संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ६४

उत्पत्तिप्रकरणं - सर्गः ६४

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
योऽयं सर्वगतो देवः परमात्मा महेश्वरः ।
स्वच्छः स्वानुभवानन्दस्वरूपोऽन्तादिवर्जितः ॥१॥
एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः ।
जीवः संजायते पूर्वं स चित्तं चित्ततो जगत् ॥२॥
श्रीराम उवाच ।
स्वानुभूतिप्रमाणेऽस्मिन्ब्रह्मणि ब्रह्मबृंहिते ।
कथं सत्तामवाप्नोति जीवको द्वैतवर्जिते ॥३॥
श्रीवसिष्ठ उवाच ।
असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम् ।
बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम् ॥४॥
तस्य यत्सममापूर्णं शुद्धं सत्वमचिह्नितम् ।
तद्विदामप्यनिर्देश्यं तच्छान्तं परमं पदम् ॥५॥
तस्यैवोद्यदिवाशान्ति यत्सत्त्वं संविदात्मकम् ।
स्वभावात्स्पन्दनं तत्तु जीवशब्देन कथ्यते ॥६॥
तत्रेमाः परमादर्शे चिद्व्योम्न्यनुभवात्मिकाः ।
असंख्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः ॥७॥
ब्रह्मणः स्फुरणं किंचिद्यदवाताम्बुधेरिव ।
दीपस्येवाप्यवातस्य तं जीवं विद्धि राघव ॥८॥
शान्तत्वापगमेऽच्छस्य मनाक्संवेदनात्मकम् ।
स्वाभाविकं यत्स्फुरणं चिद्व्योम्नः सोऽङ्ग जीवकः ॥९॥
यथा वातस्य चलनं कृशानोरुष्णता यथा ।
शीतता वा तुषारस्य तथा जीवत्वमात्मनः ॥१०॥
चिद्रूपस्यात्मतत्त्वस्य स्वाभाववशतः स्वयम् ।
मनाक्संवेदनमिव यत्तज्जीव इति स्मृतम् ॥११॥
तदेव घनसंवित्त्या यात्यहंतामनुक्रमात् ।
वह्न्यणुः स्वेन्धनाधिक्यात्स्वां प्रकाशकतामिव ॥१२॥
यथा स्वतारकामार्गे व्योम्नः स्फुरति नीलिमा ।
शून्यस्याप्यस्य जीवस्य तथाहंभावभावना ॥१३॥
जीवोऽहंकृतिमादत्ते संकल्पकलयेद्धया ।
स्वयैतया घनतया नीलिमानमिवाम्बरम् ॥१४॥
अहंभावो हि दिक्कालव्यवच्छेदी कृताकृतिः ।
स्वयं संकल्पवशतो वातस्पन्द इव स्फुरन् ॥१५॥
संकल्पोन्मुखता यातस्त्वहंकाराभिधः स्थितः ।
चित्तं जीवो मनो माया प्रकृतिश्चेति नामभिः ॥१६॥
तत्संकल्पात्मकं चेतो भूततन्मात्रकल्पनम् ।
कुर्वंस्ततो व्रजत्येव संकल्पाद्याति पञ्चताम् ॥१७॥
तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत् ।
अजातजगति व्योम्नि तारका पेलवा यथा ॥१८॥
तेजःकणत्वमादत्ते चित्तं तन्मात्रकल्पनात् ।
शनैः स्वस्मात्परिस्पन्दाद्बीजमङ्कुरतामिव ॥१९॥
असौ तेजःकणोऽण्डाख्यः कल्पनात्कश्चिदण्डताम् ।
प्रयात्यन्तःस्फुरद्ब्रह्मा जलमापिण्डतामिव ॥२०॥
कश्चिद्द्रागिति देहादिकलनाद्याति देहताम् ।
भ्रान्तित्वं तदतद्रूपं गन्धर्वैश्च वसत्पुरम् ॥२१॥
कश्चित्स्थावरतामेति कश्चिज्जंगमतामपि ।
कश्चिद्याति खचार्यादिरूपं संकल्पतः स्वतः ॥२२॥
सर्गादावादिजो देहो जीवः संकल्पसंभवः ।
क्रमेण पदमासाद्य वैरिञ्चं कुरुते जगत् ॥२३॥
आत्मभूकलनात्मासौ यत्संकल्पयति क्षणात् ।
तत्स्वभाववशादेव जातमेव प्रपश्यति ॥२४॥
चित्स्वभावात्समायातं ब्रह्मत्वं सर्वकारणम् ।
संसृतौ कारणं पश्चात्कर्म निर्माय संस्थितम् ॥२५॥
चित्तं स्वभावात्स्फुरति चित्तः फेन इवाम्भसः ।
कर्मभिर्बध्यते पश्चाड्डिण्डीरमिव रज्जुभिः ॥२६॥
संकल्पः कलनाबीजं तदात्मैव हि जीवकः ।
कर्म पश्चात्तनोत्युच्चैरुत्थायाकर्मतः क्रमात् ॥२७॥
क्रोडीकृताङ्कुरं पूर्वं जीवो धत्ते स्वजीवितम् ।
पश्चान्नानात्वमायाति पत्राङ्कुरफलक्रमैः ॥२८॥
अन्ये स्व एव ये जीवा एवमेवाकृतिं गताः ।
पूर्वोत्पन्ने जगति ते यान्ति भूताश्रयां स्थितिम् ॥२९॥
स्वकर्मभिस्ततो जन्ममृतिकारणतां गतैः ।
प्रयान्त्यूर्ध्वमधस्ताद्वा कर्म चित्स्पन्द उच्यते ॥३०॥
चित्स्पन्दन भवति कर्म तदेव दैवं
चित्तं तदेव भवतीह शुभाशुभादि ।
तस्माज्जगन्ति भुवनानि भवन्ति पूर्वं
भूत्वा निजाङ्गकुसुमानि तरोरिवाद्यात् ॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० उत्पत्तिबीजाङ्कुरनिर्णयो नाम चतुःषष्ठितमः सर्गः ॥६४॥

N/A

References : N/A
Last Updated : September 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP