संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।जागतीहेन्द्रजालश्रीश्चित्तायत्ता यथा स्थिता ॥१॥अस्त्यस्मिन्वसुधापीठे नानावनसमाकुलः ।उत्तरापाण्डवो नाम स्फीतो जनपदो महान् ॥२॥नीरन्ध्रघनगम्भीरवनविश्रान्ततापसः ।विद्याधरीकृतलतादोलोपवनपत्तनः ॥३॥वातोद्धूताञ्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः ।लसत्कुसुमसंभारवनमालावतंसकः ॥४॥करञ्जमञ्जरीकुञ्जगुच्छपर्यन्तजङ्गलः ।खर्जूरान्तरितग्रामो घुंघुमध्वनिताम्बरः ॥५॥एकपिङ्गशिलाश्रेणीशालिकेदारपिङ्गलः ।नीलकण्ठारवोद्दामवनजङ्गलमण्डितः ॥६॥सारसारवसंरम्भरणत्कनककाननः ।तमालपाटलीनीलगिरिग्रामककुण्डलः ॥७॥विचित्रविहगव्यूहविरावकृतकाकलिः ।नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः ॥८॥गायत्कलमकेदारदारिकाहृतमन्मथः ।पुष्पफलचलद्वातव्याधूतकुसुमाम्बुदः ॥९॥दरीगृहविनिष्क्रान्तसिद्धचारणबन्दिकम् ।स्वर्गादिव समानीय लावण्यमभिनिर्मितः ॥१०॥गायत्किन्नरगन्धर्वकदलीखण्डमण्डपः ।मन्दानिलरवोद्भूतः पुष्पोपवनपाण्डुरः ॥११॥तत्रास्ति लवणो नाम राजा परमधार्मिकः ।हरिश्चन्द्रकुलोद्भूतो भूमाविव दिवाकरः ॥१२॥यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः ।तत्र शैला विराजन्ते हाराः प्रोद्धूलिता इव ॥१३॥कृपाणशकलोत्कृत्तनिःशेषारातिमण्डलः ।अरातिलोकः प्राप्नोति यदनुस्मरणाज्ज्वरम् ॥१४॥यस्योदारसमारम्भमार्यलोकानुपालनम् ।चरितं संस्मरिष्यन्ति हरेरिव चिरं जनाः ॥१५॥यस्याप्सरोमिरद्रीन्द्रमूर्धस्वमरसद्मसु ।विकासिपुलकोल्लासं गीयन्ते गुणगीतयः ॥१६॥यस्य स्वःसुन्दरीगीता लोकपालचिरश्रुताः ।विरिञ्चिहंसैर्ध्वन्यन्ते स्वभ्यासाद्गुणगीतयः ॥१७॥स्वप्नेष्वपि न सामान्या यस्योदारचमत्कृतिः ।राम दृष्टा श्रुता वापि दैन्यदोषमयी क्रिया ॥१८॥जिह्मतां यो न जानाति न दृष्टा येन धृष्णुता ।उदारता येन धृता ब्रह्मणेवाक्षमालिका ॥१९॥दिनाष्टभागमाकाशमागते दिवसाधिपे ।स कदाचित्सभास्थाने सिंहासनगतोऽभवत् ॥२०॥सुखोपविष्टे तत्रास्मिन्राजनीन्दाविवाम्बरे ।प्रविशन्तीषु सामन्तसेनासु च ससंभ्रमम् ॥२१॥गायन्तीष्वथ कान्तासु सूपविष्टेषु राजसु ।मनो हरति साह्लादे वीणावंशकलारवे ॥२२॥चारुचामरहस्तासु सविलासासु राजनि ।देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले ॥२३॥प्रस्तुतेषु प्रविष्टेषु राजकार्येषु मन्त्रिभिः ।प्रोक्तासु देशवार्तासु निपुणैश्चारुमन्त्रिभिः ॥२४॥इतिह्यसमये पुण्ये वाच्यमाने च पुस्तके ।पठत्सु च स्तुतीः पुण्याः पुरः प्रह्वेषु वन्दिषु ॥२५॥सभां विवेश साटोपः कश्चित्तामैन्द्रजालिकः ।वर्षेणाहितसंरम्भो वसुधामिव वारिदः ॥२६॥स ननाम महीपालं शिखरोदारकन्धरम् ।पादोपान्तगतः कान्तं शैलं फलतरुर्यथा ॥२७॥सच्छायस्योन्नतांसस्य फलिनः पुष्पभासिनः ।स विवेश पुरो राज्ञस्तरोरग्रे कपिर्यथा ॥२८॥चपलो लम्पटोऽर्थानामामोदसुखमारुतम् ।उवाचोत्कन्धरं भूपं सपद्ममिव षट्पदः ॥२९॥विलोकय विभो तावदेकामिह खरोलिकाम् ।पीठस्थ एव साश्चर्यां व्योम्नि चन्द्र इवावनिम् ॥३०॥इत्युक्त्वा पिच्छिका तेन भ्रामिता भ्रमदायिनी ।नानाविरचनाबीजं मायेव परमात्मनः ॥३१॥तां ददर्श महीपालस्तेजोरेणुविराजिताम् ।शक्रः सुरविमानस्थः स्वकार्मुकलतामिव ॥३२॥सभां सैन्धवसामन्तो विवेशास्मिन्क्षणे तदा ।तारापरिकरापूर्णां व्योमवीथीमिवाम्बुदः ॥३३॥तं चैवानुजगामाश्वः सौम्यः परमवेगवान् ।देवलोकोन्मुखं तुष्टं शक्रमुच्चैःश्रवा इव ॥३४॥स तमश्वमुपादाय पार्थिवं समुवाच ह ।सोच्चैःश्रवा इव क्षीरसागरो मरुतां पतिम् ॥३५॥इदमुच्चैःश्रवःप्रख्यं हयरत्नं महीपते ।जवोडुयनशीलेन मूर्तिमानिव मारुतः ॥३६॥अश्वोऽयमस्मत्प्रभुणा प्रभो संप्रहितस्त्वयि ।राजते हि पदार्थश्रीर्महतामर्पणाच्छुभा ॥३७॥इत्युक्तवति तस्मिंस्तु प्रत्युवाचैन्द्रजालिकः ।जलदस्तनिते शान्ते चातकोऽम्बुधरं यथा ॥३८॥सदश्वमेनमारुह्य भुवनं विहर प्रभो ।स्वप्रतापाहितानल्पशोभामुर्वीं रविर्यथा ॥३९॥अश्वमालोकयामास तेनोक्त इति पार्थिवः ।निर्घातस्तनितं मेघं मयूर इव सूत्करः ॥४०॥अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः ।बभूवालोकयन्नश्वं लिपिकर्मार्पितोपमः ॥४१॥क्षणमालोक्य पीठस्थस्तस्थौ संस्थगितेक्षणः ।दृष्ट्याऽऽक्षुब्धः समुद्रोऽद्रिमीनकैः करवो यथा ॥४२॥तस्थौ मुहूर्तयुग्मं स ध्यानासक्त इवात्मनि ।वीतरागो मुनिः क्षुब्धः परानन्द इव स्थितः ॥४३॥बोधितः केनचिन्नासौ स्वप्रतापजितोर्जितः ।धिया कामप्ययं भूयश्चिन्तां चिन्तयतीति च ॥४४॥बभूवुः केवलं तत्र निःस्पन्दसितचामराः ।चामरिण्यो हि शर्वर्यः स्तम्भितेन्दुकरा इव ॥४५॥विरेजुर्विस्मयापूर्णा निःस्पन्दास्ते सभासदः ।निःस्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव ॥४६॥प्रशशाम सभास्थाने जनकोलाहलः शनैः ।प्रशान्तप्रावृषि व्योमन्याम्भोदमिव गर्जितम् ॥४७॥संदेहसागरे मग्ना जग्मुश्चिन्तां सुमन्त्रिणः ।विषीदति गदापाणावसुराजाविवामराः ॥४८॥विततविस्मितजिह्नितया तयाजनतया भयमोहविषण्णया ।स्तिमितचक्षुषि भूमिपतौ स्थितेमुकुलिताज्जवनस्य धृता द्युतिः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने नृपव्यामोहो नाम चतुरुत्तरशततमः सर्गः ॥१०४॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP