संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
द्वादशाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - द्वादशाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


N/Aमार्कण्डेय उवाच
तस्मै दत्त्वा ततः शापं नलं क्रुद्धोऽब्रवीद्द्विज ।
प्रमतिर्भार्गवः कोपात्त्रैलोक्यं निर्दहन्निव ॥१॥
मदोन्मत्तो यतो भार्यां भवानत्र ममाश्रमे ।
बलाद्गृह्णाति भस्मत्वं तस्माद्व्रजतु मा चिरम् ॥२॥
तेनोदाहृतमात्रे च वाक्ये तस्मिंस्तदा नलः ।
देहजेनाग्निना सद्यो भस्मपुञ्जस्तदाऽभवत् ॥३॥
दृष्ट्वा प्रभावं तं तस्य सुदेवो विमदस्ततः ।
प्रणामनम्रः प्राहेदं क्षम्यतां क्षम्यतामिति ॥४॥
यदुक्तवांस्त्वां भगवन्सुरापानमदाकुलम् ।
तत्क्षम्यतां प्रसीद त्वं शापोऽयं विनिवर्त्यताम् ॥५॥
एवं प्रसादितस्तेन प्रमतिः प्राह भार्गवः ।
गतकोपो नले दग्धे नावनीतेन चेतसा ॥६॥
नान्यथा भावि तद्वाक्यं यन्मया समुदीरितम् ।
तथापि ते करिष्यामि प्रसन्नोऽनुग्रहं परम् ॥७॥
भविता वैश्यजातीयो भवान्नास्त्यत्र संशयः ।
भविता क्षत्रियो वैश्यस्तस्मिन्नेवाशु जन्मनि ॥८॥
ग्रहीष्यति बलात्कन्यां यदा ते क्षत्रसम्भवः ।
तदा त्वं क्षत्रियो वैश्यः स्वगृहीतो भविष्यसि ॥९॥
एवं स वैश्यो भूपाल सुदेवोऽस्मत्पिताभवत् ।
अहं च या महाभाग तत्सर्वं श्रूयतां त्वया ॥१०॥
सुरतो नाम राजर्षिः प्रागासीद्गन्धमादने ।
तपस्वी नियताहारस्त्यक्तसङ्गो वनाश्रयः ॥११॥
ततः श्येनमुखभ्रष्टां दृष्ट्वैकां शारिकां भुवि ।
कृपाऽभूज्जनिता मूर्च्छा तथा तस्य महात्मनः ॥१२॥
ततो मूर्च्छावसानेऽहं तस्योत्पन्ना शरीरतः ।
स मां दृष्ट्वा च जग्राह स्निह्यमानेन चेतसा ॥१३॥
यस्मात्कृपाभिभूतस्य मम जातेयमात्मजा ।
तस्मात्कृपावती नाम्ना भविष्यत्याह स प्रभो ॥१४॥
ततोऽहमाश्रमे तस्य वर्धमाना दिवानिशम् ।
सखीभिः सह तुल्याभिर्विचरामि वनानि च ॥१५॥
ततो मुनेरगस्त्यस्य भ्रातागस्त्य इति श्रुतः ।
स चिन्वन्कानने वन्यं सखीभिः कोपितोऽशपत् ॥१६॥
यस्मान्मां वैश्य इत्याह भवती तेन ते शपे ।
वैश्या भविष्यसीत्युक्ते प्रसाद्योक्तो मया मुनिः ॥
नापराधं कृतवती तवाहं द्विजसत्तम ।
अन्यासामपराधेन किमर्थं शप्तवानसि ॥१७॥
ऋषिरुवाच
दुष्टतां दुष्टसंसर्गाददुष्टमपि गच्छति ।
सुराबिन्दुनिपातेन पञ्चगव्यघटो यथा ॥१८॥
प्रणिपत्य ह्यनिष्टोऽपि यत्त्वयाहं प्रसादितः ।
तस्मादनुग्रहं बाले शृणुष्व च करोम्यहम् ॥१९॥
वैश्ययोनौ यदा जाता त्वं पुत्रं बोधयिष्यसि ।
राज्याय जातिस्मरतां तदा त्वं समवाप्स्यसि ॥२०॥
ततो भूयः क्षत्रजातिं प्राप्ता त्वं पतिना सह ।
दिव्यानवाप्स्यसे भोगान्गच्छ भीतिरपैतु ते ॥२१॥
एवं शप्तास्मि राजेन्द्र तेन पूर्वं महर्षिणा ।
पिता च मे पूर्वमेवं शप्तः प्रमतिनाऽभवत् ॥२२॥
एवं वैश्यो न राजंस्त्वं न च वैश्यः पिता मम ।
न त्वं हि मय्यदुष्टायामदुष्टो दुष्यसे कथम् ॥२३॥
इति श्रीमार्कण्डेयपुराणे द्वादशाधिकशततमोऽध्यायः । ११२ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP