मार्कण्डेयपुराणम् - अथैकत्रिंशदधिकशततमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
दमचरितवर्णनम्
मार्कण्डेय उवाच
स तां लब्ध्वा तथा पत्नीं सुमनां सुमहामुने ।
प्रणम्य स पितुः पादौ मातुश्च क्षितिपात्मजः ॥१॥
सा च तौ श्वशुरौ सूभ्रूर्ननाम सुमना तदा ।
ताभ्यां तौ च तदा विप्र आशीर्भिरभिनन्दितौ ॥२॥
महोत्सवश्च सञ्जज्ञे नरिष्यन्तस्य वै पुरे ।
कृतदारे च सम्प्राप्ते दशार्णाधिपतेः पुरात् ॥३॥
सम्बन्धिनं दशार्णेशं जितांश्च पृथिवीश्वरान् ।
श्रुत्या पुत्रेण मुमुदे नरिष्यन्तो महीपतिः ॥४॥
सोऽपि रेमे सुमनया महाराजसुतो दमः ।
वरोद्यानवनोद्देशे प्रसादगिरिसानुषु ॥५॥
अथ कालेन महता रममाणा दमेन सा ।
अवाप गर्भे सुमना दशार्णाधिपतेः सुता ॥६॥
सोऽपि राजा नरिष्यन्तो भुक्तभोगो महीपतिः ।
वयः परिणतिं प्राप्य दमं राज्येऽभिषिच्य च ॥७॥
वनं जगामेन्द्रसेना पत्नी चास्य तपस्विनी ।
वानप्रस्थविधानेन स तत्र समतिष्ठत ॥८॥
दाक्षिणात्यः सुदुर्वृत्तः संक्रन्दनसुतो वने ।
वपुष्मान्स मृगान्हन्तुं ययावल्पपदानुगः ॥९॥
स तं दृष्ट्वा नरिष्यन्तं तापसं मलपङ्किनम् ।
इन्द्रसेनां च तत्पत्नीं तपसातिसुदुर्बलाम् ॥१०॥
पप्रच्छ कस्त्वं भो विप्रः क्षत्रियो वा वनेचरः ।
वानप्रस्थमनुप्राप्तो वैश्यो वा मम कथ्यताम् ॥११॥
ततो मौनव्रती भूपो नहि तस्योत्तरं ददौ ।
इन्द्रसेना च तत्सर्वमाचष्टास्मै यथातथम् ॥१२॥
मार्कण्डेय उवाच
ज्ञात्वा तं च नरिष्यन्तं वपुष्मान्पितरं रिपोः ।
प्राप्तोऽसीति वदन्कोपाज्जटासु परिगृह्य च ॥१३॥
हाहेति चन्द्रसेनायां रुदन्त्यां बाष्पगद्गदम् ।
चकर्ष कोपात्सङ्गं च वाक्यं चेदमुवाच ह ॥१४॥
निर्जितः समरे येन येन मे सुमना हृता ।
दमस्य तस्य पितरं हनिष्येऽवतु तं दमः ॥१५॥
येनाखिलमहीपालपुत्राः कन्यार्थमागताः ।
अवधूता हनिष्येऽहं पितरं तस्य दुर्मतेः ॥१६
यौवनास्त्रस्वरूपेषु मदे यस्य दुरात्मनः ।
स दमो वारयत्वेष हन्मि तस्या रिपोर्गुरुम् ॥१७
मार्कण्डेय उवाच
इत्युक्त्वा स दुराचारो वपुष्मानवनीपतिः ।
क्रंदन्त्यामिन्द्रसेनायां शिरश्चिच्छेद तस्य च ॥१८॥
ततो धिग्धिङ्मुनिजना अन्ये च वनवासिनः ।
तमूचुः स च तं हत्वा जगाम स्वपुरं वनात् ॥१९॥
गते तस्मिन्विनिश्वस्य सेन्द्रसेना वपुष्मति ।
प्रेषयामास पुत्रस्य समीपं शूद्रतापसम् ॥२०॥
गच्छेथा आशु मे पुत्रं दमं ब्रूहि वचो मम ।
अभिज्ञो ह्यसि मद्भर्तृवृत्तान्तं प्रोच्यतेऽत्र किम् ॥२१॥
तथापि वाच्यः पुत्रो मे यद्ब्रवीम्यतिदुःखिता ।
लंघनामीदृशीं प्राप्तां विलोक्यतां महीपतेः ॥२२॥
मद्भर्त्राऽधिकृतो राजा चतुर्णां परिपालकः ।
त्वमाश्रमाणां किं युक्तं तापसान्यन्न रक्षसि ॥२३॥
भर्ता मम नरिष्यन्तस्तापसस्तपसि स्थितः ।
विलपन्त्यास्तथा नाथो यथा नासि तथा त्वयि ॥२४॥
आकृष्य केशेषु बलादपराधं विना ततः ।
हतो वपुष्मता ख्यातिमिति ते भूपतिर्गता ॥२५॥
एवं स्थिते तत्क्रियतां यथा धर्मो न लुप्यते ।
तथा च नैव वस्तव्यं माताहं तापसी यतः ॥२६॥
पिता वृद्धस्तपस्वी च नापराधेन दूषितः ।
निहतो येन यत्तस्य कर्तव्यं तद्विचिन्त्यताम् ॥२७॥
सन्ति ते मन्त्रिणो वीराः सर्वशास्त्रार्थवेदिनः ।
तैः सहालोच्य यत्कार्यमेवंभूते कुरुष्व तत् ॥२८
नास्माकमधिकारोऽत्र तापसानां नराधिप ।
कुरुष्वैतदितीत्थं त्वमेवं भूपतिभाषितम् ॥२९॥
विदूरथस्य जनको यवनेन यथा हतः ।
तथायं तव पुत्रस्य कुलं तेन विनाशितम् ॥३०॥
जम्भस्यासुरराजस्य पिता दष्टो भुजङ्गमैः ।
तेनाप्यखिलपातालवासिनः पन्नगाः हताः ॥३१॥
पराशरेण पितरं शक्तिं तं रक्षसाऽऽहतम् ।
श्रुत्वाऽग्नौ पातितं कृत्स्नं रक्षसामभवत्कुलम् ॥३२॥
अन्यस्यापि स्ववंशस्य लंघना क्रियते हि या ।
तां नालं क्षत्रियः सोढुं कि पुनः पितृमारणम् ॥३३॥
नायं पिता ते निहतो नास्मिञ्छस्त्रं निपातितम् ।
त्वामत्र निहतं मन्ये त्वयि शस्त्रं निपातितम् ॥३४॥
बिभेत्यस्य हि कः शस्त्रं न्यस्तं येन वनौकसाम् ।
तव नृपस्य पुत्रस्य मा बिभेतु बिभेतु वा ॥३५॥
तवेयं लङ्घनायुक्ता यदस्मिंस्तत्समाचर ।
वपुष्मति महाराज सभृत्यज्ञातिबान्धवे ॥३६॥
मार्कण्डेय उवाच
इति संक्रान्तसन्देशमिन्द्रसेना विसृज्य तम् ।
पतिदेहमुपाश्लिष्य विवेशाग्निं मनस्विनी ॥३७॥
इति श्रीमार्कण्डेयपुराणे दमचरितवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः । १३१ ।
N/A
References : N/A
Last Updated : April 17, 2023
TOP