संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ९१

उत्पत्तिप्रकरणं - सर्गः ९१

योगवासिष्ठः

भानुरुवाच ।
तेनैतद्वच्मि भवगन्यथाकालं मनो मुने ।
अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः ॥१॥
ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम् ।
युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः ॥२॥
किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च ।
तवापि नाथ नाथस्य यद्दैन्याय महात्मनः ॥३॥
मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः ।
यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः ॥४॥
हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव ।
तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसंभ्रमैः ॥५॥
त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः ।
चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः ॥६॥
अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः ।
एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते ॥७॥
स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः ।
ब्रह्मोवाच ।
अथैन्दवजगज्जाले भानुनैवमुदाहृते ॥८॥
मया संचिन्त्य सुचिरमिदमुक्तं महामुने ।
युक्तमुक्तं त्वया भानो विततं हि किलाम्बरम् ॥९॥
मनश्च विततं वापि चिदाकाशश्च विस्तृतः ।
तद्यथाभिमतं सर्गं नित्यकर्म करोम्यहम् ॥१०॥
कल्पयामि बहून्याशु भूतजालानि भास्कर ।
तत्त्वमेवाशु भगवन्प्रथमो मे मनुर्भव ॥११॥
कुरु सर्गं यथाकामं मया समभिचोदितः ।
अथैतत्स महातेजा मम वाक्यं प्रभाकरः ॥१२॥
अङ्गीकृत्य द्विधात्मानं चकार तपतांवर ।
एकेन प्राक्तनेनास्मिन्वपुषा सूर्यतां गतः ॥१३॥
व्योमाध्वगतया सर्गे ततान दिवसावलिम् ।
मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् ॥१४॥
ससर्ज सकलां सृष्टिं तां तामभिमतां मम ॥१५॥
एतत्ते कथितं सर्वं वसिष्ठमनसो मुने ।
स्वरूपं सर्वकृत्त्वं च शक्तत्वं च महात्मनः ॥१६॥
प्रतिभासमुपायाति यद्यदस्य हि चेतसः ।
तत्तत्प्रकटतामेति स्थैर्यं सफलतामपि ॥१७॥
सामान्यब्राह्मणा भूत्वा प्रतिभासवशात्किल ।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ॥१८॥
यथा चैन्दवजीवास्ते चित्रत्वाद्ब्रह्मतां गताः ।
वयं तथैव चिद्भावाच्चित्तत्वाद्ब्रह्मतां गताः ॥१९॥
चित्तं हि प्रतिभासात्म यच्च तत्प्रतिभासनम् ।
तदिदं भाति देहादि स्वान्तं नान्यास्ति देहदृक् ॥२०॥
चित्तमात्मचमत्कारं तच्च तत्कुरुते स्वतः ।
यथावत्संभवं स्वात्मन्येवान्तर्मरिचादिवत् ॥२१॥
तदेतच्चित्तवद्भातमातिवाहिकनामकम् ।
तदेवोदाहरन्त्येवं देहनाम्ना घनभ्रमम् ॥२२॥
कथ्यते जीवनाम्नैतच्चित्तं प्रतनुवासनम् ।
शान्तदेहचमत्कारं जीवं विद्धि क्रमात्परम् ॥२३॥
नाहं न चान्यदस्तीह चित्रं चित्तमिदं स्थितम् ।
वसिष्ठैन्दवसंविद्वदसत्सत्तामिवागतम् ॥२४॥
यथैन्दव मनो ब्रह्मा तथैवायमहं स्थितः ।
तत्कृतं चाहमेवेदं संकल्पात्मैव भासते ॥२५॥
कश्चिच्चित्तविलासोऽयं ब्रह्माहमिह संस्थितः ।
स्वभाव एव देहादि विद्धि शून्यतरात्मखात् ॥२६॥
शुद्धचित्परमार्थैकरूपिणीत्येव भावनात् ।
जीवो भूयो मनो भूत्वा वेत्तीत्थं देहतां मुधा ॥२७॥
सर्वमैन्दवसंसारवदिदं भाति चिद्वपुः ।
संपन्नसंप्रबोधात्मा स्वप्नो दीर्घः स्वशक्तिजः ॥२८॥
द्विचन्द्रविभ्रमाकारं तन्मात्राभासपूर्वकम् ।
ऐन्दवाम्बरवद्रूढं चित्तादेवाखिलं भवेत् ॥२९॥
न सन्नासदहंरूपं सत्तासत्ते तदेव च ।
उपलम्भेन सद्रूपमसत्यं तद्विरोधतः ॥३०॥
जडाजडं मनो विद्धि संकल्पात्म बृहद्वपुः ।
अजडं ब्रह्मरूपत्वाज्जडं दृश्यात्मतावशात् ॥३१॥
दृश्यानुभवसत्यात्म न सद्भावे विलासि तत् ।
कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम् ॥३२॥
सर्वत्वाद्ब्रह्मणः सर्वं जडं चिन्मयभेव च ।
अस्मदादिशिलान्तात्म न जडं न च चेतनम् ॥३३॥
दार्वादीनामचित्त्वेन नोपलम्भस्य संभवः ।
उपलम्भो हि सदृशसंबन्धादेव जायते। ॥३४॥
उपलब्धेऽजडं विद्धि तेनेदं सर्वमेव हि ।
उपलम्भो हि सदृशसंबन्धात्स्यात्समात्मनोः ॥३५॥
जडचेतनभावादिशब्दार्थश्रीर्न विद्यते ।
अनिर्देश्यपदे पत्रलतादीव महामरौ ॥३६॥
चितो यच्चेत्यकलनं तन्मनस्त्वमुदाहृतम् ।
चिद्भागोऽत्राजडो भागो जाड्यमत्र हि चेत्यता ॥३७॥
चिद्भागोऽत्रावबोधांशो जडं चेत्यं हि दृश्यते ।
इति जीवो जगद्भान्तिं पश्यन्गच्छति लोलताम् ॥३८॥
चित्तस्य एव भावोऽसौ शुद्ध एव द्विधा कृतः ।
अतः सर्वं जगत्सैव द्वैतलब्धं च सैव तत् ॥३९॥
स्वमेवान्यतया दृष्ट्वा चितिर्दृश्यतया वपुः ।
निर्भागाप्येकभागाभं भ्रमतीव भ्रमातुरा ॥४०॥
न भ्रान्तिरस्ति भ्रमभाङ्गा नैवेतीह निश्चयः ।
परिपूर्णार्णवप्रख्यावेतीत्थं संस्थिता चितिः ॥४१॥
सर्वं स्याज्जाड्यमप्यस्याश्चितिश्चित्त्वं च वेत्सि तत् ।
चिद्भागोंशोऽवबोधस्य त्वहंताजडतोदयः ॥४२॥
अहंतादिपरे तत्त्वे मनागपि न विद्यते ।
ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः ॥४३॥
अहंप्रत्ययसंदृश्यं चेत्यं विद्धि समुत्थितम् ।
मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो ॥४४॥
अहंतापदमन्तात्मपदं विद्धि निरामयम् ।
विदं विदुरहंतादि शैत्यमेव यथा हिमम् ॥४५॥
चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् ।
सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम् ॥४६॥
मनः पदार्थादितया सर्वरूपं विजृम्भते ।
नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः ॥४७॥
देहादिदेहप्रतिभारूपात्म्यं त्यजता सता ।
विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम् ॥४८॥
चित्तताम्रे शोधिते हि परमार्थसुवर्णताम् ।
गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः ॥४९॥
यद्विद्यते शोध्यते तद्बोधः के च खपादपाः ।
देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः ॥५०॥
असत्यविनिविष्टानां देहवाचितया त्विह ।
ये नामोपदिशन्त्यज्ञाः किंचित्ते पुरुषैडकाः ॥५१॥
यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात् ।
दृष्टान्तोऽत्रैन्दवाहल्याकृत्रिमेन्द्रादिनिश्चयाः ॥५२॥
यद्यद्यथा स्फुरति सुप्रतिभात्मचित्तं
तत्तत्तथा भवति देहतयोदितात्म ।
देहोऽयमस्ति न न चाहमिति स्वरूपं
विज्ञानमेकमवगम्य निरिच्छमास्स्व ॥५३॥
देहोऽयमेष च किलायमिति स्वभावा-
द्देहोऽयमेतदखिलं तत एति नाशम् ।
यक्षादिकल्पनवशाद्भयमेति बालो
निर्यक्षदेहगत एव कयापि युक्त्या ॥५४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जीवावतरणक्रमोपदेशो नामैकनवतितमः सर्गः ॥९१॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP