संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०२ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।स्वसंकल्पवशान्मूढो मोहमेति न पण्डितः ।अक्षये क्षयसंकल्पान्मुह्यते शिशुरेव हि ॥१॥श्रीराम उवाच ।कोऽसौ संकल्पितः केन क्षयो ब्रह्मविदां वर ।असतैव महामोहं येनादात्तत्सदैव हि ॥२॥श्रीवसिष्ठ उवाच ।असता भूतसंघेन क्षयोऽहंकारनामधृक् ।वेतालः शिशुनेवेह मिथ्यैव परिकल्पितः ॥३॥एकस्मिन्नेव सर्वस्मिन्स्थिते परमवस्तुनि ।कुतः कोऽयमहं नाम कथं नाम किलोदितः ॥४॥वस्तुतो नास्त्यहंकारः परमात्मन्यभेदिनि ।असम्यग्दर्शनान्मार्गीसरित्तीव्रातपे यथा ॥५॥मनोमणिमहारम्भः संसार इति लक्ष्यते ।आत्मनात्मानमाश्रित्य स्फुरत्यन्तर्यथाम्भसा ॥६॥असम्यग्दर्शनं तेन त्यज राम निराश्रयम् ।साश्रयं सत्यमानन्दि सम्यग्दर्शनमाश्रय ॥७॥धिया विचारधर्मिण्या मोहसंरम्भहीनया ।विचारयाधुना सत्यमसत्यं संपरित्यज ॥८॥अबद्धो बद्ध इत्युक्त्वा किं शोचसि मुधैव हि ।अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते ॥९॥नानाऽनानात्वकलना त्वविभिन्नमहात्मनि ।सर्वस्मिन्ब्रह्मतत्त्वेऽस्मिन्किं बद्धं किं विमुच्यते ॥१०॥अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किंच ताम्यति ।भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते ॥११॥देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता ।भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति ॥१२॥देहः पततु वोदेतु का नः क्षतिरुपस्थिता ।को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ॥१३॥आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः ।आकाशोडुयनालीनां का नः क्षतिरुपस्थिता ॥१४॥देहः पततु वोदेतु यातु वा गगनान्तरम् ।तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः ॥१५॥यथा पयोदमरुतोर्यथा षट्पदपद्मयोः ।तथा राघव संबन्धस्त्वच्छरीरत्वदात्मनोः ॥१६॥मनो राम शरीरं हि जगतः सकलस्य च ।आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन ॥१७॥योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति ।न नश्यति कदाचिच्च किं मुधा परितप्यसे ॥१८॥विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा ।यात्यनन्तपदं व्योम तथात्मा देहसंक्षये ॥१९॥संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति ।ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा ॥२०॥यः कुण्डवदरन्यायो यो घटाकाशयोः क्रमः ।स्थितिर्देहात्मनोः सैव सविनाशाविनाशयोः ॥२१॥बदरं हस्तमायाति यथा स्फुटति कुण्डके ।आत्मा गगनमायाति तथा चलति देहके ॥२२॥कुम्भे गच्छत्यकुम्भत्वं कुम्भाकाशो यथाम्बरे ।तिष्ठत्येवमयं क्षीणे देहे देही निरामयः ॥२३॥मनोदेहो हि जन्तूनां देशकालतिरोहितः ।मुहुर्मृतिपटाच्छन्नः शठे किं परिदेवना ॥२४॥देशकालतिरोधाने मूढोऽपि मरणे नरः ।किं बिभेति महाबाहो नेह पश्यति कश्चन ॥२५॥अतस्त्वं वासनां राम मिथ्यैवाहमिति स्थिताम् ।त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् ॥२६॥एषा हि मानसी शक्तिरिष्टानिष्टनिबन्धनी ।अनयैव मुधा भ्रान्त्या स्वप्नवत्परिकल्पना ॥२७॥ अविद्यैषा दुरन्तैषा दुःखायैषा विवर्धते । अपरिज्ञायमानैषा तनोतीदमसन्मयम् ॥२८॥ एषा तुच्छवदाकाशं तुषारमलिनं यथा ।परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः ॥२९॥ असदेवेदमारम्भमन्थरं सदिवोत्थितम् । कल्पितं जगदाभोगि दीर्घस्वप्न इवैतया ॥३०॥ भावनामात्र एवास्याः स्वरूपं कर्तृतां गतम् ।जगन्नामाविलं चक्षुर्व्योम्नि बिम्बरुचामिव ॥३१॥लयमस्याः स्वरूपं त्वं नय राम विचारणात् ।यथा हिमशिलायास्तु तपनाद्दिवसाधिपः ॥३२॥हिमाभावार्थिनोऽर्कस्य स्वोदयेनेप्सितं यथा ।सिद्ध्यत्येवं विचारेण मनोनाशार्थिनोऽर्थितम् ॥३३॥अविद्याऽसंप्रबुद्धा हि विततानर्थदुर्गमा ।नानेन्द्रजालकलनां शम्बरो हेम वर्षति ॥३४॥स्वविनाशक्रियां चैतां मन एव करोत्यलम् ।मनो ह्यात्मवधं नाम नाटकं परिनृत्यति ॥३५॥आत्मानमीक्षते चेतः स्वविनाशाय केवलम् ।नहि जानाति दुर्बुद्धिर्विनाशं प्रत्युपस्थितम् ॥३६॥स्वयं संकल्पमात्रेण स्वविनाशदृशामिदम् ।मनः संसाधयत्याशु क्लेशो नात्रोपयुज्यते ॥३७॥ ।स्वसंकल्पविकल्पांशं विवेकोपहितं मनः ।संत्यज्य रूपमाभोगि करोत्यात्मावबोधनम् ॥३८॥महोदयो मनोनाशो महोच्छेदस्य तूदयः ।मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे ॥३९॥अविरलसुखदुःखवृक्षखण्डेविषमकृतान्तमहोरगे वनेऽस्मिन् ।प्रभुरिदमखिले विवेकहीनंसुभग मनो महदापदेकहेतुः ॥४०॥इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥४१॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे दे० मो० उपदेशकरणं नाम द्वि उत्तरशततमः सर्गः ॥१०२॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP