संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः १२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२ Translation - भाषांतर श्रीवसिष्ठ उवाचएतस्मात्परमाच्छान्तात्पदात्परमपावनात् ।यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया ॥१॥सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।सर्वात्मकं च तत्स्थानं तत्र तावत्क्रमं श्रृणु ॥२॥तस्यानन्तप्रकाशात्मरूपस्यानन्तचिन्मणेः ।सत्तामात्रात्मकं विश्वं यदजस्रं स्वभावतः ॥३॥तदात्मनि स्वयं किंचिच्चेत्यतामिव गच्छति ।अगृहीतात्मकं संविदहंमर्शनपूर्वकम् ॥४॥भाविनामार्थकलनैः किंचिदूहितरूपकम् ।आकाशादणु शुद्धं च सर्वस्मिन्भाति बोधनम् ॥५॥ततः सा परमा सत्ता सचेतश्चेतनोन्मुखी ।चिन्नामयोग्या भवति किंचिल्लभ्यतया तथा ॥६॥घनसंवेदना पश्चाद्भाविजीवादिनामिका ।संभवत्यात्तकलना यदोज्झति परं पदम् ॥७॥सत्तैव भावनामात्रसारा संसरणोन्मुखी ।तदा वस्तुस्वभावेन त्वनुत्तिष्ठति तामिमाम् ॥८॥समनन्तरमेवास्याः स्वसत्तोदेति शून्यता ।शब्दादिगुणबीजं सा भविष्यदभिधार्थदा ॥९॥अहंतोदेति तदनु सह वै कालसत्तया ।भविष्यदभिधार्थेन बीजं मुख्यजगत्स्थितेः ॥१०॥तस्याः शक्तेः परायास्तु स्वसंवेदनमात्रकम् ।एतज्जालमसद्रूपं सदिवोदेति विस्फुरत् ॥११॥एवंप्रायात्मिका संविद्बीजं संकल्पशाखिनः ।भवत्यहंकारकणस्ततः स्पन्दतया मरुत् ॥१२॥चिदहं तावती व्योमशब्दतन्मात्रभावनात् ।स्वतो घनीभूय शनैः स्वतन्मात्रं भवत्यलम् ॥१३॥भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।पदवाक्यप्रमाणाख्यं वेदवृन्दं विकासितम् ॥१४॥तस्मादुदेष्यत्यखिला जगच्छ्रीः परमात्मनः ।शब्दौघनिर्मितार्थौघपरिणामविसारिणः ॥१५॥चिदेवंपरिवारा सा जीवशब्देन कथ्यते ।भाविशब्दार्थजालेन बीजं रूपौघशाखिनः ॥१६॥चतुर्दशविधं भूतजालमावलितान्तरम् ।जगज्जठरगर्तौघं प्रसरिष्यति वै ततः ॥१७॥असंप्राप्ताभिधाचारा चिज्जवात्प्रस्फुरद्वपुः ।सा चैव स्पर्शतन्मात्रं भावनाद्भवति क्षणात् ॥१८॥पवनस्कन्धविस्तारं बीजं स्पर्शौघशाखिनः ।सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति ॥१९॥तत्रैव चिद्विलासेन प्रकाशोऽनुभवाद्भवेत् ।तेजस्तन्मात्रकं तत्तु भविष्यदभिधार्थकम् ॥२०॥तत्सूर्याग्निविजृम्भादिबीजमालोकशाखिनः ।तस्माद्रूपविभेदेन संसारः प्रसरिष्यति ॥२१॥भावयंस्तनुतामेव रसस्कन्ध इवाम्भसः ।स्वदनं तस्य सङ्घस्य रसतन्मात्रमुच्यते ॥२२॥भाविवारिविलासात्मा तद्बीजं रसशाखिनः ।अन्योन्यस्वदने तस्मात्संसारः प्रसरिष्यति ॥२३॥भविष्यद्रूपसंकल्पनामासौ कल्पनात्मकः ।संकल्पात्मगुणैर्गन्धतन्मात्रत्वं प्रपश्यति ॥२४॥भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ॥२५॥चिता विभाव्यमानानि तन्मात्राणि परस्परम् ।स्वयं परिणतान्यन्तरम्बुनीव निरन्तरम् ॥२६॥तथैतानि विमिश्राणि विविक्तानि पुनर्यथा ।न शुद्धान्युपलभ्यन्ते सर्वनाशान्तमेव हि ॥२७॥संवित्तिमात्ररूपाणि स्थितानि गगनोदरे ।भवन्ति वटजालानि यथा बीजकणान्तरे ॥२८॥प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च ।परमाण्वन्तरे भान्ति क्षणात्कल्पीभवन्ति च ॥२९॥विवर्तमेव धावन्ति निर्विवर्तानि सन्ति च ।चिद्वेधितानि सर्वाणि क्षणात्पिण्डीभवन्ति च ॥३०॥तन्मात्रगणमेतत्स्यात्सा संकल्पात्मिका चितिः ।वेदनात्रसरेण्वाभमनाकारैव पश्यति ॥३१॥बीजं जगत्सु ननु पञ्चकमात्रमेवबीजं पराव्यवहितस्थितिशक्तिराद्या ।बीजं तदेव भवतीति सदानुभूतंचिन्मात्रमेवमजमाद्यमतो जगच्छीः ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदुत्पत्तिवर्णनं नाम द्वादशः सर्गः ॥१२॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP