उत्पत्तिप्रकरणं - सर्गः ८२
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
इति राजमुखाच्छुत्वा कर्कटी वनमर्कटी ।
अवबुद्धपदान्तं स्वं जहौ मत्सरचापलम् ॥१॥
अन्तःशीतलतामेत्य विश्रान्तिमपतापताम् ।
प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती ॥२॥
तथा राजगिरा तस्या आनन्द उदभूद्भृशम् ।
गर्भेऽन्तः खे बलाकाया रवेणेव पयोमुचः ॥३॥
राक्षस्युवाच ।
अहो बत पवित्रेयं भवतोर्भाति शेमुषी ।
अनस्तमितसारेण प्रबोधार्केण भासिता ॥४॥
शीता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात् ।
विवेककणिकां श्रुत्वा भवतो हृदयादियम् ॥५॥
विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः ।
सत्सङ्गात्सविकासास्मि चन्द्रेणेव कुमुद्वती ॥६॥
सौरभं कुसुमासङ्गादेव सत्सङ्गमाच्छुभम् ।
वर्तते ह्यर्कसंपर्काद्विकासोऽम्बुरुहामिव ॥७॥
महतामेव संपर्कात्पुनर्दुःखं न बाधते ।
को हि दीपशिखाहस्तस्तमसा परिभूयते ॥८॥
मयेमौ जङ्गलप्राप्तौ भवन्तौ भूमिभास्करौ ।
पूजनीयावतः शीघ्रमीहितं कथ्यतां शुभम् ॥९॥
राजोवाच ।
अस्मिन् जनपदे रक्षःकुलकाननमञ्जरि ।
जनस्य बाधतेऽत्यन्तं सदा हृदयशूलनम् ॥१०॥
यतः सर्वैव जनता तप्ता दृढविषूचिका ।
मण्डले ननु तेनाहं निर्गतो रात्रिचर्यया ॥११॥
शूलादि हृदये नृणां न शाम्यति यदौषधैः ।
ततोऽहं त्वद्विधप्रोक्तमन्त्रार्थेन विनिर्गतः ॥१२॥
त्वादृशस्य च लोकस्य मुग्धलोकाभिघातिनः ।
निग्रहार्थं प्रवृत्तिर्मे सा च संपत्तिमेत्यलम् ॥१३॥
एतावदेव च शुभे त्वयाङ्गीक्रियतां वचः ।
भूयो भवत्या प्राणा हि हिंसनीया न कस्यचित् ॥१४॥
राक्षस्युवाच ।
बाढमेवं करोम्यद्यप्रभृत्यवितथं प्रभो ।
सत्यमेव न किंचिद्धि हिंसनीयं मयाधुना ॥१५॥
राजोवाच ।
यद्येवं फुल्लपद्माक्षि परदेहैकभोजने ।
किं स्याच्छरीरवृत्त्यै ते स्थिताया मत्समीहिते ॥१६॥
राक्षस्युवाच ।
षड्भिर्मासैर्गिरौ राजन्प्रबुद्धायाः समाधितः ।
जाता भोजनसंकल्पाद्भोजनेच्छेयमद्य मे ॥१७॥
इदानीं शिखरं गत्वा तदेव ध्याननिश्चला ।
यावदिच्छं सुखेनासे सजीवा शालभञ्जिका ॥१८॥
आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् ।
यथेच्छमथ कालेन त्यक्ष्यामीति मतिर्मम ॥१९॥
आशरीरपरित्यागमिदानीं न मया नृप ।
हिंसनीयाः परप्राणास्तेनेदं मद्वचः शृणु ॥२०॥
हिमवान्नाम शैलोऽस्ति शरच्चन्द्रांशुनिर्मलः ।
य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः ॥२१॥
तत्राहं निवसाम्यग्रे हेमशृङ्गदरीगृहे ।
आयसी मेघलेखेव कर्कटीनाम राक्षसी ॥२२॥
तपसोपार्जितो ब्रह्मा जनतामारणेच्छया ।
विषूचिका प्राणहरा स्यां सूच्यात्मेति भो मया ॥२३॥
तस्मात्संप्राप्तवरया बहून्वर्षगणान्मया ।
भुक्ता विषूचिकात्वेन जनता जीवबाधनैः ॥२४॥
त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा ततः ।
नियमार्थं महामन्त्रस्तदायत्तास्मि संस्थिता ॥२५॥
सोऽयं प्रगृह्यतां तेन सर्वं हृदयशूलनम् ।
शममेष्यति लोकेऽस्मात्का कथा मत्कृते भ्रमे ॥२६॥
विततैवास्मि हिंसायां यत्पुरा हिंसितं मया ।
जनस्य हृदयं तेन नाड्यो वैधुर्यमागताः ॥२७॥
हिंसित्वा रक्तमांसानि संत्यक्ता ये महाजनाः ।
तेभ्यो विधुरनाडीभ्यो ये जातास्तेऽपि तादृशाः ॥२८॥
राजन्विषूचिकामन्त्रः सोऽयं संपन्न एव ते ।
नहि सत्त्ववतामस्ति दुःसाध्यमिह किंचन ॥२९॥
अतो दुर्नाडिकोशेषु शूलानां परिशान्तये ।
मन्त्रो यो ब्रह्मणा प्रोक्तो राजञ्शीघ्रं गृहाण तम् ॥३०॥
आगच्छ निकटं नद्या गच्छामस्तत्र भूमिप ।
स्वाचान्ताभ्यां संयताभ्यां भवद्भ्यां सुमता ददे ॥३१॥
श्रीवसिष्ठ उवाच ।
इति तस्यां तदा रात्र्यां राक्षसीमन्त्रिभूभृतः ।
जग्मुस्ते सरितस्तीरं मिथः संजातसौहृदाः ॥३२॥
अन्वयव्यतिरेकेण राक्षस्याः सौहृदं तदा ।
ज्ञात्वा स्थितौ तौ स्वाचान्तावुभावन्तेनिवासिनौ॥३३॥
तया ब्रह्मोपदिष्टोऽसौ ततस्ताभ्यां यथाक्रमम् ।
स्नेहाद्विषूचिकामन्त्रः प्रदत्तो जपसिद्धिदः ॥३४॥
ततः संजातसौहार्दौ तौ विसृज्य निशाचरी ।
यदा गन्तुं प्रवृत्तासौ तदा राजाब्रवीद्वचः ॥३५॥
राजोवाच ।
गुरुस्त्वं नौ महादेहे वयस्या च सुनिर्वृता ।
निमन्त्रयावहे यत्नाद्ग्रासाय तव सुन्दरि ॥३६॥
न चास्मत्प्रणयं प्रीता वितथीकर्तुमर्हसि ।
सौहार्दं सुजनानां हि दर्शनादेव वर्धते ॥३७॥
लघुसौभाग्यसंयुक्तं कृत्वाकारं मनोरमम् ।
आगच्छास्मद्गृहं भद्रे तत्र तिष्ठ यथासुखम् ॥३८॥
राक्षस्युवाच ।
मुग्धस्त्रीरूपधारिण्यै दातुं शक्तोऽसि भोजनम् ।
संतर्पयसि मां केन राक्षसाकारधारिणीम् ॥३९॥
रक्षोन्नमेव संतुष्ट्यै न सामान्यजनाशनम् ।
पूर्वसिद्धस्वभावोऽयमादेहं न निवर्तते ॥४०॥
राजोवाच ।
हेमस्रग्दामवलिता दिनानि कतिचिद्गृहे ।
मम स्त्रीरूपिणी तिष्ठ यावदिच्छमनिन्दिते ॥४१॥
ततो दुष्कृतिनश्चौरान्वध्याञ्छतसहस्रशः ।
मण्डलेभ्यः समानीय ददे तुभ्यं सुभोजनम् ॥४२॥
कान्तारूपं परित्यज्य गृहीत्वा राक्षसं वपुः ।
आदाय वध्याञ्छतशः पुरुषांस्तान्सुसंचितान् ॥४३॥
नयस्व हिमवच्छृंङ्गं तत्र भुङ्क्ष्व यथासुखम् ।
महाशनानामेकान्ते भोजनं हि सुखायते ॥४४॥
तृप्ता निद्रां मनाक्कृत्वा भव भूयः समाधिभाक् ।
समाधिविरता भूयोऽप्यागत्य पुनरन्यदा ॥४५॥
नेष्यस्यन्यान्वध्यजनान् हिंसा नैषां च धर्मतः ।
स्वधर्मेण च हित्वैव महाकरुणया समा ॥४६॥
त्वं समेष्यसि चावश्यं मां समाधिविरागिणी ।
असतामपि संरूढं सौहार्दं न निवर्तते ॥४७॥
राक्षस्युवाच ।
युक्तमुक्तं त्वया राजन्करोम्येवमहं सखे ।
सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति ॥४८॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा राक्षसी तत्र संपन्ना सुविलासिनी ।
हारकेयूरकटकपट्टस्रग्दामधारिणी ॥४९॥
राजन्नागच्छ गच्छाम इत्युक्त्वा भूपमन्त्रिणौ ।
अग्रे गन्तुं प्रवृत्तौ तौ रात्रावनुससार सा ॥५०॥
अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः ।
कथयैकगृहे रम्ये क्षपयामासुरादृताः ॥५१॥
प्रभातेऽन्तःपुरे तस्थौ पुरन्ध्रीजनलीलया ।
राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः ॥५२॥
ततो दिवसषट्केन संचितानि महीभृता ।
नृपः परपुरेभ्योऽपि स्वमण्डलगणात्तथा ॥५३॥
त्रीणि वध्यसहस्राणि तानि तस्यै तदा ददौ ।
सा बभूव निशा काले सैवोग्रा कृष्णराक्षसी ॥५४॥
तानि वध्यसहस्राणि जग्राह भुजमण्डले ।
धारानिकरजालानि मेघमालेव कोटरे ॥५५॥
ययौ राजानमापृच्छ्य तदेव हिमवच्छिरः ।
दरिद्रा लब्धहेमेव ग्रहेषूग्रशरीरिणी ॥५६॥
तत्र तृप्ता भृशं भुक्त्वा सुखं सुप्त्वा दिनत्रयम् ।
आसीत्प्रबोधसुस्वस्था सा समाधिमतिः पुनः ॥५७॥
पञ्चभिर्वा चतुर्भिर्वा वर्षैः सा संप्रबुध्यते ।
तत्ततो मण्डलं याति तेन राजसभाजने ॥५८॥
तत्र विश्रम्भगर्भाभिः कथाभिः कंचिदेव सा ।
स्थित्वा कालं गृहीत्वा तान्वध्यान्स्वास्पदमेत्यथ॥५९॥
जीवन्मुक्ततयैवमेव विपिने साद्यापि रक्षोङ्गना
तस्मिन्नेव गिरौ स्थिता विचलितध्यानैकतानाशया ।
तस्मिन्राजनि शान्तिमागतवति त्यक्तैषणेनात्मना
तद्राष्ट्राधिपसौहृदैः स्वकवलानास्वादयन्ती चिरं ॥६०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे कर्क० राक्षसीसौहार्दं नाम द्वयशीतितमः सर्गः ॥८२॥
N/A
References : N/A
Last Updated : September 13, 2021
TOP