संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८१ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८१ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८१ Translation - भाषांतर राक्षस्युवाच ।अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः ।राजा राजीवपत्राक्ष इदानीमेव भाषताम् ॥१॥राजोवाच ।जागतप्रत्ययाभावो यस्याहुः प्रत्ययं परम् ।सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः ॥२॥यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः ।निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ॥३॥कोटिद्वयान्तरालस्थं मध्ये कोटिद्वयीमयम् ।यस्य चित्तमयी लीला जगदेतच्चराचरम् ॥४॥यस्य विश्वात्मकत्वेऽपि खण्ड्यते नैकपिण्डता ।सन्मात्रं तत्त्वया भद्रे कथ्यते ब्रह्म शाश्वतम् ॥५॥एषोऽणुर्वेदनाद्वायुः स्वभ्रान्तिर्दृगदृश्यत ।अतो न किंचिद्वाय्वादि केवलं शुद्धचेतनम् ॥६॥शब्दसंवेदनाच्छब्दः शब्दस्य भ्रान्तिदर्शनम् ।ततोऽत्र शब्दशब्दार्थदृष्टेर्दूरतरं गतः ॥७॥सोऽणुः सर्वं न किंचिच्च सोऽहं नाहं स एव च ।सर्वशक्यात्मनोऽस्यैव प्रतिभैकात्र कारणम् ॥८॥आत्मा यत्नशतप्राप्यो लब्धेऽस्मिन्न च किंचन ।लब्धं भवति तच्चैतत्परमं वा न किंचन ॥९॥तावज्जन्म वसन्तेषु संसृतिव्रततिश्चिरम् ।विकसत्युदितो यावन्न बोधो मूलकाषकृत् ॥१०॥अणुनानेन रूपत्वं दृश्यतामिव गच्छता ।तापेनाम्बुधियेवेदं स्वस्थेनैवापहारितम् ॥११॥अनेन संविदणुना मेरुस्त्रिभुवनं तृणम् ।वमित्वा बहिरन्तस्थं मायात्मकमवेक्ष्यते ॥१२॥चिदणोरन्तरे यद्यदस्ति तद्दृश्यते बहिः ।संकल्पेष्टालिङ्गनादिदृष्टान्तोऽत्र हि रागिणः ॥१३॥आदिसर्गे सर्वशक्तिश्चिद्यथैवोदितात्मना ।तथाशु पश्यत्यखिलं संकल्पे पर्वतः स्वतः ॥१४॥अभिजातस्य यस्यान्तर्यद्यथा प्रतिभासते ।तत्तथा पश्यतीवासौ दृष्टान्तोऽत्र शिशोर्मनः ॥१५॥परमाणुतयैवापि चिन्मात्रेणाणुनामुना ।परिसूक्ष्मतमेनैव विष्वग्विश्वं प्रपूरितम् ॥१६॥अणुरेव न मात्येष योजनानां शतेष्वपि ।सर्वगत्वादनादित्वादरूपत्वादनाकृतिः ॥१७॥यथा धूर्तेन खिङ्गेन पुंसा बालः प्रतार्यते ।सुभ्रूविकारनयननिरीक्षणविचेष्टितैः ॥१८॥चिदालोकेन शुद्धेन सपर्वततृणं जगत् ।नाट्यतेऽविरतं तद्वद्विवृत्त्याभिनयं सदा ॥१९॥तेनैवानन्तरूपत्वादणुना वाससा यथा ।संविदा तद्भवद्बाह्ये कृत्वा मेर्वादिवेष्टितम् ॥२०॥दिक्कालाद्यनवच्छिन्नरूपत्वान्मेरुतो बृहत् ।वालाग्रशतभागात्माप्येष सूक्ष्मः परोऽणुकः ॥२१॥शुद्धसंवेदनाकाशरूपस्य परमाणुना ।शोभते नहि साम्योक्तिर्मेरुसर्षपयोरिव ॥२२॥मायाकलापिनाणुत्वं निर्माय परमात्मनि ।हेम्नीव कटकत्वेन नानात्र समता भवेत् ॥२३॥प्रकटोऽनेन दीपेन प्रकाशोऽनुभवात्मना ।स्वसत्तानाशपूर्वो हि विनानेन भवेत्ततः ॥२४॥यदि सूर्यादिकं सर्वं जगदेकं जडं भवेत् ।ततः किमात्मकं रूपं प्रकाशः स्यात्क्व वाथ किम् ॥२५॥शुद्धसन्मात्रचित्त्वं यत्स्वतः स्वात्मनि संस्थितम् ।तदेतदणुना तेजो दृष्टं बहिरवस्थितम् ॥२६॥तेजांस्यर्केन्दुवह्नीनां न भिन्नानि तमोघनात् ।एतावानेव भेदोऽस्ति यद्वर्णे शौक्ल्यकृष्णते ॥२७॥यादृक्कज्जलनीहारे मेघनीहारयोर्भवेत् ।तादृक्प्रकाशतमसोर्भेदो नेति तयोः स्थितिः ॥२८॥जडयोरुपलम्भाय चिदादित्यः किलैतयोः ।यदा तपति तेनैते लब्धसत्तैकतां गते ॥२९॥तपत्येकश्चिदादित्यो रात्रिंदिवमतन्द्रितः ।अन्तर्बहिः शिलाद्यन्तरप्यनस्तमयोदयः ॥३०॥त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः ।नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा ॥३१॥तमस्त्वं तमसो देहमविनाशयतामुना ।तप्यतेऽभासया भासा सर्वमाभास्यते तमः ॥३२॥पद्मोत्पले यथार्केण तपता प्रकटीकृते ।प्रकाशतमसोः सत्ते चितैवं प्रकटीकृते ॥३३॥अर्कः कुर्वन्नहोरात्रे दर्शयत्याकृतिं यथा ।चितिः सदसती कृत्वा दर्शयत्याकृतिं तथा ॥३४॥चिदणोरन्तरे सन्ति समग्रानुभवाणवः ।यथा मधुरसस्यान्तः पुष्पपत्रफलश्रियः ॥३५॥उद्यन्ति चिदणोरेते समग्रानुभवाणवः ।मधुमासरसाच्चित्रा इव खण्डपरम्पराः ॥३६॥परमात्माणुरत्यन्तनिःस्वादुः सूक्ष्मतावशात् ।समग्रस्वादुसत्तैकजनकः स्वदते स्वयम् ॥३७॥यो यो नाम रसः कश्चित्समस्तोऽप्यप्स्यवस्थितः ।प्रतिबिम्बमिवादर्शे तं विना नास्त्यसौ स्वतः ॥३८॥त्यजता संस्थितं सर्वं चिन्मात्रपरमाणुना ।त्यक्तं जगदसंवित्त्या संवित्त्या सर्वमाश्रितम् ॥३९॥अशक्तया स्वात्मगुप्तौ सर्वमाच्छादितं जगत् ।चित्ताणुतामेव परां संप्रसार्य वितानवत् ॥४०॥आत्मगुप्तौ न शक्नोति परमात्माम्बराकृतिः ।मनागपि क्षणमपि गजो दूर्वावने यथा ॥४१॥तथाप्याक्रान्तवान्विश्व ज्ञातो गोपायति क्षणात् ।जगद्धानाकणं बाल इवाहो घनमायिता ॥४२॥चिन्मात्रानुनयेनेदं जगत्सन्नपि जीवति ।वसन्तरसबोधेन विचित्रेव वनावली ॥४३॥चित्तसत्तैवमखिलं स्वतो जगदिवोदितम् ।मधुमासरसोल्लासाच्चित्रो हि वनखण्डकः ॥४४॥सत्यं चिन्मयमेवेदं जगदित्येव विद्ध्यलम् ।वसन्तरसमेव त्वं विद्धि पल्लवगुल्मकम् ॥४५॥सर्वावयविसारत्वात्सहस्रकरलोचनः ।परमाणुरसावेव नित्यानवयवोदयः ॥४६॥निमेषांशावबोधो हि चिदणोः प्रतिभासते ।यतः कल्पसहस्रौघः स्वप्ने वार्धकबाल्यवत् ॥४७॥ततः सोऽपि निमेषोणुः कल्पकोटिशतान्यलम् ।सर्वसत्ताविलासेन प्रतिभैका विजृम्भते ॥४८॥अभुक्तवत्येव यथा भुक्तवानहमित्यलम्।जायते प्रत्ययस्तद्वन्निमेषे कल्पनिश्चयः ॥४९॥अभुक्त्वा भुक्तवानस्मीत्येवं प्रत्ययशालिनः ।दृश्यन्ते वासनाविष्टाः स्वप्ने स्वमरणं यथा ॥५०॥जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि ।प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः ॥५१॥यदस्ति यत्र तत्तस्मात्समुदेति तदेव तत् ।आकारिणि विकारादि दृष्टं न गगनेऽमले ॥५२॥चिति भूतानि भूतानि वर्तमानानि संप्रति ।भविष्यन्ति च भूतानि सन्ति बीजे द्रुमा इव ॥५३॥निमेषकल्पावेतेन तुषेणान्नकणाविव ।वलिता वेषचेत्याभ्यामणुः स्वात्माङ्गकं श्रितः ॥५४॥उदासीनवदासीनो न संस्पृष्टो मनागपि ।एष भोक्तृत्वकर्तृत्वैः स्वात्मा सर्वजगत्यपि ॥५५॥जगत्सत्तोदिते यं हि शुद्धचित्परमाणुतः ।परमाणोश्च भोक्तृत्वकर्तृत्वे केवलं स्थिते ॥५६॥जगन्न किंचित्क्रियते सर्वदैव न केनचित् ।विलीयते च नो किंचिन्मानुष्याद्दृश्यखण्डनम् ॥५७॥सर्वं समसमाभासमिदमाकाशकोशकम् ।जगत्तयोपशब्दं च विद्ध्यनाद्यं निशाचरि ॥५८॥चिदणुर्दृश्यसिद्ध्यर्थमान्तरीं चिच्चमत्कृतिम् ।बहीरूपतया धत्ते स्वात्मनि परिसंस्थिताम् ॥५९॥एतद्बहिष्ठमन्तस्थमस्ति शब्दे न वस्तुनि ।उपदेशाय सत्त्वानां चिद्रूपत्वाज्जगत्त्रये ॥६०॥द्रष्टाऽदृष्टपदं गच्छन्नात्मानं संप्रपश्यति ।नेत्रदृश्याभिपातीव सदेवासदिव स्थितम् ॥६१॥न च गच्छति दृश्यत्वं द्रष्टा?ह्यसदवास्तवम् ।आत्मन्येव न यत्किंचित्तत्तामेति कथं परः ॥६२॥दृगेव लोचने सा च वासनान्तं निजं वपुः ।बहीरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता ॥६३॥न विना द्रष्टतामस्ति दृश्यसत्ता कथंचन ।पितृतेव विना पुत्रं द्वितेवैक्यपदं विना ॥६४॥द्रष्टैव दृश्यतामेति न द्रष्टृत्वं विनास्ति तत् ।विना पित्रेव तनयो विना भोक्त्रेव भोग्यता ॥६५॥द्रष्टुर्दृश्यविनिर्माणे चित्त्वादस्त्वेव शक्तता ।कनकस्यावदातस्य कटकादिकृताविव ॥६६॥दृश्यस्य द्रष्ट्टृनिर्माणे जडत्वान्नास्ति शक्तता ।कटकस्य तु हैमस्य यथा कनकनिर्मितौ ॥६७॥चेतनादृश्यनिर्माणं चित्करोत्यसदेव सत् ।अकारणं मोहहेतुं हेमेव कटकभ्रमम् ॥६८॥कटकत्वावभासे हि यथा हेम्नो न हेमता ।सत्येव प्रकचत्येवं द्रष्ट्टदृश्यस्थितौ वपुः ॥६९॥द्रष्टा दृश्यतया तिष्ठन्द्रष्ट्टतामुपजीवति ।सत्यां कटकसंवित्तौ हेम काञ्चनतामिव ॥७०॥एकस्मिन्प्रतिभासे हि न स? द्रष्टृदृश्ययोः ।पुंप्रत्ययप्रकचने क्व पशुप्रत्ययोदयः ॥७१॥दृश्यं पश्यन्त्यमात्मानं न द्रष्टा संप्रपश्यति । द्रष्टुर्हि दृश्यतापत्तौ सत्ताऽसत्तेव तिष्ठति ॥७२॥ बोधाद्गलितदृश्यस्य द्रष्टुः सत्तेव भासते । अबुद्धे कटके स्वस्य हेम्नोऽकटकता यथा ॥७३॥दृश्ये सत्यस्ति वै द्रष्टा दृश्यं द्रष्टरि भासते ।द्वयेन च विना नैकं नैकमप्यस्ति चानयोः ॥७४॥सर्वं यथावद्विज्ञाय शुद्धसंविन्मयात्मना ।वाचामविषयं स्वच्छं किंचिदेवावशिष्यते ॥७५॥आत्मानं दर्शनं दृश्यं दीपेनेवावभासितम् ।कृतं च सर्वमेतेन चिन्मात्रपरमाणुना ॥७६॥मातृमानप्रमेयाख्यं बुधो निगिरति त्रयम् ।हेमेव कटकादित्वमसन्मयमुपस्थितम् ॥७७॥यथा न जलभूम्यादेः पृथक्किंचिन्मनागपि ।तथैतस्मात्स्वभावाणोर्न किंचित्पृथगस्ति हि ॥७८॥सर्वगानुभवात्मत्वात्सर्वानुभवरूपतः ।एकत्वानुभवन्याये रूढे सर्वैकतास्य हि ॥७९॥अस्येच्छया पृथङ्नास्ति वीचितेव महाम्भसः ।इच्छानुरूपसंपत्तेर्भावितार्थैकता किल ॥८०॥दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः ।सर्वात्मत्वात्स सर्वात्मा सर्वानुभवत. स्वतः ॥८१॥सन्नेष चेतनात्मत्वाद्दर्शनानवबोधतः ।द्वैतैक्ये नात्र विद्येते सर्वरूपे महात्मनि ॥८२॥यदि कश्चिद्द्वितीयः स्यात्तदैकस्यैकता भवेत् ।द्वैतैक्ययोर्मिथः सिद्धिरातपच्छाययोरिव ॥८३॥यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् ।एकतायामसिद्धायां द्वयमेव न विद्यते ॥८४एवं स्थिते तु यस्तिष्ठंस्तत्तादृक्तदिवास्ति हि ।तस्मान्न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः ॥८५॥नानारम्भविभासं च साम्येनाक्षुब्धरूपिणः ।बीजस्यान्तस्तरुरिव ब्रह्मणोऽन्तः स्थितं जगत् ॥८६॥द्वैतमप्यपृथक्तस्माद्धेम्नः कटकता यथा ।सम्यग्बुद्धावबोधो हि द्वैतं तच्च न सन्मयम् ॥८७॥यथा द्रवत्वं पयसः स्पन्दनं मातरिश्वनः ।व्योम्नः शून्यत्वमेवं हि न पृथग्द्वैतमीश्वरात् ॥८७॥द्वैताद्वैतोपलम्भो हि दुःखायैव क्रियात्मने ।निपुणोऽनुपलम्भो यस्त्वेतयोस्तत्परं विदुः ॥८९॥मातृमानप्रमेयादिद्रष्टृदर्शनदृश्यता ।एतावज्जगदेतच्च परमाणौ चिति स्थितम् ॥९०॥अयं जगदणुर्नित्यमेतेनाणुसुमेरुणा ।स्पन्दनं पवनेनेव स्वाङ्ग एव कृताकृतः ॥९१॥अहो नु भीमा मायेयमथवा मायिनां परा ।परमाण्वन्तरेवास्ति यत्त्रैलोक्यपरम्परा ॥९२॥अथासंभवमायित्वमेवैतत्सर्वदा स्थितम् ।चिन्मात्रपरमाणुत्वमात्रमेव जगत्स्थितिः ॥९३॥अन्तर्गतजगज्जालोऽप्येषोऽणुः साम्यमत्यजन् ।स्थितोऽन्तस्थबृहद्वृक्षं बीजं भाण्डोदरे यथा ॥९४॥बीजेऽन्तर्वृक्षविस्तारः स्थितः सफलपल्लवः ।परया दृश्यते दृष्ट्या जगच्च चिदणूदरे ॥९५॥स शाखाफलपुष्पं स्वमजहद्बीजकोटरे ।यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत् ॥९६॥संस्थितं द्वैतमद्वैतं बीजकोश इव द्रुमः ।जगच्चित्परमाण्वन्तर्यः पश्यति स पश्यति ॥९७॥न द्वैतं नैव चाद्वैतं न च बीजं न चाङ्कुरः ।न स्थूलं न च वा सूक्ष्मं नाजातं जातमेव च ॥९८॥न चास्ति न च नास्तीदं न सौम्यं क्षुभितं न च ।त्रिजगच्चिदणोरन्तः खवाय्वपि न किंचन ॥९९॥न जगन्नाजगच्चास्ति विद्यते चित्परा शुभा ।सर्वात्मिका यदा यत्र सा यथोदेति तत्तथा ॥१००॥उदेत्यनुदितोऽप्येष स्वयंवेदनजृम्भितः ।परमात्माणुरेकात्मा समग्रात्मतयैव खे ॥१०१॥द्रुमो भूमौ स्वबीजत्वमिवोदेत्यनुदेत्यपि ।परं तत्त्वं जगद्भक्त्या जगत्तां स्वोदयेन च ॥१०२॥द्रुमो बीजतयैवाशु न संत्यक्तसमस्थितिः ।तिष्ठत्यपगतस्पन्दस्त्यागात्यागपरोऽणुकः ॥१०३॥बिसतन्तुर्महामेरुः परमाणोरपेक्षया ।दृश्यं किल विशेत्तन्तुरदृश्याक्ष्णा पराणुता ॥१०४॥बिसतन्तुर्महामेरुः परमाणोः किलात्मनः ।तस्यैव तद्घनाः स्वान्तः स्थिता मेर्वादिकोटयः ॥१०५॥एकेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च ।दृश्यं प्रपञ्चरचितं नभसेव विश्वं शून्यत्वमच्छमभितः परिलब्धमेव ॥१०६॥द्वैतेन सुन्दरतरं स्वमनुज्झितेन रूपं सुषुप्तसदृशेन यथावबोधात् ।ऐक्यं गतं स्थितिगमागममुक्तमेवमित्थं स्थितं तनु जगत्परमार्थपिण्डः ॥१०७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क० परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः ॥८१॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP