संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चाशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चाशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चाशोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचततोऽभिद्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ।तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ॥१॥क्षेत्रज्ञाः समवर्तन्त गात्रेब्यस्तस्य धीमतः ।ते सर्वे समवर्तन्त ये मया प्रगुदाहृताः ॥२॥देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषयाः स्मृताः ।एवंभूतानि सृष्टानि स्थावराणि चराणि च ॥३॥यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।अथान्यान्मानसान् पुत्रानु सदृशानात्मनोऽसृजत् ॥४॥भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा ।मरीचिं दक्षमत्रिञ्च वसिष्टञ्चैव मानसम् ॥५॥नव ब्रह्माण इत्येते पुराणे निश्चयङ्गताः ।ततोऽसृजत् पुनर्ब्रह्मा रुद्रं क्रोधात्मसम्भवम् ॥६॥सङ्कल्पञ्चैव धर्मञ्च पूर्वेषामपि पूर्वजम् ।सनन्दनादयो ये च पूर्वं सृष्टाः स्वयंभुवा ॥७॥न ते लोकेषु सज्जन्तो निरपेक्षाः समाहिताः ।सर्वे तेऽनागतज्ञाना वीतरागा विमत्सराः ॥८॥तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ।ब्रह्मणोऽभून्महाक्रोधस्तत्रोत्पन्नोर्ऽकसन्निभः ॥९॥अर्धनारीनरवपुः पुरुषोऽतिशरीरवान् ।विभजात्मानमित्युक्त्वा स तदान्तर्दधे ततः ॥१०॥स चोक्तो वै पृथक् स्त्रीत्वं पुरुषत्वं तथाकरोत् ।बिभेद पुरुषत्वञ्च दशधा चैकधा तु सः ॥११॥सौम्यासौम्यैस्तथा शान्तैः पुंस्त्वं स्त्रीत्वञ्च स प्रभुः ।बिभेद बहुधा देवः पुरुषैरसितैः सितैः ॥१२॥ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः ।आत्मनः सदृशं कृत्वा प्रजापालो मनुं द्विज ॥१३॥शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् ।स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥१४॥तस्माच्च पुरुषात् पुत्रौ शतरूपा व्यजायत ।प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्मभिः ॥१५॥कन्ये द्वे च तथा ऋद्धिं प्रसूतिञ्च ततः पिता ।ददौ प्रसूतिं दक्षाय तथा ऋद्धिं रुचेः पुरा ॥१६॥प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणः ।पुत्रो जज्ञे महाभाग ! दम्पतीमिथुनं ततः ॥१७॥यज्ञस्य दक्षिणायान्तु पुत्रा द्वादश जज्ञिरे ।यामा इति समाख्याता देवाः स्वायम्भुवोऽन्तरे ॥१८॥तस्य पुत्रास्तु यज्ञस्य दक्षिणायां सभास्वराः ।प्रसूत्याञ्च तथा दक्षश्चतस्त्रो विंशतिस्तथा ॥१९॥ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ।श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥२०॥बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥२१॥ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिस्तथा क्षमा ॥२२॥सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ।भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥२३॥पुलस्त्यः पुलहश्चैव क्रतुश्च ऋषयस्तथा ।वसिष्ठोऽत्रिस्तथा वह्निः पितरश्च यथाक्रमम् ॥२४॥ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम् ॥२५॥सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरजायत ।मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥२६॥बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥२७॥सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मयोनयः ।कामादतिमुदं हर्षं धर्मपौत्रमसूयत ॥२८॥हिंसा भार्या त्वधर्मस्य तस्यां जज्ञे तथानृतम् ।कन्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम् ॥२९॥माया च वेदना चैव मिथुनं द्वयमेतयोः ।तयोर्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥३०॥वेदनात्मसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् ।मृत्योर्व्याधि-जरा-शोक-तृष्णा-क्रोधाश्च जज्ञिरे ॥३१॥दुः खोद्भवाः स्मृता ह्येते सर्वे वाधर्मलक्षणाः ।नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः॥ ३२॥निरृतिश्च तथा चान्या मृत्योर्भार्याभवन्मुने ।अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्राश्चतुर्दश ॥३३॥अलक्ष्मीपुत्रका ह्येते मृत्योरादेशकारिणः ।विनाशकालेषु नरान् भजन्त्येते शृणुष्व तान् ॥३४॥इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः ।स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति हि ॥३५॥अथेन्द्रियाणि चाक्रम्य रागक्रोधादिभिर्नरान् ।योजयन्ति यथा हानिं यान्त्यधर्मादिभिर्द्विज ॥३६॥अहङ्कारगतश्चान्यस्तथान्यो बुद्धिसंस्थितः ।विनाशाय नराः स्त्रीणां यतन्ते महोसंश्रिताः ॥३७॥तथैवान्यो गृहे पुंसां दुः सहो नाम विश्रुतः ।क्षुत्क्षामोऽधोमुखो नग्रश्चीरी काकसमस्वनः ॥३८॥स सर्वान् खादितुं सृष्टो ब्रह्मणा तमसो निधिः ।दंष्ट्राकरालमत्यर्थं विवृतास्यं सुभैरवम् ॥३९॥तमत्तुकाममाहेदं ब्रह्मा लोकपितामहः ।सर्वब्रह्ममयः शुद्धः कारणं जगतोऽव्ययः ॥४०॥ब्रह्मोवाचनात्तव्यन्ते जगदिदं जहि कोपं शमं व्रज ।त्यजैनान्तामसी वृत्तिमपास्य रजसः कलाम् ॥४१॥दुः सह उवाचक्षुत्क्षामोऽस्मि जगन्नाथ ! पिपासुश्चापि दुर्बलः ।कथं तृप्तिमियान्नाथ ! भवेयं बलवान् कथम् ।कश्चाश्रयो ममाक्याहि वर्तेयं यत्र निर्वृतः ॥४२॥ब्रह्मोवाचतवाश्रयो गृहं पुंसां जनश्चाधार्मिको बलम् ।पुष्टिं नित्यक्रियाहान्या भवान् वत्स ! गमिष्यति ॥४३॥वृथास्फोटाश्च ते वस्त्रमाहारञ्च ददामि ते ।क्षतं कीटावपन्नञ्च तथा श्वबिरवेक्षितम् ॥४४॥भग्नभाणागतन्तद्वन्मुखवातोपशामितम् ।उच्छिष्टापक्वमास्विन्नमवलीढमसंस्कृतम् ॥४५॥भग्नासनस्थितैर्भुक्तमासन्नागतमेव च ।विदिङ्मुखं सन्ध्ययोश्च नृत्यवाद्यस्वनाकुलम् ॥४६॥उदक्योपहतं भुक्तमुदक्या दृष्टमेव च ।यच्चोपघातवत् किञ्चिद् भक्ष्यं पेयमथापि वा ॥४७॥एतानि तव पुष्ट्यर्थमन्यच्चापि ददामि ते ।अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया ॥४८॥यन्नाम्बुपूर्वकं क्षिप्तमनर्थोकृतमेव च ।त्यक्तुमाविष्कृतं यत् तु दत्तं चैवातिविस्मयात् ॥४९॥दुष्टं क्रुद्धार्तदत्तञ्च यक्ष तद्भागि तत् फलम् ।यच्च पौनर्भवः किञ्चित् करोत्यामुष्मिकं क्रमम् ॥५०॥यच्च पौनर्भवा योषित् तद्यक्ष ! तव तृप्तये ।कन्याशुल्कोपधानाय समुपास्ते धनक्रियाः ॥५१॥तथैव यक्ष ! पुष्ट्यर्थमसच्छास्त्रक्रियाश्च याः ।यच्चार्थनिर्वृतं किञ्चिदधीतं यन्न सत्यतः ॥५२॥तत सर्वं तव कालांश्च ददामि तव सिद्धये ।गुर्विण्यभिगमे सन्ध्यानित्यकार्यव्यतिक्रमे ॥५३॥असच्छास्त्रक्रियालापदूषितेषु च दुः सह ।तवाभिभवसामर्थ्यं भविष्यति सदा नृषु ॥५४॥पङ्क्तिभेदे वृथापाके पाकभेदे तथा क्रिया ।नित्यञ्च गेहकलहे भविता वसतिस्तव ॥५५॥अपोष्यमाणे च तथा भृत्ये गोवाहनादिके ।असन्ध्याभ्युक्षितागारे काले त्वत्तो भयं नृणाम् ॥५६॥नक्षत्रग्रहपीडासु त्रिविधोत्पातदर्शने ।अशान्तिकपरान् यक्ष ! नरानभिभविष्यसि ॥५७॥वृथोपवासिनो मर्त्या द्यूतस्त्रीषु सदा रताः ।त्वद्भाषणोपकर्तारो वैडालव्रतिकाश्च ये ॥५८॥अब्रह्मचारिणाधीतमिज्या चाविदुषा कृता ।तपोवने ग्राम्यभुजां तथैवानिर्वजितात्मनाम् ॥५९॥ब्राह्मण-क्षत्रिय-विशां शूद्राणाञ्च स्वकर्मतः ।परिच्युतानां या चेष्टा परलोकार्थमीप्सताम् ॥६०॥तस्याश्च यत् फलं सर्वं तत् ते यक्ष ! भविष्यति ।अन्यच्च ते प्रयच्छामि पुष्ट्यर्थं सन्निबोध तत् ॥६१॥भवतो वैश्वदेवान्ते नामोच्चारणपूर्वकम् ।एतत् तवेति दास्यन्ति भवतो बलिमूर्जितम् ॥६२॥यः संस्कृताशी विधिवच्छुचिरन्तस्तथा बहिः ।अलोलुपो जितस्त्रीकस्तद्गेहमपवर्जय ॥६३॥पूज्यन्ते हव्यकव्याभ्यां देवताः पितरस्तथा ।यामयोऽतिथयश्चापि तद्गेहं यक्ष ! वर्जय ॥६४॥यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च ।तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय ॥६५॥योषितोऽबिरता यत्र न वहिर्गमनोत्सुकाः ।लज्जान्विताः सदा गेहं यक्ष ! तत् परिवर्जय ॥६६॥वयः सम्बन्धयोग्यानि शयनान्यशनानि च ।यत्र गेहे त्वया यक्ष ! तद्वर्ज्यं वचनान्मम ॥६७॥यत्र कारुणिका नित्यं साधुकर्मण्यवस्थिताः ।सामान्योपस्करैर्युक्तास्त्यजेथा यक्ष ! तद्गृहम् ॥६८॥यत्रासनस्थास्तिष्ठत्सु गुरु-वृद्ध-द्विजातिषु ।न तिष्ठन्ति गृहं तच्च वर्ज्यं यक्ष ! त्वया सदा ॥६९॥तरुगुल्मादिभिर्धारं न विद्धं यस्य वेश्मनः ।मर्मभेदोऽथवा पुंसस्तच्छ्रेयो भवनं न ते ॥७०॥देवतापितृभृत्त्यानामतिथीनाञ्च वर्तनम् ।य्सायवशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज॥ ७१॥सत्यवाक्यान् क्षमाशीलानहिंस्त्रान्नानुतापिनः ।पुरुषानीदृशान् यक्ष ! त्यजेथाश्चानसूयकान् ॥७२॥भर्तृशुश्रूषणे युक्तामसत्स्त्रीसङ्गवर्जिताम् ।कुटुम्बभर्तृशेषान्नपुष्टाञ्च त्यज योषितम् ॥७३॥यजनाध्ययनाभ्यासदानासक्तमतिं सदा ।याजनाध्यापनादानकृतवृत्तिं द्विजं त्यज ॥७४॥दानाध्ययनयज्ञेषु सदोद्युक्तञ्च दुः सह ।क्षत्रियं त्यज सच्छुल्कशस्त्राजीवात्तवेतनम् ॥७५॥त्रिभिः पूर्वगुणैर्युक्तं पाशुपाल्य-वणिज्ययोः ।कृषेश्चावाप्तवृत्तिञ्च त्यज वैश्यमकल्मषम् ॥७६॥दानेझ्या-द्विजशुश्रूषा-तत्परं यक्ष ! सन्त्यज ।शूद्रञ्च ब्राह्मणादीनांशुश्रूषावृत्तिपोषकम् ॥७७॥श्रुतिस्मृत्यविरोधेन कृतवृत्तिर्गृहे गृही ।यत्र तत्र च तत्पत्नि तस्यैवानुगतात्मिका ॥७८॥यत्र पुत्रो गुरोः पूजां देवानाञ्च तथा पितुः ।पत्नी च भर्तुः कुरुते तत्रालक्ष्मीभयं कुतः ॥७९॥सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितम् ।कृतपुष्पबलिं यक्ष ! न त्वं शक्नोषि वीक्षितुम् ॥८०॥भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनम् ॥८१॥यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।विषाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः ॥८२॥यत्र कष्टकिनो वृक्षा यत्र निष्पाववल्लरी ।भार्या पुनर्भूर्वल्मीकस्तद्यक्ष ! तव मन्दिरम् ॥८३॥यस्मिन् गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ।अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव ॥८४॥एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् ।षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय ॥८५॥कुद्दालदात्रपिटकं तद्वत् स्थाल्यादिभाजनम् ।यत्र तत्रैव क्षिप्तानि तव दद्युः प्रतिश्रयम् ॥८६॥मुसलोलूखले स्त्रीणामास्या तद्वदुदुम्बरे ।अवस्करे मन्त्रणञ्च यक्षैतदुपकृत् तव ॥८७॥लङ्घ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ।तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चर दुः सह ॥८८॥स्थालीपिधाने यत्राग्निर्दत्तो दर्वोफलेन वा ।गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥८९॥मानुषास्थि गृहे यत्र दिवारात्रं मृतस्थितिः ।तत्र यक्ष ! तवावासस्तथान्येषाञ्च रक्षसाम् ॥९०॥अदत्त्वा भुञ्जते ये वै बन्धोः पिण्डं तथोदकम् ।सपिण्डान् सोदकांश्चैव तत्काले तान् नरान् भज ॥९१॥यत्र पद्मपहापद्मौ सुरभिर्मोकाशिनी ।वृषभैरावतौ यत्र कल्प्यन्ते तद्गृहं त्यज ॥९२॥अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना ।कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम् ॥९३॥पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः ।क्रियन्ते पूर्ववद् गेहे न त्वं तत्र गृहे चर ॥९४॥शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः ।नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान् ॥९५॥देशाचारान् समयान् ज्ञातिधर्मंजपं होपं मङ्गलं देवतेष्टिम् ।सम्यक्शौचं विधिवल्लोकवादान्पुंसस्त्वया कुर्वतो मास्तु सङ्गः ॥९६॥मार्कण्डेय उवाचइत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत ।चकार शासनं सोऽपि तथा पङ्कजजन्मनः ॥९७॥इति श्रीमार्कण्डेयपुराणे यक्षानुशासनो नाम पञ्चाशोऽध्यायः N/A References : N/A Last Updated : March 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP