संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥१॥तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारिणाम् ।सा जीवन्मुक्ततोदेति विदेहान्मुक्ततैव या ॥२॥श्रीराम उवाच ।ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् ।ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥३॥श्रीवसिष्ठ उवाच ।यथास्थितमिदं यस्य व्यवहारवतोऽपि च ।अस्तं गतं स्थितं व्योम जीवन्मुक्तः स उच्यते ॥४॥बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् ।या आस्ते व्यवहर्तैव जीवन्मुक्तः स उच्यते ॥५॥नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।यथाप्राप्तस्थितेर्यस्य जीवन्मुक्तः स उच्यते ॥६॥यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते ।यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥७॥रागद्वेषभयादीनामनुरूपं चरन्नपि ।योऽन्तर्व्योमवदच्छस्थः स जीवन्मुक्त उच्यते ॥८॥यस्य नाहंकृतो भावो यस्य बुद्धिर्न लिप्यते ।कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥९॥यस्योन्मेषनिमेषार्धाद्विदः प्रलयसंभवौ ।पश्येत्त्रिलोक्याः स्वसमः स जीवन्मुक्त उच्यते ॥१०॥यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥११॥शान्तसंसारकलनः कलावानपि निष्कलः ।यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥१२॥यः समस्तार्थजातेषु व्यवहार्यपि शीतलः ।पदार्थेष्वपि पूर्णात्मा स जीवन्मुक्त उच्यते ॥१३॥जीवन्मुक्तपदं त्यक्त्वा देहे कालवशीकृते ।विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥१४॥विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥१५॥सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् ।रुद्रः सर्वान्संहरति सर्गान्सृजति पद्मजः ॥१६॥खं भूत्वा पवनस्कन्धं धत्ते सर्षिसुरासुरम् ।कुलाचलगतो भूत्वा लोकपालपुरास्पदः ॥१७॥भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् ।तृणगुल्मलता भूत्वा ददाति फलसंततिम् ॥१८॥बिभ्रज्जलानलाकारं ज्वलति द्रवति द्रुतम् ।चन्द्रोऽमृतं प्रसवति मृतं हालाहलं विषम् ॥१९॥तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् ।शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् ॥२०॥करोति जंगमं चित्तः स्थावरं स्थावराकृतिः ।भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ॥२१॥परमार्कवपुर्भूत्वा प्रकाशान्तं विसारयन् ।त्रिजगत्त्रसरेण्वोघं शान्तमेवावतिष्ठते ॥२२॥यत्किंचिदिदमाभाति भातं भानमुपैष्यति ।कालत्रयगतं दृश्यं तदसौ सर्वमेव च ॥२३॥श्रीराम उवाच ।कथमेवं वद ब्रह्मन्भूयते विषमा हि मे ।दृष्टिरेषाथ दुष्प्राप्या दुराक्रम्येति निश्चयः ॥२४॥श्रीवसिष्ठ उवाच ।मुक्तिरेषोच्यते राम ब्रह्मैतत्समुदाहृतम् ।निर्वाणमेतत्कथितं श्रृणु तत्प्राप्यते कथम् ॥२५॥यदिदं दृश्यते दृश्यमहन्त्वन्तादिसंयुतम् ।सतोऽप्यस्यात्यनुत्पत्त्या बुद्धयैतदवाप्यते ॥२६॥श्रीराम उवाच ।विदेहमुक्तास्त्रैलोक्यं संपद्यन्ते यदा तदा ।मन्येते सर्गतामेव गता वेद्यविदांवर ॥२७॥श्रीवसिष्ठ उवाच ।विद्यते चेत्त्रिभुवनं तत्तत्तां संप्रयान्तु ते ।यत्र त्रैलोक्यशब्दार्थो न संभवति कश्चन ॥२८॥एतत्त्रिलोकतां यातं ब्रह्मेत्युक्तार्थधीः कुतः ।तस्मान्नो संभवत्येषा जगच्छब्दार्थकल्पना ॥२९॥अनन्यच्छान्तमाभासमात्रमाकाशनिर्मलम् ।ब्रह्मैव जगदित्येतत्सर्वं सत्त्वावबोधतः ॥३०॥अहं हि हेमकटके विचार्यापि न दृष्टवान् ।कटकत्वं क्वचिन्नाम ऋते निर्मलहाटकात् ॥३१॥जलादृते पयोवीचौ नाहं पश्यामि किंचन ।वीचित्वं तादृशं दृष्टं यत्र नास्त्येव तत्र हि ॥३२॥स्पन्दत्वं पवनादन्यन्न कदाचन कुत्रचित् ।स्पन्द एव सदा वायुर्जगत्तस्मान्न भिद्यते ॥३३॥यथा शून्यत्वमाकाशे ताप एव मरौ जलम् ।तेज एव सदा लोके ब्रह्मैव त्रिजगत्तथा ॥३४॥श्रीराम उवाच ।अत्यन्ताभावसंपत्त्या जगद्दृश्यस्य मुक्तता ।ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम् ॥३५॥मिथःसंपन्नयोर्द्रष्ट्रदृश्ययोरेकसंख्ययोः ।द्वयाभावे स्थितिं याते निर्वाणमवशिष्यते ॥३६॥दृश्यस्य जगतस्तस्मादत्यन्तासंभवो यथा ।ब्रह्मैवेत्थं स्वभावस्थं बुध्यते वद मे तथा ॥३७॥कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिद्ध्यति ।एतस्मिंस्तु मुने सिद्धे न साध्यमवशिष्यते ॥३८॥श्रीवसिष्ठ उवाच ।बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।नूनं विचारमन्त्रेण निर्मूलमुपशाम्यति ॥३९॥न शक्यते झटित्येषा समुत्सादयितुं क्षणात् ।समप्रपतने ह्यद्रौ समरोहावरोहणे ॥४०॥तस्मादभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः ।जगद्भ्रान्तिर्यथा शाम्येत्तवेदं कथ्यते श्रृणु ॥४१॥वक्ष्याम्याख्यायिकां राम यामिमां बोधसिद्धये ।तां चेच्छृणोषि तत्साधो मुक्त एवासि बोधवान् ॥४२॥अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते ।यत्किलोत्पद्यते राम तेन मुक्तेन भूयते ॥४३॥इयमित्थं जगद्भ्रान्तिर्भात्यजातैव खात्मिका ।इत्युत्पत्तिप्रकरणे कथ्यतेऽस्मिन्मयाधुना ॥४४॥यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम् ॥४५॥तन्महाप्रलये प्राप्ते रुद्रादिपरिणामिनि ।भवत्यसददृश्यात्म क्वापि याति विनश्यति ॥४६॥ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ॥४७॥न शून्यं नापि चाकारं न दृश्यं न च दर्शनम् ।न च भूतपदार्थौघो यदनन्ततया स्थितम् ॥४८॥किमप्यव्यपदेशात्म पूर्णात्पूर्णतराकृति ।न सन्नासन्न सदसन्न भावो भवनं न च ॥४९॥चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् ।अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥५०॥यस्मिञ्जगत्प्रस्फुरति दृष्टमौक्तिकहंसवत् ।यश्चेदं यश्च नैवेदं देवः सदसदात्मकः ॥५१॥अकर्णजिह्वानासात्वग्नेत्रः सर्वत्र सर्वदा ।श्रृणोत्यास्वादयति यो जिघ्रेत्स्पृशति पश्यति ॥५२॥स एव सदसद्रूपं येनालोकेन लक्ष्यते ।सर्गचित्रमनाद्यन्तं स्वरूपं चाप्य रञ्जनम् ॥५३॥अर्धोन्मीलितदृश्यभ्रूमध्ये तारकवज्जगत् ।व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति ॥५४॥यस्यान्यदस्ति न विभोः कारणं शशशृङ्गवत् ।यस्येदं च जगत्कार्यं तरङ्गौघ इवाम्भसः ॥५५॥ज्वलतः सर्वतोऽजस्रं चित्तस्थानेषु तिष्ठतः ।यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥५६॥यं विनाऽर्कादयोऽप्येते प्रकाशास्तिमिरोपमाः ।सति यस्मिन्प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥५७॥सस्पन्दे समुदेतीव निःस्पन्दान्तर्गते न च ।इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता ॥५८॥जगन्निर्माणविलयविलासो व्यापको महान् ।स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ॥५९॥स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः ॥६०॥सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च ।न सुप्तो न प्रबुद्धश्च यः सर्वत्रैव सर्वदा ॥६१॥यदस्पन्दं शिवं शान्तं यत्स्पन्दं त्रिजगत्स्थितिः ।स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ॥६२॥आमोद इव पुष्पेषु न नश्यति विनाशिषु ।प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटे यथा ॥६३॥मूकोपमोऽपि योऽमूको मन्ता योऽप्युपलोपमः ।यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिंचनः ॥६४॥योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः ।न किंचित्संस्थितेनापि येन व्याप्तमिदं जगत् ॥६५॥निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।यस्य निर्मननस्यैता मनोनिर्माणरीतयः ॥६६॥यदनालोकनाद्भान्तिसंसारोरगभीतयः ।यस्मिन्दृष्टे पलायन्ते सर्वाशाः सर्वभीतयः ॥६७॥साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।सति यस्मिन्प्रवर्तन्ते चित्तेहाः स्पन्दपूर्विकाः ॥६८॥यस्माद्धटपटाकारपदार्थशतपङ्कतयः ।तरङ्गगणकल्लोलवीचयो वारिधेरिव ॥६९॥स एवान्यतयोदेति यत्पदार्थशतभ्रमैः ।कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥७०॥यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये ।यश्च न त्वमबुद्धात्मा नाहं नैते जनाश्च यः ॥७१॥अन्येवाप्यतिरिक्तेव सैवासेव च भङ्गुरा ।पयसीव तरङ्गाली यस्मात्फुरति दृश्यभूः ॥७२॥यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।मानसी कलना येन यस्य भासा विभासनम् ॥७३॥क्रियां रूपं रसं गन्धं शब्दं स्पर्शं च चेतनम् ।यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ॥७४॥द्रष्टुरदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् ।साध्यो तदवधानेन स्वात्मानमवबुध्यसे ॥७५॥अजमजरमनाद्यं शाश्वतं ब्रह्म नित्यंशिवममलममोघं वन्यमुच्चैरनिन्द्यम् ।सकलकलनशून्यं कारणं कारणाना-मनुभवनमवेद्यं वेदनं विश्वमन्तः ॥७६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे परमकारणवर्णनं नाम नवमः सर्गः ॥९॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP