उत्पत्तिप्रकरणम् - सर्गः २७
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे ।
अन्तर्धिमाश्वाययतुस्तत्रस्थे एव ते स्त्रियौ ॥१॥
अस्माकं वनदेवीभ्यां प्रसादः कृत इत्यथ ।
शान्तदुःखे गृहजने स्वव्यापारपरे स्थिते ॥२॥
मण्डपाकाशसंलीनां लीलामाह सरस्वती ।
व्योमरूपा व्योमरूपां स्मयात्तूष्णीमिव स्थिताम् ॥३॥
संकल्पस्वप्नयोर्येषां यत्र संकथनं मिथः ।
यथेहार्थक्रियां धत्ते तयोः सा संकथा तथा ॥४॥
पृथ्व्यादिनाडीप्राणादिऋतेऽप्यभ्युदिता तयोः ।
सा संकथनसंवित्तिः स्वप्नसंकल्पयोरिव ॥५॥
श्रीसरस्वत्युवाच ।
ज्ञेयं ज्ञातमशेषेण दृष्टादृष्टार्थसंविदः ।
ईदृशीयं ब्रह्मसत्ता किमन्यद्वद पृच्छसि ॥६॥
लीलोवाच ।
मृतस्य भर्तुर्जोवोऽसौ यत्र राज्यं करोति मे ।
तत्राहं किं न तद्दृष्टा दृष्टास्मीह सुतेन किम् ॥७॥
श्रीसरस्वत्युवाच ।
अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः ।
नूनमस्तंगतो नाभून्निःशेषं वरवर्णिनि ॥८॥
अद्वैतं यो न यातोऽसौ कथमद्वैतकर्मभिः ।
युज्यते तापसंस्थस्य च्छायाङ्गानुभवः कुतः ॥९॥
लीलास्मीति विनाभ्यासं तव नास्तगतोऽभवत् ।
यदा भावस्तदा सत्यसंकल्पत्वमभून्न ते ॥१०॥
अद्यासि सत्यसंकल्पा संपन्ना तेन मां सुतः ।
सपश्यत्वित्यभिमतं फलितं तव सुन्दरि ॥११॥
इदानीं तस्य भर्तुस्त्वं समीपं यदि गच्छसि ।
तत्तेन व्यवहारस्ते पूर्ववत्संप्रवर्तते ॥१२॥
लीलोवाच ।
इहैव मन्दिराकाशे पतिर्विप्रो ममाभवत् ।
इहैव स मृतो भूत्वा संपन्नो वसुधाधिपः ॥१३॥
इहैव तस्य संसारे तस्मिन्भूमण्डलान्तरे ।
राजधानीपुरे तस्मिन्पुरन्ध्र्यस्मि व्यवस्थिता ॥१४॥
इहैवान्तःपुरे तस्मिन्स मृतो मम भूपतिः ।
इहैवान्तःपुराकाशे तस्मिन्नेव पुरे नृपः ॥१५॥
संपन्नो वसुधापीठे नानाजनपदेश्वरः ।
सर्वार्जवजवीभाव इहैवैवं व्यवस्थितः ॥१६॥
अस्मिन्नेव गृहाकाशे सर्वा ब्रह्माण्डभूमयः ।
स्थिताः समुद्गके मन्ये यथान्तः सर्षपोत्कराः ॥१७॥
सदाऽदूरमहं मन्ये तद्भर्तुर्मम मण्डलम् ।
क्वचित्पार्श्वे स्थितमिह यथा पश्यामि तत्कुरु ॥१८॥
श्रीदेव्युवाच ।
भूतलारुन्धतिसुते भर्तारस्तव संप्रति ।
त्रयो नामाथवाभूवन्बहवः शतसंमताः ॥१९॥
नेदीयसां त्रयाणां तु द्विजस्ते भस्मतां गतः ।
राजा माल्यान्तरगतः संस्थितोऽन्तःपुरे शवः ॥२०॥
संसारमण्डले ह्यस्मिंस्तृतीयो वसुधाधिपः ।
महासंसारजलधिं पतितो भ्रममागतः ॥२१॥
भोगकल्लोलकलनाविकलो मलचेतनः ।
जाड्यजर्जरचिद्वृत्तिः संसाराम्भोधिकच्छपः ॥२२॥
चित्राणि राजकार्याणि कुर्वन्नप्याकुलान्यपि ।
सुप्तः स्थितो जडतया न जागर्ति भवभ्रमे ॥२३॥
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।
इत्यनर्थमहारज्वा वलितो वशतां गतः ॥२४॥
तत्कस्य वद भर्तुस्त्वां समीपं वरवर्णिनि ।
वात्या वनान्तरं गन्धलेखामिव वनान्नये ॥२५॥
अन्य एव हि संसारः सोऽन्यो ब्रह्माण्डमण्डपः ।
अन्या एव तता वत्से व्यवहारपरम्पराः ॥२६॥
संसारमण्डलानीह तानि पार्श्वे स्थितान्यपि ।
दूरं योजनकोटीनां कोटयस्तेष्विहान्तरम् ॥२७॥
आकाशमात्रमेतेषामिदं पश्य वपुः पुनः ।
मेरुमन्दरकोटीनां कोटयस्तेष्ववस्थिताः ॥२८॥
परमाणौ परमाणौ सर्ववर्गानिरर्गलम् ।
महाचितेः स्फुरन्त्यर्करुचीव त्रसरेणवः ॥२९॥
महारम्भगुरूण्येवमपि ब्रह्माण्डकानि हि ।
तुलया धानकामात्रमपि तानि भवन्ति नो ॥३०॥
नानारत्नामलोद्द्योतो वनवद्भाति खे यथा ।
पृथ्व्यादिभूतरहिता जगच्चिद्भाति चिन्तया ॥३१॥,
कचति ज्ञप्तिरेवेदं जगदित्यादि नात्मनि ।
नतु पृथ्व्यादि संपन्नं सर्गादावेव किंचन ॥३२॥
यथा तरङ्गः सरसि भूत्वा भूत्वा पुनर्भवेत् ।
विचित्राकारकालाङ्गदेशाज्ञप्तावलं तथा ॥३३॥
लीलोवाच ।
एवमेतज्जगन्मातर्मया स्मृतमिहाधुना ।
ममेदं राजसं जन्म न तमो न च सात्त्विकम् ॥३४॥
ब्रह्मणस्त्ववतीर्णाया अष्टौ जन्मशतानि मे ।
नानायोनीन्यतीतानि पश्यामीवाधुना पुनः ॥३५॥
संसारमण्डले देवि कस्मिंश्चिदभवं पुरा ।
लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना ॥३६॥
दुर्वासनाकलुषिता ततोऽहं मानुषी स्थिता ।
संसारमण्डलेऽन्यस्मिन्पन्नगेश्वरकामिनी ॥३७॥
कदम्बकुन्दजम्बीरकरञ्जवनवासिनी ।
पत्राम्बरधरा श्यामा शबर्यहमथाभवम् ॥३८॥
वनवासनया मुग्धा संपन्नाहमथोद्धता ।
गुलुच्छनयना पत्रहस्ता वनविलासिनी ॥३९॥
पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता ।
वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः ॥४०॥
अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः ।
राजाहमभवं श्रीमान्सुराष्ट्रेषु समाः शतम् ॥४१॥
तालीनां तलकच्छेषु राजदुष्कृतदोषतः ।
नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम् ॥४२॥
वर्षाण्यष्टौ सुराष्ट्रेषु देवि गोत्वं कृतं मया ।
मोहाद्दुर्जनदुष्टाज्ञबालगोपाललीलया ॥४३॥
विहंग्या वैरविन्यस्ता वागुरा विपिनावनौ ।
क्लेशेन महता च्छिन्ना अधमा वासना इव ॥४४॥
कर्णिकाक्रोडशय्यासु विश्रान्तमलिना सह ।
पद्मकुड्मलकोशेषु भुक्तकिंजल्कया रहः ॥४५॥
भ्रान्तमुत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया ।
वनस्थलीषु रम्यासु किराताहतमर्मया ॥४६॥
दृष्टं नष्टासु दिक्ष्वब्धिकल्लोलैरुह्यमानया ।
मत्स्याम्बुकच्छपाच्छोडे मोघमाननताडनम् ॥४७॥
पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वरम् ।
पुलिन्द्या सुरतान्तेषु नालिकेररसासवम् ॥४८॥
सारसीसरसालिन्या सीत्कारमधुरस्वरम् ।
सारसः सुरतैः स्वैरं सामन्तश्चारुरञ्जितः ॥४९॥
तालीतमालकुञ्जेषु तरलानननेत्रया ।
क्षीबप्रेक्षणविक्षोभैः कृतं कान्तावलोकनम् ॥५०॥
कनकस्यन्दसंदोहसुन्दरैरङ्गपञ्जरैः ।
स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः ॥५१॥
मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले ।
कल्पद्रुमवने मेरौ यूना सह रतं कृतम् ॥५२॥
कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च ।
वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम् ॥५३॥
तरत्तारतरङ्गासु दोलनं सरसालिनाम् ।
चलच्छदपटालीषु राजहंस्यं मया कृतम् ॥५४॥
शाल्मलीदललोलानामान्दोलनदरिद्रताम् ।
मशकस्य मयालोक्य दीनं मशकया स्मितम् ॥५५॥
तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः ।
भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया ॥५६॥
गन्धमादनमन्दारमन्दिरे मदनातुरा ।
पातिताः पादयोः पूर्वं विद्याधरकुमारकाः ॥५७॥
कर्णिकर्पूरपूरेषु तल्पेषु व्यसनातुरा ।
चिरं विलुलितास्मीन्दुबिम्बेष्विव शशिप्रभा ॥५८॥
योनिष्वनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलात्मा ।
संसारदीर्घसरितश्चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण ॥५९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जन्मान्तरवर्णनं नाम सप्तविंशः सर्गः ॥२७॥
N/A
References : N/A
Last Updated : September 10, 2021
TOP