संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १२१ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १२१ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १२१ Translation - भाषांतर चण्डाल्युवाच ।केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्जनेश्वर ।अवृष्टिदुःखमभवद्भीषणं भग्नमानवम् ॥१॥महतानेन दुःखेन सर्वे ते ग्रामका जनाः ।विनिर्गत्य गता दूरं सर्वे पञ्चत्वमागताः ॥२॥तेनेमा दुःखभागिन्यः शून्या वयमिह प्रभो ।सौम्य शोचाम सद्वाष्पमाचान्तेक्षणधारया ॥३॥इत्याकर्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः ।मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत् ॥४॥भूयो विचारयामास तदाश्चर्यमनुत्तमम् ।भूयो भूयोऽथ पप्रच्छ बभूवाश्चर्यवानिति ॥५॥तेषां समुचितैर्दानसन्मानैर्दुःखसंक्षयम् ।कृत्वा करुणयाविष्टो इष्टलोकपरावरः ॥६॥स्थित्वा तत्र चिरं कालं विमृश्य नियतेर्गतीः ।आजगाम गृहं पौरैर्वन्दितः प्रविवेश ह ॥७॥प्रातस्तत्र सभास्थाने मामपृच्छदसौ नृपः ।कथमेवं मुने स्वप्नः प्रत्यक्षमिति विस्मितः ॥८॥यथावस्तुतया तस्य तत उक्तः स तादृशः ।संशयो हृदयान्नुन्नो वातेनेवाम्बुदो दिवः ॥९॥इत्येवं राघवाविद्या महती भ्रमदायिनी ।असत्सत्तां नयत्याशु सच्चासत्तां नयत्यलम् ॥१०॥श्रीराम उवाच ।कथमेवं वद ब्रह्मन्स्वप्नः सत्यत्वमागतः ।भ्रमोदार इवैषोऽर्थो न मे गलति चेतसि ॥११॥श्रीवसिष्ठ उवाच ।सर्वमेतदविद्यायां संभवत्येव राघव ।घटेषु पटता दृष्टा स्वप्नसंभ्रमितादिषु ॥१२॥दूरं निकटवद्भाति मुकुरेऽन्तरिवाचलः ।चिरं शीघ्रत्वमायाति पुनः श्रेष्ठेव यामिनी ॥१३॥असंभवश्च भवति स्वप्ने स्वमरणं यथा ।असच्च सदिवाभाति स्वप्नेष्विव नभोगतिः ॥१४॥सुस्थितं सुष्ठ चलति भ्रमे भूपरिवर्तवत् ।अचलं चलतामेति मदविक्षुब्धचित्तवत् ॥१५॥वासनावलितं चेतो यद्यथा भावयत्यलम् ।तत्तथानुभवत्याशु न तदस्ति न वाप्यसत् ॥१६॥यदैवाभ्युदिता विद्या त्वहंत्वादिमयी मुधा ।तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता ॥१७॥प्रतिभासवशादेव सर्वो विपरिवर्तते ।क्षणः कल्पत्वमायाति कल्पश्च भवति क्षणः ॥१८॥विपर्यस्तमतिर्जन्तुः पश्यत्यात्मानमेडकम् ।बिभर्ति सिंहतामेडो वासनावशतः स्वयम् ॥१९॥विषमभ्रमदाविद्यामोहाहन्तादयः समाः ।सर्वे चित्तविपर्यासफलसंपत्तिहेतुतः ॥२०॥काकतालीयवच्चेतोवासनावशतः स्वतः ।संवदन्ति महारम्भा व्यवहाराः परस्परम् ॥२१॥वृत्तं प्राक्पक्कणे राज्ञः कस्यचिल्लवणस्य यत् ।प्रतिभातं तदेतस्य सद्वासद्वा मनोगतम् ॥२२॥विस्मरत्यपि विस्तीर्णां कृतां चेतःक्रियां यथा ।तथा कृतामप्यकृतामिति स्मरति निश्चितम् ॥२३॥तथा न भुक्तवानस्मि भुक्तवानिति चेतसि ।स्वप्ने देशान्तरगमे प्राकृतोऽप्यवबुद्ध्यते ॥२४॥विन्ध्यपुष्कससुग्रामे व्यवहारोऽयमीदृशः ।प्रतिभासागतस्तस्य स्वप्ने पूर्वकथा यथा ॥२५॥अथवा लवणेनाशु दृष्टो यः स्वप्नविभ्रमः ।स एव संविदं प्राप्तो विन्ध्यपुष्कसचेतसि ॥२६॥लावणी प्रतिभाऽऽरूढा विन्ध्यापुष्कसचेतसि ।विन्ध्यपुष्कससंविद्वाऽऽरूढा पार्थिवचेतसि ॥२७॥यथा बहूनां सदृशं वचनं नाम मानसम् ।तथा स्वप्नेऽपि भवति कालो देशः क्रियापि च ॥२८॥व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभासतः ।सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥२९॥संवेदनेतरा भाति वीचिर्वा जलसंगतिः ।भूतभव्यभविष्यस्था तरुबीजे तरुर्यथा ॥३०॥तस्याः सत्त्वमसत्त्वं च न सन्नासदिति स्थितम् ।सत्सदेव हि संवित्तेरसंवित्तेरसन्मयम् ॥३१॥नाविद्या विद्यते किंचित्तैलादि सिकतास्विव ।हेम्नः किं कटकादन्यत्पदं स्याद्धेमतां विना ॥३२॥अविद्ययात्मतत्त्वस्य संबन्धो नोपपद्यते ।संबन्धः सदृशानां च यः स्फुटः स्वानुभूतितः ॥३३॥जतुकाष्ठादिसंबन्धो यः समासमयोगतः ।नान्योन्यानुभवायासौ तदेकस्पन्दमात्रकम् ॥३४॥परमार्थमयं सर्वं यथा तेनोपलादयः ।चिता समभिचेत्यन्ते संबन्धवशतः समाः ॥३५॥यदा चिन्मात्रसन्मात्रमयाः सव जगद्गताः ।भावास्तदा विभान्त्येते मिथः स्वानुभवस्थितेः ॥३६॥न संभवति संबन्धो विषमाणां निरन्तरः ।न परस्परसंबन्धाद्विनानुभवनं मिथः ॥३७॥सदृशे सदृशं वस्तु क्षणाद्गत्वैकतामलम् ।रूपमास्फारयत्येकमेकत्वादेव नान्यथा ॥३८॥चिच्चेत्यमिलिता दृश्यरूपयोदेति चेतनः ।[ जडं जडेन मिलितं घनं संपद्यते जडम् ।]न च चिज्जडयोरैक्यं वैलक्षण्यात्क्वचिद्भवेत् ॥३९॥चिज्जडौ चित्र एकत्र न तौ संमिलतः क्वचित् ।चिन्मयत्वाच्चिदालम्भश्चिदालम्भेन वेदनम् ॥४०॥दारुपाषाणभेदानां नतु ह्येते चिदात्मकाः ।पदार्थो हि पदार्थेन परिणाम्यनुभूयते ॥४१॥जिह्वयैव रसास्वादः सजातीयामलोदयः ।ऐक्यं च विद्धि संबन्धं नास्त्यसावसमानयोः ॥४२॥जडचेतनयोस्तेन नोपलादि जडं मतम् ।चिदेवोपलकुड्यादिरूपिणीति मिता चिता ॥४३॥एकीभावं गता द्रष्टदृश्यादि कुरुते भ्रमम् ।काष्ठोपलाद्यशेषं हिं परमार्थमयं यतः ॥४४॥तदात्मना तत्संबन्धे दृश्यत्वेनोपलभ्यते ।सर्वं सर्वप्रकाराढ्यमनन्तमिव यत्नतः ॥४५॥विश्वं सन्मात्रमेवैतद्विद्धि तत्त्वविदां वर ।असत्तात्यागनिष्ठेन विश्वं लक्षशतभ्रमैः ॥४६॥पूरितं चिच्चमत्कारो नच किंचन पूरितम् ।संकल्पनागरा नॄणां मिथः स्पन्दन्ति नो यथा ॥४७॥न देशकालरोधाय तथा सर्गेष्विति स्थितिः ।भेदबोधे हि सर्गत्वमहंत्वादिभ्रमोदयः ॥४८॥हेमसंवित्परित्यागे कटकादिभ्रमो यथा ।कटकादिभ्रमो हेम्नि देशाद्देशं भवाद्भवम् ॥४९॥दृग्दर्शनपरित्यागे नाविद्यास्ति पृथक्सदा ।कटकादिमहाभेदमेकं हेम यथामलम् ॥५०॥बोधैकत्वादयं सर्गस्तदेवासन्नयत्यलम् ।सेना मृत्संविदा चित्रा मृन्मात्रमिव मृन्मयी ॥५१॥जलमेकं तरङ्गादि दार्वेकं शालभञ्जिका ।मृन्मात्रमेकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः ॥५२॥संबन्धे दृश्यदृष्टीनां मध्ये द्रष्टुर्हि यद्वपुः ।द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम् ॥५३॥देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥५४॥अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।अचेतनं चाजडं च तन्मयो भव सर्वदा ॥५५॥जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।अक्षुब्धो वाथवा क्षुब्धस्तन्मयो भव सर्वदा ॥५६॥कस्यचित्किंचनापीह नोदेति न विलीयते ।अक्षुब्धो वाथवाक्षुब्धः स्वस्थस्तिष्ठ यथासुखम् ॥५७॥नाभिवाञ्छति नो द्वेष्टि देहे किंचित्क्वचित्पुमान् ।स्वस्थस्तिष्ठ निराशङ्कं देहवृत्तिषु मा पत ॥५८॥भविष्यद्ग्रामकग्राम्यकार्यव्यवसितो यथा ।चित्तवृत्तिषु मा तिष्ठ तथा सत्यात्मतां गतः ॥५९॥यथा देशान्तरनरो यथा काष्ठं यथोपलः ।तथैव पश्य चित्तं त्वमचित्तैव यदात्मना ॥६०॥यथा दृषदि नास्त्यम्बु यथाम्भस्यनलस्तथा ।स्वात्मन्येवास्ति नो चित्तं परमात्मनि तत्कुतः ॥६१॥प्रेक्ष्यमाणं न यत्किंचित्तेन यत्क्रियते क्वचित् ।कृतं भवति तन्नेति मत्वा चित्तातिगो भवेत् ॥६२॥अत्यन्तानात्मभूतस्य यश्चित्तस्यानुवर्तते ।पर्यन्तवासिनः कस्मान्न म्लेच्छस्यानुवर्तते ॥६३॥निरन्तरमनादृत्य त्वमाराच्चित्तपुष्कसम् ।स्वस्थमास्स्व निराशङ्कं पङ्केनेव कृतो जडः ॥६४॥चित्तं नास्त्येव मे भूतं मृतमेवाद्य वेत्ति वा ।भव निश्चयवान्भूत्वा शिलापुरुषनिश्चलः ॥६५॥प्रेक्षायामस्ति नो चित्तं तद्विहीनोऽसि तत्त्वतः ।स किमर्थमनर्थेन तद्व्यर्थेन कदर्थ्यसे ॥६६॥असता चित्तयक्षेण ये मुधा स्ववशे कृताः ।तेषां पेलवबुद्धीनां चन्द्रादशनिरुत्थितः ॥६७॥चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ।भव भावनया मुक्तो युक्त्या परमयान्वितः ॥६८॥असतो येऽनुवर्तन्ते चेतसोऽसत्यरूपिणः ।व्योममारणकर्मैकनीतकालान्धिगस्तु तान् ॥६९॥व्यपगलितमना महानुभावोभव भवपारगतो भवामलात्मा ।सुचिरमपि विचारितं न लब्धंमलममलात्मनि मानसात्म किंचित् ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः ॥१२१॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP