उत्पत्तिप्रकरणं - सर्गः १०७
योगवासिष्ठः
राजोवाच ।
बहुनात्र किमुक्तेन सोत्सवावर्जिताशयः ।
तदाप्रभृति तत्राहं संपन्नः पुष्टपुल्कसः ॥१॥
सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टके गते ।
पुष्पिता सास्य संपन्ना स्थिता गर्भवती ततः ॥२॥
प्रसूता दुःखदां कन्यां विपद्दुःखक्रियामिव ।
सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी ॥३॥
पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम् ।
अनर्थमिव दुर्बुद्धिराशापाशविधायकम् ॥४॥
पुनः सुतां दुहितरं पुनरप्यर्भकं ततः ।
कलत्रवानहं जातो वने जरठपुल्कसः ॥५॥
तया सह समास्तत्र मया बह्व्षोऽतिवाहिताः ।
नारके चिन्तया सार्धं ब्रह्मघ्नेनेव यातनाः ॥६॥
शीतवातातपक्लेशविवशेन वनान्तरे ।
चिरं विलुलितं वृद्धकच्छपेनेव पल्वले ॥७॥
कलत्रचिन्ताह्रतया धिया संदह्यमानया ।
दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव ॥८॥
क्षौमानेकसमाक्षीणपटे चेण्डकधारिणा ।
काष्ठभारो वने व्यूढो यो मूर्तमिव दुष्कृतम् ॥९॥
यौकाकीर्णजरत्क्लिन्नगन्धिकौपीनवाससा ।
आश्वस्य धवलीकानां तले नीता घनाः समाः ॥१०॥
कलत्रापूरणोत्केन जर्जरेण हिमानिलैः ।
हेमन्ते दर्दुरेणेव विलीनं वनकुक्षिषु ॥११॥
नानाकलहकल्लोलतापप्रसरविद्रुताः ।
बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः ॥१२॥
यामिन्यो विपिने क्लिन्ने वराहामिषभोजनाः ।
शिलातलकुटीकोशे नीता जलदविक्लवाः ॥१३॥
काले क्षयं गते रोहे कालाभ्रघनतां गते ।
असौहार्देन बन्धूनां कलहैश्चापि संततैः ॥१४॥
सर्वत्र जातशङ्केन कलाभिमुखरार्भकैः ।
मया कृपणचित्तेन नीताः परगृहे समाः ॥१५॥
चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः ।
मुखं जर्जरतां यातमिन्दू राहुरदैरिव ॥१६॥
चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः ।
नारकाहृतविक्रीता नारक्यो रशना इव ॥१७॥
हिमवत्कन्दरोद्गीर्णाश्चण्डा हेमन्तवीचयः ।
शिशिरे शीकरासारतुषारनिचयाश्चिरम् ॥१८॥
अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः ।
जराजरठमूढेन मूलानि क्षीणभूरुहाम् ॥१९॥
सुकृतानामिवैकेन समुत्खातानि भूरिशः ।
शरावकेष्वटव्यां च पललं पक्वमादरात् ॥२०॥
अस्पृष्टेन जनैर्भुक्तं कुकलत्रवता मया ।
गृहीततेजःक्षतये बहुवक्रविकारिणा ॥२१॥
मार्गाविकमिवात्मीयं विक्रीतं पण्यमन्यतः ।
प्राण्यङ्गवपुषस्तस्य प्रोत्कृत्त्योत्कृत्त्य पेशलः ॥२२॥
आयसंपरि विक्रीता विन्ध्यपक्कणभूमिषु ।
जन्मान्तरसहस्रोत्थं स्वपापमिव वृद्धये ॥२३॥
अविकीर्णमसत्कीर्णं चण्डालारामभूमिषु ।
दृष्टः कुद्दालको दृष्ट्या संध्यास्नेहविमुक्तया ॥२४॥
रौरवापतितेनेव तत्कालस्निग्धतां गतः ।
विन्ध्यकन्दरगुल्मानां बन्धुत्वमिव गच्छता ॥२५॥
पुलिन्दवपुषा यत्र युक्तयोगैः समर्पिताः ।
तर्पिता लगुडाघातजितकौलेयरंहसा ॥२६॥
पुत्रदाराः कदन्नेन ग्रामकान्धोचितेन च ।
धारासाररणत्पत्रशुष्कतालतले निशाः ॥२७॥
नीता रणितदन्तेन सार्धं विपिनवानरैः ।
रोमभिः कोटिमुद्रोद्यैः शीतेनाध्युषितस्य मे ॥२८॥
वर्षासु मुक्ताकणवद्धृता वानलविन्दवः ।
अजाजीमूतखण्डार्थं क्षुत्क्षुण्णक्षीणकुक्षिणा ॥२९॥
कलत्रेण सहाटव्यां कृतः कलह आकुलः ।
वने रणितदन्तेन शीतकेकरचक्षुषा ॥३०॥
मषीमलिनगात्रेण वेतालस्वजनायितम् ।
सरित्तीरेषु मत्स्यार्थं भ्रान्तं बडिशधारिणा ॥३१॥
कल्पे जगत्सुनाशार्थं कृतान्तेनेव पाशिना ।
पीतं बहूपवासेन सद्यःकृत्तमृगोरसः ॥३२॥
तत्कालकोष्णं रुधिरं मातुः स्तनपयो यथा ।
श्मशानसंस्थितान्मत्तो रक्तरक्तान्मलाशिनः ॥३३॥
विद्रुता वनवेतालाश्चण्डिकाभिद्रुता इव ।
वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् ॥३४॥
आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः ।
मया मायामयैर्लोकाः सूत्रजालमयैः खगाः ॥३५॥
जालैर्जर्जरता नीता दिशश्चासुकृतायुषा ।
तत्रापि दत्तः प्रसरो मनसो दुष्कृतोदये ॥३६॥
आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी ।
करभ्या इव सर्पेण विद्रुतं दूरतो धिया ॥३७॥
दूरे त्यक्ता दया देहे भुजङ्गेनेव कंचुकम् ।
क्रौर्यं सुखेन संरम्भशरवर्षिं निनादि च ॥३८॥
अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः ।
विकासिन्यो क्षताः क्षारा दूरं परिहृता जनैः ॥३९॥
श्वभ्रेणेव कुमञ्जर्यश्चिरमूढा मयापदः ।
स्वकालकुलकोणासु नरकोद्दामभूमिषु ॥४०॥
उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः ।
वागुराभिर्मया विन्ध्यकन्दरस्थेन निर्दयम् ॥४१॥
भूतेष्विव कृतान्तेन मृगेषु परिवल्गितम् ।
चामरीकण्ठकुड्येषु विश्रान्तशिरसा मया ॥४२॥
सुप्तमस्तविवेकेन शेषाङ्गेष्विव शौरिणा ।
विलोलचरणाम्बरया सरावोल्लासिधूम्रया ॥४३॥
मम तन्वा सनीहारविन्ध्यकच्छगुहायितम् ।
कृष्णदेहेन यौकाढ्याकन्थास्कन्धे मया चिरम् ॥४४॥
ग्रीष्मे सोढा चलद्भूता वराहेण यथोर्वरा ।
बहुशोऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः ॥४५॥
कल्पाग्निभुक्तजगतः कालस्यानुगतिं गतः ।
लोभिलिङ्गो यथा रोगमनर्थानिव दुर्ग्रहः ।
प्रसूतास्तत्र मे दारा दुःखान्यथ सुखान्यपि ॥४६॥
नृपालपुत्रकेनैकतनयेन तदा मया ।
नीता नीरन्ध्रदोषेण षष्टिः कल्पसमाः समाः ॥४७॥
आक्रुष्टमुद्धुरतरं रुदितं विपत्सु
भुक्तं कदन्नमुषितं हतपक्कणेषु ।
कालान्तरं बहु मयोपहतेन तत्र
दुर्वासनानिगडबन्धगतेन सभ्याः ॥४८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने आपद्वर्णनं नाम सप्तोत्तरशततमः सर्गः ॥१०७॥
N/A
References : N/A
Last Updated : September 14, 2021
TOP