संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ४० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ४० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ४० Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं निशाचराचारचिरघोरे रणाङ्गणे ।अहनीव जनाचारे स्थिते यामावरेहिते ॥१॥हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे ।लाभोच्छदोच्चलचते भूतसङ्घे प्रवल्गति ॥२॥निःशब्दे ध्वान्तसंचारे निद्रारुद्धककुब्गणे ।लीलापतिरुदारात्मा किंचित्खिन्नमना इव ॥३॥प्रातःकार्यं विचार्याशु मन्त्रिभिर्मन्त्रकोविदैः ।दीर्घचन्द्रसमाकारे शयने हिमशीतले ॥४॥चन्द्रोदरनिभे चारुगृहे शिशिरकोटरे ।निद्रां मुहूर्तमगमन्मुद्रितेक्षणपुष्करः ॥५॥अथ ते ललने व्योम तत्परित्यज्य तद्गृहम् ।रन्ध्रैर्विविशतुर्वातलेखेऽब्जमुकुलं यथा ॥६॥श्रीराम उवाच ।कियन्मात्रमिदं स्थूलं शरीरं वाग्विदांवर ।रन्ध्रेण तन्तुतनुना कथमाश्वाविशत्प्रभो ॥७॥श्रीवसिष्ठ उवाच ।आधिभौतिकदेहोऽहमिति यस्य मतिभ्रमः ।तस्यासावणुरन्ध्रेण गन्तुं शक्नोति नानघ ॥८॥रोधितोऽहमनेनेति न माम्यत्रेति यस्य धीः ।अनुभूतानुभवती भवतीत्यनुभूयते ॥९॥येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः ।कथं भवति पश्चार्धं गमनोन्मुखचेतनः ॥१०॥नहि वार्यूर्ध्वमायाति नाधो गच्छति पावकः ।या यथैव प्रवृत्ता चित्सा तथैव प्रतिष्ठिता ॥११॥छायायामुपविष्टस्य कुतस्तापानुभूतयः ।यस्य संवेदनेऽन्योऽर्थः केनचिन्नानुभूयते ॥१२॥यथा संवित्तथा चित्तं सा तथावस्थितिं गता ।परमेण प्रयत्नेन नीयतेऽन्यदशां पुनः ॥१३॥सर्पैकप्रत्ययो रज्ज्वामसर्पप्रत्यये बलात् ।निवर्ततेऽन्यथा त्वेष तिष्ठत्येव यथास्थितः ॥१४॥यथा संवित्तथा चित्तं यथा चित्तं तथेहितम् ।बालं प्रत्यपि संसिद्धमेतत्को नानुभूतवान् ॥१५॥यः पुनः स्वप्नसंकल्पपुरुषः प्रतिमाकृतिः ।आकाशमात्रकाकारः स कथं केन रोध्यते ॥१६॥चित्तमात्रं शरीरं तु सर्वस्यैव हि सर्वतः ।विद्यते वेदनाच्चैतत्क्वचिदेतीव हृद्गतात् ॥१७॥यथाभिमतमेवास्य भवत्यस्तमयोदयम् ।आदिसर्गे स्वभावोत्थं पश्चाद्द्वैतैक्यकारणम् ॥१८॥चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।विद्ध्येतत्त्रयमेकं त्वमविनाभावनावशात् ॥१९॥एतच्चित्तशरीरत्वं विद्धि सर्वगतोदयम् ।यथासंवेदनेच्छत्वाद्यथासंवेदनोदयम् ॥२०॥वसति त्रसरेण्वन्तर्ध्रियते गगनोदरे ।लीयतेऽङ्कुरकोशेषु रसीभवति पल्लवे ॥२१॥उल्लसत्यम्बुवीचित्वे प्रनृत्यति शिलोदरे ।प्रवर्षत्यम्बुदो भूत्वा शिलीभूयावतिष्ठते ॥२२॥यथेच्छमम्बरे याति जठरेऽपि च भूभृताम् ।अनन्तराकाशवपुर्धत्तेऽथ परमाणुताम् ॥२३॥देहस्यान्तर्बहिरपि दधद्वनतनूरुहम् ॥२४॥भवत्याकाशमाधत्ते कोटीः पद्मजसद्मनाम् ।अनन्याः स्वात्मनोऽम्भोधिरावर्तरचना इव ॥२५॥अनुद्विग्नप्रबोधोऽसौ सर्गादौ चित्तदेहकः ।आकाशत्मा महान्भूत्वा वेत्ति प्रकृततां ततः॥२६॥असत्यमेव वारित्वं बुद्ध्योदेतीव तत्तथा ।वन्ध्यापुत्रोऽयमस्तीति यथा स्वप्ने भ्रमो नरः ॥२७॥श्रीराम उवाचकिं चित्तमेतद्भवति किंवा भवति नौ कथम् ।कथमेव न सद्रूपं नान्यद्भवति वीक्षणात् ॥२८॥श्रीवसिष्ठ उवाचप्रत्येकमेव यच्चित्तं तदेवंरूपशक्तिकम् ।पृथक्प्रत्येकमुदितः प्रतिचित्तं जगद्भ्रमः ॥२९॥क्षणकल्पजगत्संघा समुद्यन्ति गलन्ति च ।निमेषात्कस्यचित्कल्पात्कस्यचिच्च क्रमं श्रृणु ॥३०॥मरणादिमयी मूर्च्छा प्रत्येकेनानुभूयते ।यैषा तां विद्धि सुमते महाप्रलययामिनीम् ॥३१॥तदन्ते तनुते सर्गं सर्व एव पृथक्पृथक् ।सहजस्वप्नसंकल्पान्संभ्रमाचलनृत्यवत् ॥३२॥महाप्रलयरात्र्यन्ते चिरादात्ममनोवपुः ।यथेदं तनुते तद्वत्प्रत्येकं मृत्यनन्तरम् ॥३३॥श्रीराम उवाचमृतेरनन्तरं सर्गो यथा स्मृत्यानुभूयते ।चिरात्तथानुभवति नातो विश्वमकारणम् ॥३४॥श्रीवसिष्ठ उवाचमहति प्रलये राम सर्वे हरिहरादयः ।विदेहमुक्ततां यान्ति स्मृतेः क इव संभव ॥३५॥अस्मदादिः प्रबुद्धात्मा किलावश्यं विमुच्यते ।कथं भवन्तु नो मुक्ता विदेहाः पद्मजातयः ॥३६॥अन्ये त्वमिव ये जीवास्तेषां मरणजन्मसु ।स्मृतिः कारणतामेति मोक्षाभाववशादिह ॥३७॥भवत्यद्रिर्धराधारो बद्धपीठो नभः शिराः ।जीवो हि मृतिमूर्च्छान्ते यदन्तः प्रोन्मिषन्निव ।अनुन्मिषित एवास्ते तत्प्रधानमुदाहृतम् ॥३८॥तद्व्योमप्रकृतिः प्रोक्ता तदव्यक्तं जडाजडम् ।संस्मृतेरस्मृतेश्चैव क्रम एष भवोदये ॥३९॥बोधोन्मुखत्वे हि महत्तत्प्रबुद्धं यदा भवेत् ।तदा तन्मात्रदिक्कालक्रिया भूताद्युदेति खात् ॥४०॥तदेवोच्छूनमाबुद्धं भवतीन्द्रियपञ्चकम् ।तदेव बुध्यते देहः स एषोऽस्यातिवाहिकः ॥४१॥चिरकालप्रत्ययतः कल्पनापरिपीवरः ।आधिभौतिकताबोधमाधत्ते चैष बालवत् ॥४२॥ततो दिक्कालकलनास्तदाधारतया स्थिताः ।उद्यन्त्यनुदिता एव वायोः स्पन्दक्रिया इव ॥४३॥वृद्धिमित्थमयं यातो मुधैव भुवनभ्रमः ।स्वप्नाङ्गनासङ्गसमस्त्वनुभूतोऽप्यसन्मयः ॥४४॥यत्रैव म्रियते जन्तुः पश्यत्याशु तदेव सः ।तत्रैव भुवनाभोगमिममित्थमिव स्थितम् ॥४५॥व्योमैवानुभवत्यच्छमहं जगदिति भ्रमम् ।व्योमरूपं व्योमरूपी जीवो जात इवात्मवान् ॥४६॥सुरपत्तनशैलार्कतारानिकरसुन्दरम् ।जरामरणवैक्लव्यव्याधिसंकटकोटरम् ॥४७॥स्वभावाभावसंरम्भस्थूलसूक्ष्मचराचरम् ।साव्ध्यद्व्युर्वीनदीशाहोरात्रिकल्पक्षणक्षयम् ॥४८॥अहं जातोऽमुना पित्रा किलात्रेत्याप्तनिश्चयम् ।इयं माता धनमिदं ममेत्युदितवासनम् ॥४९॥सुकृतं दुष्कृतं चेदं ममेति कृतकल्पनम् ।बालोऽभूवमहं त्वद्य युवेति विलसद्धृदि ॥५प्रत्येकमेवमुदितः संसारवनखण्डकः ।ताराकुसुमितो नीलमेघचञ्चलपल्लवः ॥५१॥चरन्नरमृगानीकः सुरासुरविहंगमः ।आलोककौसुमरजाः श्यामागहनकुञ्जकः ॥५२॥अब्धिपुष्करिणीपूर्णो मेर्वाद्यचललोष्टकः ।चित्तपुष्करबीजान्तर्निलीनानुभवाङ्कुरः ॥५३॥यत्रैष म्रियते जीवस्तत्रैवं पश्यति क्षणात् ।प्रत्येकमुदितेष्वेवं जगत्खण्डेषु भूरिशः ॥५४॥कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् ।गिर्यब्धिमण्डलद्वीपलोकान्तरदृशां गताः ॥५५॥याता यास्यन्ति यान्त्येता दृष्टयो नष्टरूपिणीः ।या ब्रह्मण्युपबृंहाढ्यास्ताः के गणयितुं क्षमाः ॥५६॥एवं कुड्यमयं विश्वं नास्त्येव मननादृते ।मनने चलमेवान्तस्तदिदानीं विचारय ॥५७॥यदेव तच्चिदाकाशं तदेव मननं स्मृतम् ।यदेव च चिदाकाशं तदेव परमं पदम् ॥५८॥यदेवाम्बु स आवर्तो नत्वस्यावर्त वस्तु सन् ।द्रष्टैवास्ते दृश्यमिव दृश्यं नत्वस्ति वस्तु सत् ॥५९॥चिद्व्योम्नो भूतनभसि कचनं यन्मणेरिव ।तज्जगद्भाविनानासत्तत्त्वं श्वभ्रमिवाम्बरे ॥६०॥मद्बुद्धार्थो जगच्छब्दो विद्यते परमामृतम् ।त्वद्बुद्धारर्थस्तु नास्त्येव त्वमहंशब्दकादपि ॥६१॥तस्माल्लीलासरस्वत्यावाकाशवपुषौ स्थिते ।सर्वगे परमात्माच्छे सर्वत्राप्रतिघेऽनघे ॥६२॥यत्र यत्र सदा व्योम्नि यथाकामं यथेप्सितम् ।उदयं कुरुतस्तेन तद्गेहेऽस्ति गतिस्तयोः ॥६३॥सर्वत्र संभवति चिद्गगनं तदत्रसद्वेदनं कलनमामननं विसारि ।तच्चातिवाहिकमिहाहुरकुड्यमेवदेहं कथं क इव तं वद किं रुणद्धि ॥६४॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्यानेसमरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः ॥४०॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP