संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः १५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जगदाकाशमेवेदं यथा हि व्योम्नि मौक्तिकम् ।विमले भाति स्वात्मैव जगच्चिद्गगनं यथा ॥१॥अनुत्कीर्णैb भातीव त्रिजगच्छालभञ्जिका ।चित्स्तम्भेनैव सोत्कीर्णा नचोत्कर्तात्र विद्यते ॥२॥समुद्रेऽन्तर्जलस्पन्दाः स्वभावादच्युता अपि ।वीचिवेगा भवन्तीव परे दृश्यविदस्तथा ॥३॥जालान्तर्गतसूर्याभा जालाकाररजांस्यपि ।जगद्भानं प्रति स्थूलान्यणुं प्रति यथाचलाः ॥४॥जगद्भानं न भातीदं ब्रह्मणो व्यतिरेकतः ।जालसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ॥५॥अनुभूतान्यपीमानि जगन्ति व्योमरूपिणि ।पृथ्व्यादीनि न सन्त्येव स्वप्नसंकल्पयोरिव ॥६॥पिण्डग्रहो जगत्यस्मिन्विज्ञानाकाशरूपिणि ।मरुनद्यां जलमिव न संभवति कुत्रचित् ॥७॥जगत्यपिण्डग्राहेऽस्मिन्संकल्पनगरोपमे ।मरौ सरिदिवाभाति दृश्यता भ्रान्तिरूपिणी ॥८॥स्वप्नाद्दृश्येव जगतां तुलादेशेन केन च।तुलिता कलनोन्मुक्ता दृश्यश्रीर्व्योम जृम्भते ॥९॥वर्जयित्वा ज्ञविज्ञानं जगच्छब्दार्थभाजनम् ।जगद्ब्रह्मस्वशब्दानामर्थे नास्त्येव भिन्नता ॥१०॥इदं त्वचेत्यचिन्मात्रं भानोर्भातं नभः प्रति ।तथा सूक्ष्मं यथा मेघं प्रति संकल्पवारिदः ॥११॥यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति ।तथा जगदिदं स्वच्छं सांकल्पिकजगत्प्रति ॥१२॥तस्मादचेत्यचिदूपं जगद्व्योमेव केवलम् ।शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ॥१३॥तस्मान्न किंचिदुत्पन्नं जगदादीह दृश्यकम् ।अनाख्यमनभिव्यक्तं यथास्थितमवस्थितम् ॥१४॥जगदेव महाकाशे चिदाकाशमभित्तिमत् ।तद्देशस्याणुमात्रस्य तुलायाश्चाप्रपूरकम् ॥१५॥आकाशरूपमेवाच्छं पिण्डग्रहविवर्जितम् ।व्योम्नि व्योममयं चित्रं संकल्पपुरवत्स्थितम् ॥१६॥अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् ।निःसंदेहो यथैषोऽर्थश्चित्ते विश्रान्तिमेष्यति ॥१७॥श्रीराम उवाच ।सद्बोधवृद्धये ब्रह्मन्समासेन वदाशु मे ।मण्डपाख्यानमखिलं येन बोधो विवर्धते ॥१८॥श्रीवसिष्ठ उवाच ।अभूदस्मिन्महीपीठे कुलपद्मो विकाशवान् ।पद्मो नाम नृपः श्रीमान्बहुपुत्रो विवेकवान् ॥१९॥मर्यादापालनाम्भोधिर्द्विषत्तिमिरभास्करः ।कान्ताकुमुदिनीचन्द्रो दोषतृणहुताशनः ॥२०॥मेरुर्विबुधवृन्दानां यशश्चन्द्रो भवार्णवे ।सरः सद्गुणहंसानां कमलामलभास्करः ॥२१॥संग्रामवीरुत्पवनो मनोमातङ्गकेसरी ।समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ॥२२॥सुरारिसागरक्षोभविलसन्मन्दराचलः ।विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ॥२३॥लीलालतालास्यमरुत्साहसोत्साहकेशवः ।सौजन्यकैरवशशी दुर्लीलावल्लिकानलः ॥२७॥तस्यास्ति सुभगा भार्या लीला नाम विलासिनी ।सर्वसौभाग्यवलिता कमलेवोदिताऽवनौ ॥२५॥सर्वानुवृत्तिललिता लीला मधुरभाषिणी ।सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ॥२६॥अलकालिमनोहारिवदनाम्भोजशालिनी ।सिताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ॥२७॥लताविलासकुन्दौघभासिनी रसशालिनी ।प्रवालहस्ता पुष्पाभा मधुश्रीरिव देहिनी ॥२८॥अवदाततनुः पुण्या स्पर्शनाह्लादकारिणीगङ्गेव गां गता देहवती हंसविलासिनी ॥२९॥तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः ।परिचर्यां चिरं कर्तुमन्या रतिरिवोदिता ॥३०॥उद्विग्ने प्रोद्विग्ना मुदिते मुदिता समाकुलाकुलिते ।प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥३१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मण्डपोपाख्याने राजवर्णनं नाम पञ्चदशः सर्गः ॥१५॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP