संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः २६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात् ।निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम् ॥१॥ततो ददृशतुः सद्म स्वमेवं सिद्धयोषितौ ।अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् ॥२॥चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् ।विध्वस्तप्रायवदनं शीर्णपर्णाम्बुजोपमम् ॥३॥नष्टोत्सवपुरप्रायमगस्त्यात्तमिवार्णवम् ।ग्रीष्मदग्धमिवोद्यानं विद्युद्दग्धमिव द्रुमम् ॥४॥वातच्छिन्नमिवाम्भोदं हिमदग्धमिवाम्बुजम् ।अल्पस्नेहदशं दीपमिवालोकनभेदनम् ॥५॥आसन्नमृत्युकरुणाकुलवक्त्रकान्ति-संशीर्णजीर्णतरुपर्णवनोपमानम् ।वृष्टिव्यपायपरिधूसरदेशरूक्षंजातं गृहेश्वरवियोगहतं गृहं तत् ॥६॥श्रीवसिष्ठ उवाच ।अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी ।संपन्ना सत्यसंकल्पा सत्यकामा च देववत् ॥७॥चिन्तयामास मामेते देवीं चेमां स्वबन्धवः ।पश्यन्तु तावत्सामान्यललनारूपधारणीम् ॥८॥ततो गृहजनस्तत्र स ददर्शाङ्गनाद्वयम् ।लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम् ॥९॥आपादविविधाम्लानमालावसनसुन्दरम् ।वसन्तलक्ष्म्योर्युगलमिवामोदितकाननम् ॥१०॥सर्वौषधिवनग्रामं पूरयन्त्यौ रसायनैः ।शीतलाह्लादसुखदं चन्द्रद्वयमिवोदितम् ॥११॥लम्बालकलतालोललोचनालिविलोकनैः ।किरत्कुवलयोन्मिश्रमालतीकुसुमोत्करान् ॥१२॥द्रुतहेमरसापूरसरित्सरणहारिणा ।देहप्रभाप्रवाहेण कनकीकृतकाननम् ॥१३॥सहजाया वपुर्लक्ष्म्या लीलादोलाविलासिनः ।त एते च तरङ्गाढ्या निजलावण्यवारिधेः ॥१४॥विलोलबाहुलतिकायुगेनारुणपाणिना ।किरन्नवनवं हैमं कल्पवृक्षलतावनम् ॥१५॥पादैरमृदिताम्लानपुष्पकोमलपल्लवैः ।स्थलाब्जदलमालाभैरस्पृशद्भूतलं पुनः ॥१६॥तालीतमालखण्डानां शुष्काणां शुचिशोचिषाम् ।आलोकनामृतासेकैर्जनयद्बालपल्लवान् ॥१७॥नमोऽस्तु वनदेवीभ्यामित्युक्त्वा कुसुमाञ्जलिम् ।तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः ॥१८॥पपात पादयोर्गेहे तयोर्वै कुसुमाञ्जलिः ।प्रालेयसीकरासारः पद्मिन्या इव पद्मयोः ॥१९॥ज्येष्ठशर्मादय ऊचुः ।जयतं वनदेव्यौ नो दुःखनाशार्थमागते ।प्रायः परपरित्राणमेव कर्म निजं सताम् ॥२०॥इति तद्वचनान्ते ते देव्यावूचतुरादरात् ।आख्यात दुःखं येनायं लक्ष्यते दुःखितो जनः ॥२१॥ज्येष्ठशर्मादयस्ते ते देव्यौ प्रति यथाक्रमम् ।निजं तद्दुःखमाचख्युर्दम्पतिव्यसनात्मकम् ॥२२॥ज्येष्ठशर्मादय ऊचुः ।देव्यावभवतां स्निग्धाविह ब्राह्मणदम्पती ।सर्वातिथी कुलकरौ स्तम्भाभूतौ द्विजस्थितेः ॥२३॥तावद्य गृहमुत्सृज्य सपुत्रपशुबान्धवम् ।स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् ॥२४॥पक्षिणो गृहमारुह्य विक्षिपन्तः प्रतिक्षणम् ।देहं शून्ये मृतं भक्त्या शोचन्ति मधुरैः स्वरैः ॥२५॥गुहागुरुगुरारावप्रलापलपनाकुलः ।सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः ॥२६॥निर्जराक्रन्दकारिण्यो मुक्ताम्बरपयोधराः ।तप्तनिःश्वासविध्वस्ताः परं कार्श्यमिता दिशः ॥२७॥क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः ।उपवासरतो ग्रामो दीनो मृतिपरः स्थितः ॥२८॥दिवसं प्रति वृक्षाणामवश्यायाश्रुबिन्दवः ।गुच्छलोचनकोशेभ्यस्तापोष्णानि पतन्त्यधः ॥२९॥प्रशान्तजनसंचारा रथ्या क्षारविधूसरा ।विधवाविगतानन्दा संशून्यहृदया स्थिता ॥३०॥कोकिलालिप्रलापिन्यो वृष्टिबाष्पहता लताः ।उष्णोष्णश्वसना देहं घन्ति पल्लवपाणिभिः ॥३१॥आत्मानं शतधा कर्तुं बृहच्छ्वभ्रशिलातले ।निर्झराः प्रपतन्त्येते तापतप्तशरीरकाः ॥३२॥निःशङ्कया गतश्रीका मूका विलुलिताशयाः ।अन्धेन तमसा पूर्णा गृहा गहनतां गताः ॥३३॥उद्यानपुष्पखण्डेभ्यो रुदद्भ्यो भ्रमरारवैः ।पूतिगन्धो विनिर्याति स्वामोदापरनामकः ॥३४॥चैत्रद्रुमविलासिन्यो विरसाः प्रतिवासरम् ।लताः कृशा विलीयन्ते सकुचद्गुच्छलोचनाः ॥३५॥प्रक्षेप्तुमम्बुधौ देहं प्रवृत्ता गन्तुमाकुलाः ।कुल्याः कलकलालोलं दोलयन्त्यस्तनुं भुवि ॥३६॥अशङ्कमशकापातस्पन्दमप्यतिचापलम् ।कलयन्त्यः स्थिता वाप्यो निस्पन्दानन्दमात्मनि ॥३७॥गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् ।नूनमद्य नभो जातमस्मत्ताताभ्यलंकृतम् ॥३८॥तद्देव्यौ क्रियतां तावदस्माकं शोकनाशनम् ।महतां दर्शनं नाम न कदाचन निष्फलम् ॥३९॥इत्युक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना ।पल्लवेनानता नम्रं मूलग्रन्थिमिवाब्जिनी ॥४०॥तस्याः स्पर्शेन तेनासौ दुःखदौर्भाग्यसंकटम् ।जहौ प्रावृड्घनासङ्गाद्ग्रीष्मतापमिवाचलः ॥४१॥सर्वो गृहजनः सोऽथ तयोर्देव्योर्विलोकनात् ।लक्ष्मीवान्दुःखनिर्मुक्तो बभूवामृतपो यथा ॥४२॥श्रीराम उवाच ।तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः ।कस्मान्न दर्शनं दत्तं मोहं तावन्निराकुरु ॥४३॥श्रीवसिष्ठ उवाच ।बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः ।तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम् ॥४४॥असदेवाङ्ग सदिव भाति पृथ्व्यादिवेदनात् ।यथा बालस्य वेतालो नाभाति तदवेदनात् ॥४५॥यथा पृथ्व्यादिना भातमपृथ्व्यादि भवेत्क्षणात् ।स्वप्ने स्वप्नपरिज्ञानात्तथा जाग्रत्यपि स्फुटम् ॥४६॥पृथ्व्यादि खतया बुद्धं खमित्येवानुभूयते ।तथाहि क्षुब्धधातूनां कुड्येषु ख इवोद्यमः ॥४७॥स्वप्ने नगरमुर्वीं वा शून्यं खातं च बुध्यते ।स्वप्राङ्गना च कुरुते शून्याप्यर्थक्रियां नृणाम् ॥४८॥खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् ।मूर्च्छायां परलोकोऽपि प्रत्यक्षमनुभूयते ॥४९॥बालो व्योमैव वेतालं म्रियमाणोऽम्बरे वनम् ।केशोण्ड्रकं खमन्यस्तु खमन्यो वेत्ति मौक्तिकम् ॥५०॥त्रस्तक्षीबार्धनिद्राश्च नौयानाश्च सदैव स्ये ।वेतालवनवृक्षादि पश्यन्त्यनुभवन्ति च ॥५१॥यथाभावितमेतेषां पदार्थानामतो वपुः ।अभ्यासजनितं भाति नास्त्येकं परमार्थतः ॥५२॥लीलया तु यथावस्तु बुद्ध्वा पृथ्व्यादिनास्तिता ।आकाशमेव संवित्त्या भाति भ्रान्तितयोदितम् ॥५३॥ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः ।पुत्रमित्रकलत्राणि कथं कानि कदा कुतः ॥५४॥दृश्यमादावनुत्पन्नं यच्च भात्यजमेव तत् ।सम्यग्ज्ञानवतामेव रागद्वेषदृशो कृतः ॥५५॥हस्तः शिरसि यद्दत्तो लीलया ज्येष्ठशर्मणः ।तत्प्रभावस्थितारम्भसंबोधायाश्चितेः फलम् ॥५६॥बोधो हि चेतति यथैव तथा शुभानिसूक्ष्मस्तु खादपि तथातितरां विशुद्धः ।सर्वत्र राघव स एव पदार्थजालंस्वप्नेषु कल्पितपुरेष्वनुभूतमेतत् ॥५७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने सिद्धदर्शनहेतुकथनं नाम षड्विंशः सर्गः ॥२६॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP