संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ३४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणामपि ।नभसः प्रेक्षकाणां च तत्रेमाः प्रोदगुर्गिरः ॥१॥चलत्पद्मं सर इव वहद्विहगमेव च ।नभः शूरशिरःकीर्णं भाति तारकिताकृति ॥२॥पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः ।सांध्या इव विभान्त्येते मध्याह्नेऽम्बुदभानवः ॥३॥किमिदं भगवन्व्योम पलालभरितं स्थितम् ।नेदं पलालं वीराणामेते शरभराम्बुदाः ॥४॥यावन्तो भुवि सिच्यन्ते रुधिरे रणरेणवः ।तावन्त्यब्दसहस्राणि भटानामास्पदं दिवि ॥५॥मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥६॥वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् ।मेखलाः शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः ॥७॥लसद्भुजलतालोला रक्तपल्लवपाणयः ।मञ्जरीमत्तनयना मध्वामोदसुगन्धयः ॥८॥गायन्त्यो मधुरालापैर्नन्दनोद्यानदेवताः ।तवागमनमाशङ्क्य प्रवृत्ताः परिनर्तितुम् ॥९॥प्रत्यनीकं भिनत्त्यन्तः कुठारैः कठिनैरियम् ।सेना ग्राम्येव वनिता दयितं दृष्टिचेष्टितैः ॥१०॥हा पितुर्मम भल्लेन शिरो ज्वलितकुण्डलम् ।सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः ॥११॥आपादशृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् ।भ्रामयंश्चित्रदण्डाख्यं चक्रमूर्ध्वभुजो जवात् ॥१२॥योधो यम इवाभाति याम्यादायाति दिक्तटात् ।सर्वतः संहरन्सेनामेहि यामो यथागतम् ॥१३॥सद्यश्छिन्नशिरश्वभ्रमज्जत्कङ्ककुलाकुलाः ।कबन्धाः परिनृत्यन्ति तालोत्ताला रणाङ्गणे ॥१४॥गीर्वाणगणगोष्ठीषु प्रवृत्ताः संकथा मिथः ।कदा लोकान्तरं धीराः कथं यास्यन्ति के कुतः ॥१५॥निगिरत्यागताः सेनाः स्रवन्तीरिव सागरः ।समत्स्यमकरव्यूहा अहो नु विषमो भटः ॥१६॥कटेषु करिणां कीर्णा धारानाराचराजयः ।पतिता इव संपूर्णाः शृङ्गसंघेषु वृष्टयः ॥१७॥हा कुन्तेन शिरो नीतं ममेत्येव विवक्षतः ।शिरसाऽजीवमित्येवं खे खगेनेव वाशितम् ॥१८॥यन्त्रपाषाणवर्षेण यैषास्मान्परिषिञ्चति ।सेनानुशृङ्खलाजालवलना क्रियतां बलात् ॥१९॥वलीपलितनिर्मुक्तं पूर्वभार्याप्सराः सती ।अङ्गीकरोति भर्तारं परिज्ञाय रणे हतम् ॥२०॥आदिवं रचिताकाराः कुन्तकाननकान्तयः ।वीराणां स्वर्गमारोढुमिव सोपानपङ्क्तयः ॥२१॥कान्तकाञ्चनकान्ताङ्गे भटस्योरसि कामिनी ।दृष्टा देवपुरन्ध्रीयं भर्तुरन्वेषणान्विता ॥२२॥हा हतं सैन्यमस्माकं भटैऽरुद्धतमुष्टिभिः ।महाप्रलयकल्लोलैः सुरशैलस्थलं यथा ॥२३॥युध्यध्वमग्रतो मूढा नयतार्धमृतान्नरान् ।निजान्पादप्रहारेण मैतान्दारयताधमाः ॥२४॥धम्मिल्लवलनाव्यग्रे घनोत्कण्ठेऽप्सरोगणे ।भटो दिव्यशरीरेण पार्श्वप्राप्तो निरीक्ष्यताम् ॥२५॥फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः ।स्वर्गनद्यास्तटीष्वेनं दूरायातं विनोदय ॥२६॥विविधायुधसंघट्टखण्डितोग्रास्थिकोटयः ।खे कवन्त्यः कणत्कारैः प्रसृतास्तारका इव ॥२७॥व्योम्नि जीवनदीवाहे वहत्सायकवारिणि ।चक्रावर्तिनि गच्छन्ति गिरयोऽप्यणुपङ्कताम् ॥२८॥भ्रमद्भिर्ग्रहमार्गेषु शिरोभिर्वीरभूभृताम् ।आयुधांशुलतानाललग्नासिदलकण्टकैः ॥२९॥केतुपट्टंमृणालाङ्गदलैर्लब्धशिलीमुखैः ।वहद्वातचलत्पद्मं नभः पद्मसरः कृतम् ॥३०॥मृतमातङ्गसंघाते गिराविव पिपीलिकाः ।भीरवः परिलीयन्ते स्त्रियः पुंवक्षसीव च ॥३१॥अपूर्वोत्तमसौन्दर्यकान्तसंगमशंसिनः ।वान्ति विद्याधरस्त्रीणामलकोल्लासिनोऽनिलाः ॥३२॥छत्रेषूड्डीयमानेषु स्थितेषु व्योम्नि चन्द्रता ।इन्दुनेव यशोमूर्त्या कृता शुभ्रातपत्रता ॥३३॥भटो मरणमूर्च्छान्ते निमेषेणामरं वपुः ।स्वकर्मशिल्पिरचितं प्राप्तः स्वप्नपुरं यथा ॥३४॥शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्ततुष्टयः ।व्योमाब्धौ मत्स्यमकरसंकुलावयवाः स्थिताः ॥३५॥शरोत्कृत्तसितच्छत्रकलहंसैर्नभःस्थलम् ।भाति संचितपूर्णेन्दुबिम्बलक्षैरिवावृतम् ॥३६॥क्रियते गगनोड्डीनैश्चामरैश्चारुघर्घरैः ।वातावधूतसंरोधतरङ्गनिकरद्युतिः ॥३७॥दृश्यन्ते हेतिदलिताश्छत्रचामरकेतवः ।आकाशक्षेत्रविक्षिप्ता यशःशालिलता इव ॥३८॥वहद्भिर्व्योम्नि सक्षेम पश्य नीता क्षयं शरै ।शक्तिवृष्टिरुपायान्ती सस्यश्रीः शलभैरिव ॥३९॥एषा प्रसृतदोर्दण्डभटखड्गच्छटात्कृतिः ।कठिनात्कंकटाज्जाता मृत्योरेवोग्रहुंकृतिः ॥४०॥हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः ।जनताक्षयकालेऽस्मिन्भग्ना नागा नगा इव ॥४१॥सचक्रनाथसूताश्वं व्यूढं रक्तमहाहृदे ।हाहाभिभूतगतिकं चेष्टते रथपत्त्नम् ॥४२॥करकंकटकुट्यङ्कखड्गसंघट्टटांकृतैः ।कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ॥४३॥नरेभखरवाजिभ्यो ये च्युता रक्तनिर्झराः ।पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः ॥४४॥शस्त्रांशुजलदे व्योम्नि कालीचिकुरमेचके ।शरकोरकभारस्रङ्मेघे विद्युदिवोदिता ॥४५॥अनन्तरक्तसंसक्तसन्नावनितलायुधैः ।भुवनं भात्यभिज्वालमग्निलोक इवाकुलम् ॥४६॥भुशुण्डीशक्तिशूलासिमुसलप्रासवृष्टयः ।अन्योन्यच्छेदभेदाभ्यां करप्रकरतोऽपतन् ॥४७॥अक्षोभैकप्रहरणाद्यातुधान्योऽन्यचेष्टितम् ।संरम्भावेक्षणप्रज्ञं रणं स्वप्नमिव स्थितम् ॥४८॥अनन्यशब्दाविरतहताहतिरणज्झणैः ।गायतीव क्षतक्षोभमुदितो रणभैरवः ॥४९॥अन्योन्यरणहेत्युग्रचूर्णपूर्णो रणार्णवः ।वालुकामय एवाभूच्छिन्नच्छत्रतरङ्गकः ॥५०॥सरभसरसवद्विसारितूर्य-प्रतिरवपूरितलोकपाललोकः ।रणगिरिरयमुग्रपक्षदक्ष-प्रतिसृतिवृत्त इवाम्बरे युगान्ते ॥५१॥हा हा धिक्प्रविकटकङ्कटाननोद्य-त्प्रोड्डीनप्रकटतडिच्छटाप्रतप्ताः ।क्रेङ्कारस्फुरितगुणेरिता रणन्तोनाराचाः शिखरिशिलागणं वहन्ति ॥५२॥ ।छिन्नेच्छाच्छमिति न यावदङ्गभङ्गंकुर्वन्तो ज्वलदनलोज्ज्वलाः पृषत्काः ।तावद्द्राग्द्रुतमित एहि मित्र यामोयामोऽयं प्रवहति वासरश्चतुर्थः ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः ॥३४॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP