संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| तृतीयोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - तृतीयोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत तृतीयोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचअहन्यहनि विप्रेन्द्र स तेषां मुनिसत्तमः ।चकाराहारपयसा तथा गुप्त्या च पोषणम् ॥१॥मासमात्रेण जग्मुस्ते भानोः स्यन्दनवर्त्मनि ।कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः ॥२॥दृष्ट्वा महीं सनगरां साम्भोनिधिसरिद्वराम् ।रथचक्रप्रमाणां ते पुनराश्रममागताः ॥३॥श्रमक्लान्तान्तरात्मानो महात्मानो वियोनिजाः ।ज्ञानञ्च प्रकटीभूतं तत्र तेषां प्रभावतः ॥४॥ऋषेः शिष्यानुकम्पार्थं वदतो धर्मनिश्चयम् ।कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवादयन् ॥५॥ऊचुश्च मरणाद्घोरान्मोक्षिताः स्मस्त्वया मुने ।आवास-भक्ष्य-पयसां त्वं नो दाता पिता गुरुः ॥६॥गर्भस्थानां मृता माता पित्रा नैवापि पालिताः ।त्वया नो जीवितं दत्तं शिशवो येन रक्षिताः ॥७॥क्षितावक्षततेजास्त्वं कृमीणामिव शुष्यताम् ।गजघण्टां समुत्पाट्य कृतवान् दुः खरेचनम् ॥८॥कथं वर्धेयुरबलाः खस्थान् द्रक्ष्याम्यहं कदा ।कदा भूमेर्द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं गतान् ॥९॥कदा मे सहजा कान्तिः पांशुना नाशमेष्यति ।एषां पक्षानिलोत्थेन मत्समीपविचारिणाम् ॥१०॥इति चिन्तयता तात भवता प्रतिपालिताः ।ते साम्प्रतं प्रवृद्धाः स्मः प्रबुद्धाः करवाम किम् ॥११॥इत्यृषिर्वचनं तेषां श्रुत्वा संस्कारवत् स्फुटम् ।शिष्यैः परिवृतः सर्वैः सह पुत्रेण शृङ्गिणा ॥१२॥कौतूहलपरो भूत्वा रोमाञ्चपटसंवृतः ।उवाच तत्त्वतो ब्रूत प्रवृत्तेः कारणं गिरः ॥१३॥कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा ।रूपस्य वचसश्चैव तन्मे वक्तुमीहार्हथ ॥१४॥पक्षिण ऊचुःविपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः ।तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा ॥१५॥सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः ।तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि ॥१६॥तपश्चरणसक्तस्य शास्यमानेन्द्रियस्य च ।यथाभिमतमस्माभिस्तदा तस्योपपादितम् ॥१७॥समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहारिकम् ।एवं तत्राथ वसतां तस्यास्माकञ्च कानने ॥१८॥आजगाम महावर्ष्मा भग्नपक्षो जरान्वितः ।आताम्रनेत्रः स्त्रस्तात्मा पक्षी भूत्वा सुरेश्वरः ॥१९॥सत्य-शौच-क्षमाचारमतीवोदारमानसम् ।जिज्ञासुस्तमृषिश्रेष्ठमस्मच्छापभवाय च ॥२०॥पक्ष्युवाचद्विजेन्द्र मां क्षुधाविष्टं परित्रातुमिहार्हसि ।भक्षणार्थो महाभाग गतिर्भव ममातुला ॥२१॥विन्ध्यस्य शिखरे तिष्ठन् पत्रिपत्रेरितेन वै ।पतितोऽस्मि महाभाग श्वसनेनातिरंहसा ॥२२॥सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः ।स्थितस्तत्राष्टमेनाह्ना चेतनां प्राप्तवानहम् ॥२३॥प्राप्तचेताः क्षुधाविष्टो भवन्तं शरणं गतः ।भक्ष्यार्थो विगतानन्दो दूयमानेन चेतसा ॥२४॥तत् कुरुष्वामलमते मत्त्राणायाचलां मतिम् ।प्रयच्छ भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम ॥२५॥स एवमुक्तः प्रोवाच तमिन्द्रं पक्षिरूपिणम् ।प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम् ॥२६॥इत्युक्त्वा पुनरप्येनमपृच्छत् स द्विजोत्तमः ।आहारः कस्तवार्थाय उपकल्प्यो भवेन्मया ।स चाह नरमांसेन तृप्तिर्भवति मे परा ॥२७॥ऋषिरुवाचकौमारं ते व्यतिक्रान्तमतीतं यौवनञ्च ते ।वयसः परिणामस्ते वर्तते नूनमण्डज ॥२८॥यस्मिन् नराणां सर्वेषामशेषेच्छा निवर्तते ।स कस्माद् वृद्धभावेऽपि सुनृशंसात्मको भवान् ॥२९॥क्व मानुषस्य पिशितं क्व वयश्चरमं तव ।सर्वथा दुष्टभावानां प्रशमो नोपपद्यते ॥३०॥अथवा किं मयैतेन प्रोक्तेनास्ति प्रयोजनम् ।प्रतिश्रुत्य सदा देयमिति नो भावितं मनः ॥३१॥इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः ।शीघ्रमस्मान् समाहूय गुणतोऽनुप्रशस्य च ॥३२॥उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् ।विनयावनतान् सर्वान् भक्तियुक्तान् कृताञ्जलीन् ॥३३॥कृतात्मानो द्विजश्रेष्ठा ऋणैर्युक्ता मया सह ।जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः ॥३४॥गुरुः पूज्यो यदि मतो भवतां परमः पिता ।ततः कुरुत मे वाक्यं निर्व्यलीकेन चेतसा ॥३५॥तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः ।यद्वक्ष्यति भवांस्तद्वै कृतमेवावधार्यताम् ॥३६॥ऋषिरुवाचमामेष शरणं प्राप्तो विहगः क्षुत्तृषान्वितः ।युष्मन्मांसेन येनास्य क्षणं तृप्तिर्भवेत वै ॥३७॥तृष्णाक्षयञ्च रक्तेन तथा शीघ्नं विधीयताम् ।ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः ।कष्टं कष्टमिति प्रोच्य नैतत् कुर्मेति चाब्रुवन् ॥३८॥कथं परशरीरस्य हेतोर्देहं स्वकं बुधः ।विनाशयेद् घातयेद्वा यथा ह्यात्मा तथा सुतः ॥३९॥पितृ-देव-मनुष्याणां यान्युक्तानि ऋणानि वै ।तान्यपाकुरुते पुत्रो न शरीरप्रदः सुतः ॥४०॥तस्मान्नैतत् करिष्यामो नी चीर्णं यत् पुरातनैः ।जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च ॥४१॥मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा ।आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः ॥४२॥इत्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् ।प्रोवाच पुनरप्यस्मान् निर्दहन्निव लोचनैः ॥४३॥प्रतिज्ञातं वचो मह्यं यस्मान्नैतत् करिष्यथ ।तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ ॥४४॥एवमुक्त्वा तदा सोऽस्मास्तं विहङ्गमथाब्रवीत् ।अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चौर्ध्वदेहिकम् ॥४५॥भक्षयस्व सुविश्रब्धौ मामत्र द्विजसत्तम ।आहारीकृतमेतत् ते मया देहमिहात्मनः ॥४६॥एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते ।यावत् पतगजात्यग्रय स्वसत्यपरिपालनम् ॥४७॥न यज्ञैर्दक्षिणावद्भिस्तत् पुण्यं प्राप्यते महत् ।कर्मणान्येन वा विप्रैर्यत् सत्यपरिपालनात् ॥४८॥इत्यृषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः ।प्रत्युवाच मुनिं शक्रः पक्षिरूपधरस्तदा ॥४९॥योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् ।जीवज्जन्तुं हि विप्रेन्द्र न भक्षामि कदाचन ॥५०॥तस्मैतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः ।तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याह स्वदेहभृत् ॥५१॥भो भो विप्रेन्द्र बुध्यस्व बुद्ध्या बोध्यं बुधात्मक ।जिज्ञासार्थं मयायं ते अपराधः कृतोऽनघ ॥५२॥तत् क्षमस्वामलमते का चेच्छा क्रियतां तव ।पालनात् सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि ॥५३॥अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति ।तपस्यथ तथा धर्मे न ते विघ्नो भविष्यति ॥५४॥इत्युक्त्वा तु गते शक्रे पिता कोपसमन्वितः ।प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः ॥५५॥बिभ्यतां मरणात् तात त्वमस्माकं महामते ।क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः ॥५६॥त्वगस्थिमांससङ्घाते पूयशोणितपूरिते ।कर्तव्या न रतिर्यत्र तत्रास्माकमियं रतिः ॥५७॥श्रूयतां च महाभाग यथा लोको विमुह्यति ।कामक्रोधादिभिर्देषैरवशः प्रबलारिभिः ॥५८॥प्रज्ञाप्राकारसंयुक्तमस्थिस्थूणं परं महत् ।चर्मभित्तिमहारोधं मांसशोणितलेपनम् ॥५९॥नवद्वारं महायामं सर्वतः स्नायुवेष्टितम् ।नृपश्च पुरुषस्तत्र चेतनावानवस्थितः ॥६०॥मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ ।यतेते वैरनाशाय तावुभावितरेतरम् ॥६१॥नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः ।कामः क्रोधस्तथा लोभो मोहश्चान्यस्तथा रिपुः ॥६२॥यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति ।सदा सुस्थबलश्चैव निरातङ्कश्च जायते ॥६३॥जातानुरागो भवति शत्रुभिर्नाभिभूयते ॥६४॥यदा तु सर्वद्वाराणि विवृतानि स मुञ्चति ।रागो नाम तदा शत्रुर्नेत्रादिद्वारमृच्छति ॥६५॥सर्वव्यापी महायामः पञ्चद्वारप्रवेशनः ।तस्यानुमार्गं विशति तद्वै घोरं रिपुत्रयम् ॥६६॥प्रविश्याथ स वै तत्र द्वारैरिन्द्रियसंज्ञकैः ।रागः शंश्लेषमायाति मनसा च सहेतरैः ॥६७॥इन्द्रियाणि मनश्चैव वशे कृत्वा दुरासदः ।द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ ॥६८॥मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणात् ।अमात्यरहितस्तत्र पौरवर्गोज्झितस्तथा ॥६९॥रिपुभिर्लब्धविवरः स नृपो नाशमृच्छति ।एवं रागस्तथा मोहो लोभः क्रोधस्तथैव च ॥७०॥प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः ।रागात्तु क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते ॥७१॥लोभाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः ।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥७२॥एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् ।जीविते च सलोभानां प्रसादं कुरु सत्तम ॥७३॥योऽयं शापो भगवता दत्तः स न भवेत् तथा ।न तामसीं गतिं कष्टां व्रजेम मुनिसत्तम ॥७४॥यन्मयोक्तं न तन्मिथ्या भविष्यति कदाचन ।न मे वागनृतं प्राह यावदद्येति पुत्रकाः ॥७५॥दैवमत्र परं मन्ये धिक् पौरुषमनर्थकम् ।अकार्यं कारितो येन बलादहमचिन्तितम् ॥७६॥यस्माच्च युष्माभिरहं प्रणिपत्य प्रसादितः ।तस्मात् तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथ ॥७७॥ज्ञानदर्शितमार्गाश्च निर्धूतक्लेशकल्मषाः ।मत्प्रसादादसन्दिग्धाः परां सिद्धिमवाप्स्यथ ॥७८॥एवं शप्ताः स्म भगवन् पित्रा दैववशात् पुरा ।ततः कालेन महता योन्यन्तरमुपागताः ॥७९॥जाताश्च रणमध्ये वै भवता परिपालिताः ।वयमित्थं द्विजश्रेष्ठ खगत्वं समुपागताः ।नास्त्यसाविह संसारे यो न दिष्टेन बाध्यते ॥८०॥मार्कण्डेय उवाचइति तेषां वचः श्रुत्वा शमीको भगवान् मुनिः ।प्रत्युवाच महाभागः समीपस्थायिनो द्विजान् ॥८१॥पूर्वमेव मया प्रोक्तं भवतां सन्निधाविदम् ।सामान्यपक्षिणो नैते केऽप्येते द्विजसत्तमाः ।ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥८२॥ततः प्रीतिमता तेन तेऽनुज्ञाता महात्मना ।जग्मुः शिखरिणां श्रेष्टं विन्ध्यं द्रुमलतायुतम् ॥८३॥यावदद्य स्थितास्तस्मिन्नचले धर्मपक्षिणः ।तपः स्वाध्यायनिरताः समाधौ कृतनिश्चयाः ॥८४॥इति मुनिवरलब्धसत्क्रियास्ते मुनितनया विहगत्वमभ्युपेताः ।गिरिवरगहनेऽतिपुण्यतोये यतमनसो निवसन्ति विन्ध्यपृष्ठे ॥८५॥इति श्रीमार्कण्डेयपुराणे विन्ध्यप्राप्तिर्नाम तृतीयोऽध्यायः N/A References : N/A Last Updated : March 13, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP