संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११५ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।एवमुक्तो भगवता वसिष्ठेन महात्मना ।रामः कमलपत्राक्ष उन्मीलित इवाबभौ ॥१॥विकासितान्तःकरणः शोभामलमुपाययौ ।आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव ॥२॥बोधविस्मयसंजातसौम्यस्मितसिताननः ।दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह ॥३॥श्रीराम उवाच ।अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।अविद्यमाना या विद्या तया सर्वे वशीकृताः ॥४॥इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये ।अविद्ययापि यन्नामासदेव सदिव स्थितम् ॥५॥अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे ।रूपं मदवबोधार्थं कथयानुग्रहात्पुनः ॥६॥अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते ।लवणोऽसौ महाभागः किं नामापदमाप्तवान् ॥७॥संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः ।ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक् ॥८॥लवणस्य तथा दत्त्वा तामापदमनुत्तमाम् ।किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः ॥९॥श्रीवसिष्ठ उवाच ।काष्ठकुड्योपमो देहो न किंचन इहानघ ।स्वप्नालोक इवानेन चेतसा परिकल्प्यते ॥१०॥चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम् ।विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् ॥११॥देही हि कर्मभाग्यो हि नानाकारशरीरधृक् ।अहंकारमनोजीवनामभिः परिकल्प्यते ॥१२॥तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव ।सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् ॥१३॥अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम् ।वृत्तीरनुपतच्चित्रा विचित्राकृतितां गतम् ॥१४॥अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि ।संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन ॥१५॥अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः ।तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् ॥१६॥संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते ।कमलस्य यथा हार्दं दिनालोकविकासिनः ॥१७॥चित्ताविद्यामनोजीववासनेति कृतात्मभिः ।कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः ॥१८॥जडो देहो न दुःखार्हो दुःखी देह्यविचारतः ।अविचारो घनाज्ञानादज्ञानं दुःखकारणम् ॥१९॥शुभाशुभानां धर्माणां जीवो विषयतां गतः ।अविवेकैकदोषेण कोशेनेव हि कीटकः ॥२०॥अविवेकामयोन्नद्धं मनो विविधवृत्तिमत् ।नानाकारविहारेण परिभ्रमति चक्रवत् ॥२१॥उदेति रौति हन्त्यत्ति याति वल्गति निन्दति ।मन एव शरीरेऽस्मिन्न शरीरं कदाचन ॥२२॥यथा गृहपतिर्गेहे विविधं हि विचेष्टते ।न गृहं तु जडं राम तथा देहे हि जीवकः ॥२३॥सर्वेषु सुखदुःखेषु सर्वासु कलनासु च ।मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ॥२४॥अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् ॥२५॥मनः कर्मफलं भुङ्कते शुभं वाऽशुभमेव वा ।यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव ॥२६॥हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ ।एकं तेनोपविष्टेन चिन्तितं मनसा चिरम् ॥२७॥पितामहो मे सुमहान्राजसूयस्य याजकः ।अहं तस्य कुले जातस्तं यजे मनसा मखम् ॥२८॥इति संचिन्त्य मनसा कृत्वा संभारमादृतः ।राजसूयस्य दीक्षायां प्रविवेश महीपतिः ॥२९॥ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन् ।देवानामन्त्रयामास ज्वालयामास पावकम् ॥३०॥यथेच्छं यजमानस्य मनसोपवनान्तरे ।ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया ॥३१॥भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् ।विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः ॥३२॥एवं स लवणो राजा राजसूयमवाप्तवान् ।मनसैव हि तुष्टेन युक्तं तस्य फलेन च ॥३३॥अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः ।तन्मनः पावनोपाये सत्ये योजय राघव ॥३४॥पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति ।देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः ॥३५॥उच्चैर्विवेकवति चेतसि संप्रबुद्धेदुःखान्यलं विगलितानि विविक्तबुद्धेः ।भास्वत्करप्रकटिते ननु पद्मखण्डेसंकोचजाड्यतिमिराणि चिरं क्षतानि ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उत्पत्तिप्रकरणे सुखदुःखभोक्तृत्वोपदेशो नाम पञ्चदशोत्तरशततमः सर्गः ॥११५॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP