संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५ Translation - भाषांतर श्रीराम उवाच ।भगवन्मुनिशार्दूल किमिवेह मनोभ्रमे ।विद्यते कथमुत्पन्नं मनो मायामयं कुतः ॥१॥उत्पत्तिमादाविति मे समासेन वद प्रभो ।प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर ॥२॥श्रीवसिष्ठ उवाच ।महाप्रलयसंपत्तावसतां समुपागते ।अशेषदृश्यसर्गादौ शान्तमेवावशिष्यते ॥३॥आस्तेऽनस्तमितो भास्वानजो देवो निरामयः ।सर्वदा सर्वकृत्सर्वः परमात्मा महेश्वरः ॥४॥यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते ।यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावजाः ॥५॥यः पुमान्सांख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम् ॥६॥यः शून्यवादिनां शून्यो भासको योऽर्कतेजसाम् ।वक्ता मन्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव सः ॥७॥सन्नप्यसद्यो जगति यो देहस्थोऽपि दूरगः ।चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः ॥८॥यस्माद्विष्ण्वादयो देवाः सूर्यादिव मरीचयः ।यस्माज्जगन्त्यनन्तानि बुद्बुदा जलधेरिव ॥९॥यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् ।य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥१०॥य आकाशे शरीरे च दृषत्स्वप्सु लतासु च ।पांसुष्वद्रिषु वातेषु पातालेषु च संस्थितः ॥११॥यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः ।येन मूकीकृता मूढाः शिला ध्यानमिवास्थिताः ॥१२॥व्योम येन कृतं शून्यं शैला येन घनीकृताः ।आपो द्रुताः कृता येन दीपो यस्य वशो रविः ॥१३॥प्रसरन्ति यतश्चित्राः संसारासारवृष्टयः ।अक्षयामृतसंपूर्णादम्भोदादिव वृष्टयः ॥१४॥आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः ।स्फुरन्त्यतितते यस्मिन्मराविव मरीचयः ॥१५॥नाशरूपो विनाशात्मा योऽन्तःस्थः सर्वजन्तुषु ।गुप्तो योऽप्यतिरिक्तोऽपि सर्वभावेषु संस्थितः ॥१६॥प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला ।चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥१७॥यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गके ।यस्मिन्निन्दौ स्फुरन्त्येता जगज्जालमरीचयः ॥१८॥प्रशान्ते चिद्धने यस्मिस्फुरन्त्यमृतवर्षिणि ।धाराजलानि भूतानि सृष्टयस्तडितः स्फुटाः ॥१९॥चमत्कुर्वन्ति वस्तूनि यदालोकतया मिथः ।असज्जातमसद्येन येन सत्सत्त्वमागतम् ॥२०॥चलतीदमनिच्छस्य कायो यो यस्य संनिधौ ।जडं परमरक्तस्य शान्तमात्मनि तिष्ठतः ॥२१॥नियतिर्देशकालौ च चलनं स्पन्दनं क्रिया ।इति येन गताः सत्तां सर्वसत्तातिगामिना ॥२२॥शुद्धसंविन्मयत्वाद्यः खं भवेद्व्योमचिन्तया ।पदार्थचिन्तयार्थत्वमिव तिष्ठत्यधिष्ठितः ॥२३॥कुर्वन्नपीह जगतां महतामनन्त-वृन्दं न किंचन करोति न काश्चनापि ।स्वात्मन्यनस्तमयसंविदि निर्विकारेत्यक्तोदयस्थितिमति स्थित एक एव ॥२४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मूलकारणदेवस्वरूपवर्णनं नाम पञ्चमः सर्गः ॥५॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP