिग्भ्यः परुषा वनराक्षसाः ।पातालगजफूत्कारक्षुब्धा इव महार्णवाः ॥४८॥कपिलोर्ध्वजटाधूम्राः स्फुटच्चटचटारवाः ।अग्नयो लेलिहानोग्रजिह्वा आर्द्रेन्धना इव ॥४९॥सावर्तवृत्तयो व्योम्नि भीमचीत्कारटांकृताः ।अग्निदाहा महाधूमविलोला इव सोल्मुकाः ॥५०॥दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्काक्षदेहकाः ।उदिता लोमजम्बाला दुष्पल्वलतटा इव ॥५१॥निगिरन्तः प्रधावन्तो गर्जन्तः सर्जिता इव ।जटाजालतडित्पुञ्जा जलदाः सजला इव ॥५२॥एतस्मिन्नन्तरे तस्मिँल्लीलानाथो विदूरथः ।नारायणास्त्रं प्रददे दुष्टभूतनिवारणम् ॥५३॥उदीर्यमाण एवास्मिन्मन्त्रराजेऽस्त्रराजयः ।राक्षसानां प्रशेमुस्ता अन्धकार इवोदये ॥५४॥प्रमुष्टराक्षसानीकमभवद्भुवनत्रयम् ।शरदीव गताम्भोदं व्योम निर्मलमाबभौ ॥५५॥अथ सिन्धुर्मुमोचास्त्रमाग्नेयं ज्वलिताम्बरम् ।जज्वलुः ककुभस्तेन कल्पाग्निज्वलिता इव ॥५६॥धूमाम्बुदभराच्छन्ना बभूवुः सकला दिशः ।गगने प्रोतपातालतिमिराकुलिता इव ॥५७॥बभूवुर्ज्वलिताकारा गिरयः काञ्चना इव ।प्रफुल्लवननीरन्ध्रचम्पकौघवना इव ॥५८॥ययुर्व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् ।कुङ्कुमेनोत्सवे मृत्योः समालब्धा इव स्रजः ॥५९॥ज्वलिता जनता चैकशङ्किनी सा नभःस्पृशा ।सहस्राकृतिनौवेगचलितेनेव सागरात् ॥६०॥जित्वा रिपुं पुनरसौ यथा प्रहरते तथा ।वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः ॥६१॥आययुः सलिलापूरास्तमःपूरा इवाभितः ।अधस्तादूर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः ॥६२॥भागा इव शरव्योम्नि धृतयाना इवाम्बुदाः ।महार्णवा इवोच्चस्थाः कुलशैलशिला इव ॥६३॥तमालौघा इवोड्डीनाः संधिता इव रात्रयः ।कज्जलौघा इवोद्भूता लोकालोकतटादिव ॥६४॥रसातलगुहाभोगा इव व्योमदिदृक्षवः ।महाघुरघुरारावरंहोबृंहितमूर्तयः ॥६५॥तामग्निसंततिं मत्तामाचचामाम्बुसंततिः ।भुवनव्यापिनी संध्यामाशु कृष्णेव यामिनी ॥६६॥तामग्निसंततिं पीत्वा पूरयामास भूतलम् ।जलश्रीर्जटितं देहं निद्रेव व्यक्तिमेयुषी ॥६७॥एवंविधानस्त्रमोहान्विदधुर्धावनेतरे ।मिथोमायामयानग्रे पश्यन्त्यनुभवन्ति च ॥६८॥हेतिभारवराः सिन्धोश्चक्ररक्षास्ततोऽम्भसा ।तृणानीव गताः प्रोह्य रथश्चास्याभवत्प्लुतः ॥६९॥.एतस्मिन्नन्तरे सिन्धुरस्त्रं सस्मार शोषणम् ।आपत्त्राणकरं दैवं ददौ च शररूपिणम् ॥७०॥शशामाम्बुमयी माया तेन यामेव भास्वता ।ये मृतास्ते मृता एव बभूवुः शोषिता भुवः ॥७१॥अथ मूर्खरुषा तुल्यस्तापः संतापयन्प्रजाः ।जजृम्भे झर्झराकीर्णवनविस्तारकर्कशः ॥७२॥कचत्कनकनिःस्यन्दसुन्दराङ्गच्छविर्दिशाम् ।आसीद्राजवरस्त्रीणामिवालेपोऽङ्गसंगतः ॥७३॥तेन धर्ममयीं मूर्च्छामाजग्मुस्तद्विरोधिनः ।ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव ॥७४॥विदूरथो रणोद्रेके तावत्क्रेंकारमाततम् ।कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रमथाददे ॥७५॥उदगुः पङ्क्तयोऽब्दानां यामिन्य इव संचिताः ।तमालविपिनोड्डीनसंरम्भादम्बुमन्थराः ॥७६॥वामना वारिपूरेण गर्जनोद्दामसंचराः ।महिम्नामन्थराशेषककुम्मण्डलकुण्डलाः ॥७७॥ववुरावलितासारा मेघडम्बरभेदिनः ।कीर्णसीकरनीहारभारोदाराः समीरणाः ॥७८॥प्रपुस्फुरुः सुसौवर्णसर्पापत्सरणोपमाः ।विद्युतो दिवि दैव्यस्त्रीकटाक्षवलना इव ॥७९॥जुघूर्णुर्गर्जनोच्छूनप्रतिश्रुद्धनकन्दराः ।दिशश्चलितमातङ्गसिंहर्क्षरवघर्घराः ॥८०॥महामुसलधाराभिः पेतुरासारवृष्टयः ।कष्टटंकारकठिनाः कृतान्तस्येव दृष्टयः ॥८१॥उदभूत्प्रथमं बाष्प उष्णोऽनलनिभो भुवः ।पातालादभ्रवृन्दानां युद्धायेवात्तविभ्रमः ॥८२॥ततो निमेषमात्रेण प्रशेमुर्मृगतृष्णिकाः ।परबोधरसापूरैर्यथा संसारवासनाः ॥८३॥आसीत्पङ्काङ्कमखिलं भूमण्डलमसंचरम् ।पूरितः पूर्णधाराभिः सिन्धुः सिन्धुरिवाम्बुना ॥८४॥वायव्यमस्त्रमसृजत्पूरिताकाशकोटरम् ।कल्पान्तनृत्तसंमत्तरटद्भैरवभीषणम् ॥८५॥ववुरशनिनिपातपीडिताङ्गादलितशिलाशकलाः ककुम्मुखेषु ।प्रलयसमयसूचका भटानांकृतपटुटांकृतटङ्किनः समीराः ॥८६॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० आयुधवर्णनं नामाष्टचत्वारिंशः सर्गः ॥४८॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP