संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| त्रिचत्वारिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - त्रिचत्वारिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत त्रिचत्वारिंशोऽध्यायः Translation - भाषांतर दत्तात्रेय उवाचअरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते ।येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥१॥देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।यो न पश्येन्न जीवेत् स नरः संवत्सरात् परम् ॥२॥अरश्मिबिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् ।दृष्ट्वै कादशमासात् तु नरो नोर्धन्तु जीवति ॥३॥वान्ते मूत्रपूरीषे च यः स्वर्णं रजतं तथा ।प्रत्यक्षं कुरुते स्वप्ने जीवेत् स दशमासिकम् ॥४॥दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च ।सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥५॥स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।प्रकृतेश्च निवर्तेत तस्यायुश्चाष्टमासिकम् ॥६॥खण्डं यस्य पदं पार्ष्णयां पादस्याग्रे च वा भवेत् ।पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति ॥७॥गृध्रः कपोतः काकालो वायसो वापि मूर्धनि ।क्रव्यादो वा खगो नीलः षण्मासायुः प्रदर्शकः ॥८॥हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा नरः ।स्वां च्छायामन्यथा दृष्ट्वा चतुः पञ्च स जीवति ॥९॥अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥१०॥घृते तैले तथादर्शे तोये वा नात्मनस्तनुम् ।यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ॥११॥यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।तस्यार्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥१२॥यस्य वै स्त्रमात्रस्य हृत्पादमवशुष्यते ।पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥१३॥सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।हृष्यते नाम्बुसंस्पर्शात् तस्य मृत्युरुपस्थितः ॥१४॥ऋक्षवानरयानस्थो गायन् यो दक्षिणां दिशम् ।स्वप्ने प्रयाति तस्यापि न मृत्युः कालमिच्छति ॥१५॥रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् ।दक्षिणाशान्नयेन्नारी स्वप्ने सोऽपि न जीवति ॥१६॥नग्नं क्षपणकं स्वप्ने हसमानं महाबलम् ।एकं संवीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम् ॥१७॥आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे ।स्वप्ने पश्यत्यथात्मानं स सद्यो म्रियते नरः ॥१८॥केशाङ्गारांस्तथा भस्म भुजङ्गान्निर्जलां नदीम् ।दृष्ट्वा स्वप्ने दशाहात्तु मृत्युरेकादशे दिने ॥१९॥करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥२०॥सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् ।विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥२१॥यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा ।जायते दन्तघर्षश्च स गतायुर्न संशयम् ॥२२॥दीपगन्धं न यो वेत्ति त्रस्यत्यह्नि तथा निशि ।नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥२३॥शक्रायुधं चार्धरात्रे दिवा ग्रहगणन्तथा ।दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित् ॥२४॥नासिका वक्रतामेति कर्णयोर्नमनोन्नती ।नेत्रञ्च वामं स्त्रवति यस्य तस्यायुरुद्गतम् ॥२५॥आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा ।तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः ॥२६॥उष्ट्र-रासभयानेन यः स्वप्ने दक्षिणां दिशम् ।प्रयाति तञ्च जानीयात् सद्योमृत्युं न संशयः ॥२७॥पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् ।नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥२८॥पततो यस्य वै गर्ते स्वप्ने द्वारं पिधीयते ।न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥२९॥ऊर्ध्वा च दृष्टिर्न च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना ।मुखस्य चोष्मा शुषिरञ्च नाभेः शंसन्ति पुंसामपरं शरीरम् ॥३०॥स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः ।जलप्रवेशादपि वा तदन्तं तस्य जीवितम् ॥३१॥यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।स मृत्युं सप्तरात्र्यन्ते नरः प्राप्रोत्यसंशयम् ॥३२॥स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथासितम् ।यः पुमान् मृत्युमासन्नं तस्यापि हि विनिर्दिशेत् ॥३३॥स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्ययः ।कथयन्ति मनुष्याणां सदासन्नौ यमान्तकौ ॥३४॥येषां विनीतः सततं येऽस्य पूज्यतमा मताः ।तानेव चावजानाति तानेव च विनिन्दति ॥३५॥देवान्नार्चयते वृद्धान् गुरून् विप्रांश्च निन्दति ।मातापित्रोर्न सत्कारं जामातॄणां करोति च ॥३६॥योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् ।प्राप्ते तु काले पुरुषस्तद्विज्ञेयं विचक्षणैः ॥३७॥योगिनां सततं यत्नादरिष्टान्यवनीपते ।संवत्सरान्ते तज्ज्ञेयं फलदानि दिवानिशम् ॥३८॥विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणा ।विज्ञाय कार्यो मनसि स च कालो नरेश्वर ॥३९॥ज्ञात्व कालञ्च तं सम्यगभयस्थानमाश्रितः ।युञ्जीत योगी कालोऽसौ यथा नास्याफलो भवेत् ॥४०॥दृष्ट्वारिष्टं तथा योगी त्यक्त्वा मरणजं भयम् ।तत्स्वभावं तदालोक्य काले यावत्युपागतम् ॥४१॥तस्य भागे तथैवाह्नो योगं युञ्जीत योगवित् ।पूर्वाह्ने चापराह्ने च मध्याह्ने चापि तद्दिने ॥४२॥यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् ।तत्रैव तावद्युञ्जीत यावत् प्राप्तं हि तद्दिनम् ॥४३॥ततस्त्यक्त्वा भयं सर्वं जित्वा तं कालमात्मवान् ।तत्रैवावसथे स्थित्वा यत्र वा स्थैर्यमात्मनः ॥४४॥युञ्जीत योगं निर्जित्य त्रीन् गुणान् परमात्मनि ।तन्मयश्चात्मना भूत्वा चिद्वृत्तिमपि सन्त्यजेत् ॥४५॥ततः परमनिर्वाणमतीन्द्रियमगोचरम् ।यद्बुद्धेर्यन्न चाख्यातुं शक्यते तत् समश्नुते ॥४६॥एतत् सर्वं समाख्यातं तवालर्क ! यथार्थवत् ।प्राप्स्यसे येन तद्ब्रह्म संक्षेपात्तन्निबोध मे ॥४७॥शशाङ्करश्मिसंयोगाच्छन्द्रकान्तमणिः पयः ।समुत्सृजति नायुक्तः सोपमा योगिनः स्मृता ॥४८॥यच्चार्करश्मिसंयोगादर्ककान्तो हुताशनम् ।आविष्करोति नैकः सन्नुपमा सापि योगिनः ॥४९॥पिपीलिकाखु-नकुल-गृहगोधा-कपिञ्जलाः ।वसन्ति स्वामिवद् गेहे ध्वस्ते यान्ति ततोऽन्यतः ॥५०॥दुः खन्तु स्वामिनो ध्वंसे तस्य तेषां न किञ्चन ।वेश्मनो यत्र राजेन्द्र ! सोपमा योगसिद्धये ॥५१॥मृद्वाहिकाल्पदेहापि मुखाग्रेणाप्यणीयसा ।करोति मृद्भारचयमुपदेशः स योगिनः ॥५२॥पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् ।वृक्षं विलुप्यमानन्तु दृष्ट्वा सिध्यन्ति योगिनः ॥५३॥रुरुशावविषाणाग्रमालक्ष्य तिलकाकृतिम् ।सह तेन विवर्धन्तं योगी सिद्धिमवाप्नुयात् ॥५४॥द्रवपूर्णमुपादाय पात्रमारोहतो भुवः ।तुङ्गमार्गं विलोक्योच्चैर्विज्ञातं किं न योगिना ॥५५॥सर्वस्वे जीवनायालं निखाते पुरुषस्य या ।चेष्टा तां तत्त्वतो ज्ञात्वा योगिनः कृतकृत्यता ॥५६॥तद्गृहं यत्र वसतिः तद्भोज्यं येन जीवति ।येन सम्पद्यते चार्थस्तत्सुखं ममतात्र का ॥५७॥अभ्यर्थितोऽपि तैः कार्यं करोति करणैर्यथा ।तथा बुध्यादिभिर्योगी पारक्यैः साधयेत्परम् ॥५८॥जड उवाचततः प्रणम्यात्रिपुत्रमलर्कः स महीपतिः ।प्रश्रयावनतो वाक्यमुवाचातिमुदान्वितः ॥५९॥अलर्क उवाचदिष्ट्यादेवैरिदं ब्रह्मन् ! पराभिभवसम्भवम् ।उपपादितमत्युग्रं प्राणसन्देहदं भयम् ॥६०॥दिष्ट्या काशिपतेर्भूरि-बलसम्पत्पराक्रमः ।यदुच्छेदादिहायातः स युष्मत्सङ्गदो मम ॥६१॥दिष्ट्या मन्दबलश्चाहं दिष्ट्या भृत्याश्च मे हताः ।दिष्ट्या कोषः क्षयं योतो दिष्ट्याहं भीतिमागतः ॥६२॥दिष्ट्या त्वत्पादयुगलं मम स्मृतिपथं गतम् ।दिष्ट्या त्वदुक्तयः सर्वा मम चेतसि संस्थितः ॥६३॥दिष्ट्या ज्ञानं ममोत्पन्नं भवतश्च समागमात् ।भवता चैव कारुण्यं दिष्ट्या ब्रह्मन् ! कृतं मम ॥६४॥अनर्थोऽप्यर्थतां याति पुरुषस्य शुभोदये ।यथेदमुपकाराय व्यसनं सङ्गमात्तव ॥६५॥सुबाहुरुपकारी मे स च काशिपतिः प्रभो ।ययोः कृतेऽहं संप्राप्तो योगीश ! भवतोऽन्तिकम् ॥६६॥सोऽहन्तव प्रसादाग्नि-निर्दग्धाज्ञानकिल्विषः ।तथा यतिष्ये येनेदृङ् न भूयां दुः खभाजनम् ॥६७॥परित्यजिष्ये गार्हस्थ्यमार्तिपादपकाननम् ।त्वत्तोऽनुज्ञां समासाद्य ज्ञानदातुर्महात्मनः ॥६८॥दत्तात्रेय उवाचगच्छ राजेन्द्र ! भद्रं ते यथा ते कथितं मया ।निर्ममो निरहङ्कारस्तथा चर विमुक्तये ॥६९॥जड उवाचएवमुक्तः प्रणम्यैनमाजगाम त्वरान्वितः ।यत्र काशिपतिर्भ्राता सुबाहुश्चास्य सोऽग्रजः ॥७०॥समुत्पत्य महाबहुं सोऽलर्कः काशिभूपतिम् ।सुबाहोरग्रतो वीरमुवाच प्रहसन्निव ॥७१॥राज्यकामुक काशीश ! भुज्यतां राज्यमूर्जितम् ।तथा च रोचते तद्वत् सुबाहोः संप्रयच्छ वा ॥७२॥काशिराज उवाचकिमलर्क ! परित्यक्तं राज्यं ते संयुगं विना ।क्षत्रियस्य न धर्मोऽयं भवांश्च क्षत्रधर्मवित् ॥७३॥निर्जितामात्यवर्गस्तु त्यक्त्वा मरणजं भयम् ।सन्दधीत शरं राजा लक्ष्यमुद्दिश्य वैरिणम् ॥७४॥तं जित्वा नृपतिर्भोगान् यथाभिलषितान् वरान् ।भुञ्जीत परमं सिद्ध्यै यजेत च महामखैः ॥७५॥अलर्क उवाचएवमीदृशकं वीर ! ममाप्यासीन्मनः पुरा ।साम्प्रतं विपरीतार्थं शृणु चाप्यत्र कारणम् ॥७६॥यथायं भौतिकः सङ्घस्तथान्तः करणं नृणाम् ।गुणास्तु सकलास्तद्वदशेषेष्वेव जन्तुषु ॥७७॥चिच्छक्तिरेक एवायं यदा नान्योऽस्ति कश्चन ।तदा का नृपते ज्ञानान्मित्रारिप्रभुभृत्यता ॥७८॥तन्मया दुः खमासाद्य त्वद्भयोद्भवमुत्तमम् ।दत्तात्रेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर ॥७९॥निर्जितेन्द्रियवर्गस्तु त्यक्त्वा सङ्गमशेषतः ।मनो ब्रह्मणि सन्धाय तज्जये परमो जयः ॥८०॥संसाध्यमन्यत्तत्सिद्ध्यै यतः किञ्चिन्न विद्यते ।इन्द्रियाणि च संयम्य ततः सिद्धिं नियच्छति ॥८१॥सोऽहं न तेऽरिर्न ममासि शत्रुः सुबाहुरेषो न ममापकारी ।दृष्टं मया सर्वमिदं यथात्मा अन्विष्यतां भूप ! रिपुस्त्वयान्यः ॥८२॥इत्थं स तेनाभिहितो नरेन्द्रो हृष्टः समुत्थाय ततः सुबाहुः ।दिष्ट्येति तं भ्रातरमाभिनन्द्य काशीश्वरं वाक्यमिदं बभाषे ॥८३॥इति श्रीमार्कण्डेयपुराणे अरिष्टकथनं नाम त्रिचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP