संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अभिन्नौ कर्मकर्तारौ सममेव परात्पदात् ।स्वयं प्रकटतां यातौ पुष्पामोदौ तरोरिव ॥१॥सर्वसंकल्पनामुक्ते जीवा ब्रह्मणि निर्मले ।स्फुरन्ति वितते व्योम्नि नीलिमेवाज्ञचक्षुषः ॥२॥अप्रबुद्धजनाचारो यत्र राघव दृश्यते ।तत्र ब्रह्मण उत्पन्ना जीवा इत्युक्तयः स्थिताः ॥३॥संप्रबुद्धजनाचारे वक्तुमेतन्न शोभनम् ।यद्ब्रह्मण इदं जातं न जातं चेति राघव ॥४॥काचिद्वा कलना यावन्न नीता राघव प्रथाम् ।उपदेश्योपदेशश्रीस्तावल्लोके न शोभते ॥५॥अतो भेददृशा दीनामङ्गीकृत्योपदिश्यते ।ब्रह्मेदमेते जीवा वै वेति वाचामयं क्रमः ॥६॥इति दृष्टो निरासङ्गाद्ब्रह्मणो जायते जगत् ।तज्जं तदेव तद्धेतुगतं दुरवबोधतः ॥७॥मेरुमन्दरसंकाशा बहवो जीवराशयः ।उत्पत्योत्पत्य संलीनास्तस्मिन्नेव परे पदे ॥८॥अथानन्ताः स्फुरन्त्येते जायमानाः सहस्रशः ।नानाककुब्निकुञ्जेषु पादपेष्विव पल्लवाः ॥९॥जीवौघाश्चोद्भविष्यन्ति मधाविव नवाङ्कुराः ।तत्रैव लयमेष्यन्ति ग्रीष्मे मधुरसा इव ॥१०॥तिष्ठन्त्यजस्रं कालेषु त एवान्ये च भूरिशः ।जायन्ते च प्रलीयन्ते परस्मिञ्जीवराशयः ॥११॥पुष्पामोदाविवाभिन्नौ पुमान्कर्म च राघव ।परमेशात्समायाते तत्रैव विशतः शनैः ॥१२॥दृष्टमेते जगत्यस्मिन्दैत्योरगनरामराः ।उद्भवन्त्यभवा भावैः प्रस्फुरन्ति पुनः पुनः ॥१३॥हेतुर्विहरणे तेषामात्मविस्मरणादृते ।न कश्चिल्लक्ष्यते साधो जन्मान्तरफलप्रदः ॥१४॥श्रीराम उवाच ।अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः ।वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते ॥१५॥महासत्त्वगुणोपेता ये धीराः समदृष्टयः ।अनिर्देश्यकलोपेताः साधवस्त उदाहृताः ॥१६॥द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम् ।साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते ॥१७॥साधुसंव्यवहारार्थं शास्त्रं यो नानुवर्तते ।बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति ॥१८॥इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो ।यथा कर्म च कर्ता च पर्यायेणेह संगतौ ॥१९॥कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते ।बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः ॥२०॥कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः ।जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात् ॥२१॥यया वासनया जन्तुर्नीयते भवपञ्जरे ।तद्वासनानुरूपेण फलं समनुभूयते ॥२२॥एवं स्थिते कथं नाम जन्मबीजेन कर्मणा ।विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् ॥२३॥पक्षेणानेन भगवन्भवता जन्मकर्मणोः ।तिरस्कृता जगज्जाता साऽविनाभावितैतयोः ॥२४॥ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च ।कर्मणां फलमस्तीति द्वयं लोके प्रमार्जितम् ॥२५॥संजाते संकरे लोके कर्मस्वफलदायिषु ।मात्स्यन्याये विलसति नाश एवावशिष्यते ॥२६॥किं तत्कृतं भवत्येव भगवन्ब्रूहि तत्त्वतः ।एनं मे संशयं स्फारं छिन्धि वेद्यविदांवर ॥२७॥श्रीवसिष्ठ उवाच ।साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम् ।शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ॥२८॥मानसोऽयं समुन्मेषः कलाकलनरूपतः ।एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते ॥२९॥यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात् ।तदैव कर्म जन्तूनां जीवो देहतया स्थितः ॥३०॥कुसुमाशययोर्भेदो न यथा भिन्नयोरिह ।तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः ॥३१॥क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः ।पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि ॥३२॥न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम् ।अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् ॥३३॥ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत् ।पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः ॥३४॥कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम् ।स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः ॥३५॥कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता ।मुक्तस्यैव भवत्येव नामुक्तस्य कदाचन ॥३६॥वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः ।द्वयोरेकतराभावे द्वयमेव विलीयते ॥३७॥चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं ननु कर्मविद्धि ।कर्माथ चित्तं किल धर्मकर्मपदं गते राम परस्परेण ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः ॥९५॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP