संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| एकविंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - एकविंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत एकविंशोऽध्यायः Translation - भाषांतर पितोवाचगालवेन समं गत्वा नृपपुत्रेण तेन यत् ।कृतं तत् कथ्यतां पुत्रौ विचित्रा युवयोः कथा ॥१॥पुत्रावूचतुःस गालवाश्रमे रम्ये तिष्ठन् भूपालनन्दनः ।सर्वविघ्रोपशमनं चकार ब्रह्मवादिनाम् ॥२॥वीरं कुवलयाश्वं तं वसन्तं गालवाश्रमे ।मदावलेपोपहतो नाजानाद्दानवाधमः ॥३॥ततस्तं गालवं विप्रं सन्ध्योपासनतत्परम् ।शौकरं रूपमास्थाय प्रधर्षयितुमागतम् ॥४॥मुनिशिष्यैरथोत्क्रुष्टे शीघ्रमारुह्य तं हयम् ।अन्वधावद्वराहं तं नृपपुत्रः शरासनी ॥५॥आजघान च बाणेन चन्द्रार्धाकारवर्चसा ।आकृष्य बलवच्चापं चारुचित्रोपशोभितम् ॥६॥नाराचाभिहतः शीघ्रमात्मत्राणपरो मृगः ।गिरिपादपसम्बाधां सोऽन्वक्रामन्महाटवीम् ॥७॥तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः ।चोदितो राजपुत्रेण पितुरादेशकारिणा ॥८॥अतिक्रम्याथ वेगेन योजनानि सहस्रशः ।धरण्यां विवृते गर्ते निपपात लघुक्रमः ॥९॥तस्यानन्तरमेवाशु सोऽप्यश्वी नृपतेः सुतः ।निपपात महागर्ते तिमिरौघसमावृते ॥१०॥ततो नादृश्यत मृगः स तस्मिन् राजसूनुना ।प्रकाशञ्च स पातालमपश्यत् तत्र नापि नम् ॥११॥ततोऽपश्यत् स सौवर्ण-प्रासादशतसंकुलम् ।पुरन्दरपुरप्रख्यं पुरं प्राकारशोभितम् ॥१२॥तत् प्रविश्य स नापश्यत् तत्र कञ्चिन्नरं पुरे ।भ्रमता च ततो दृष्टा तत्र योषित् त्वरान्विता ॥१३॥सा पृष्टा तेन तन्वङ्गी प्रस्थिता केन कस्य वा ।नोवाच किञ्चित् प्रासादमारुरोह च भामिनी ॥१४॥सोऽप्यश्वमेकतो बद्ध्वा तामेवानुससार वै ।विस्मयोत्फुल्लनयनो निः शङ्को नृपतेः सुतः ॥१५॥ततोऽपश्यत् सुविस्तीर्णे पर्यङ्के सर्वकाञ्चने ।निषण्णां कन्यकामेकां कामयुक्तां रतीमिव ॥१६॥विस्पष्टेन्दुमुखीं सुभ्रूं पीनश्रोणिपयोधराम् ।बिम्बाधरोष्ठीं नन्वङ्गीं नीलोत्पलविलोचनाम् ॥१७॥रक्ततुङ्गनखीं श्यामां मृद्वीं ताम्रकराङ्घ्रिकाम् ।करभोरुं सुदशनां नीलसूक्ष्मस्थिरालकाम् ॥१८॥तां दृष्ट्वा चारुसर्वाङ्गीमनङ्गाङ्गलतामिव ।सोऽमन्यत् पार्थिवसुतस्तां रसातलदेवताम् ॥१९॥सा च दृष्ट्वैव तं बाला नीलकुञ्चितमूर्धजम् ।पीनोरुस्कन्धबाहुं तममंस्त मदनं शुभा ॥२०॥उत्तस्थौ च महाभागा चित्तक्षोभमवाप्य सा ।लज्जाविस्मयदैन्यानां सद्यस्तन्वी वशं गता ॥२१॥कोऽयं देवो नु यक्षो वा गन्धर्वो वोरगोऽपि वा ।विद्याधरो वा सम्प्राप्तः कृतपुण्यरतिर्नरः ॥२२॥एवं विचिन्त्य वहुधा निश्वस्य च महीतले ।उपविश्य ततो भेजे सा मूर्च्छां मदिरक्षणा ॥२३॥सोऽपि कामशराघातमवाप्य नृपतेः सुतः ।तां समाश्वासयामास न भेतव्यमिति ब्रुवन् ॥२४॥सा च स्त्री या तदा दृष्टा पूर्वं तेन महात्मना ।तालवृन्तमुपादाय पर्यवीजयदाकुला ॥२५॥समाश्वास्य तदा पृष्टा तेन संमोहकारणम् ।किञ्चिल्लज्जान्विता बाला तस्याः सख्युर्न्यवेदयत् ॥२६॥सा चास्मै कथयामास नृपपुत्राय विस्तरात् ।मोहस्य कारणं सर्वं तद्दर्शनसमुद्भवम् ।यथा तया समाख्यातं तद्वृत्तान्तञ्च भामिनी ॥२७॥स्त्र्युवाचविश्वावसुरिति ख्यातो दिवि गन्धर्वराट् प्रभो ।तस्येयमात्मजा सुभ्रूर्नाम्नरा ख्याता मदालसा ॥२८॥वज्रकेतोः सुतश्चोग्रो दानवोऽरिविदारणः ।पातालकेतुर्विख्यातः पातालान्तरसंश्रयः ॥२९॥तेनेयमुद्यानगता कृत्वा मायां तमोमयीम् ।अपहृत्य मयां हीना बाला नीता दुरात्मना ॥३०॥आगामिन्यां त्रयोदश्यामुद्वक्ष्यति किलासुरः ।स तु नार्हति चार्वङ्गीं शूद्रो वेदश्रुतीमिव ॥३१॥अतीते च दिने बालामात्मव्यापदनोद्यताम् ।सुरभिः प्राह नायं त्वं प्राप्स्यते दानवाधमः ॥३२॥मर्त्यलोकमनुप्राप्तं य एनं छेत्स्यते शरैः ।सते भर्ता महाभागे अचिरेण भविष्यति ॥३३॥अहं चास्याः सखी नाम्नरा कुण्डलेति मनस्विनी ।सुता विन्ध्यवतः पत्नी वीरपुष्करमालिनः ॥३४॥हते भर्तरि शुम्भेन तीर्थात् तीर्थमनुव्रता ।चरामि दिव्यया गत्या परलोकार्थमुद्यता ॥३५॥पातालकेतुर्दुष्टात्मा वाराहं वपुरास्थितः ।केनापि विद्धो बाणेन मुनीनां त्राणकारणात् ॥३६॥तञ्चाहं तत्त्वतोऽन्विष्य त्वरिता समुपागता ।सत्यमेव स केनापि ताडितो दानवाधमः ॥३७॥इयञ्च मूर्च्छामगमत् कारणं यत् शृणुष्व तत् ।त्वयि प्रीतिमती बाला दर्शनादेव मानद ॥३८॥देवपुत्रोपमे चारु-वाक्यादिगुणशालिनि ।भर्या चान्यस्य विहिता येन विद्धः स दानवः ॥३९॥एतस्मात् कारणान्मोहं महान्तमियमागता ।यावज्जीवं च तन्वङ्गी दुः खमेवोपभोक्ष्यते ॥४०॥त्वय्यस्या हृदयं रागि भर्ता चान्यो भविष्यति ।यावज्जीवमतो दुः खं सुरभ्या नान्यथा वचः ॥४१॥अहं त्वस्याः प्रभी प्रीत्या दुः खितात्र समागता ।यतो विशेषो नैवास्ति स्वसखी-निजदेहयोः ॥४२॥यद्येषाभिमतं वीरं पतिमाप्नोति शोभना ।ततस्तपस्त्वहं कुर्यां निर्व्यलीकेन चेतसा ॥४३॥त्वन्तु को वा किमर्थं वा सम्प्राप्तोऽत्र महामते ।देवो दैत्यो नु गन्धर्वः पन्नगः किन्नरोऽपि वा ॥४४॥न ह्यत्र मानुषगतिर्न चेदृङ्मानुषं वपुः ।तत्त्वमाख्याहि कथितं यथैवावितथं मया ॥४५॥कुवलयाश्व उवाचयन्मां पृच्छसि धर्मज्ञे कस्त्वं किं वा समागतः ।तच्छृणुष्वामलप्रज्ञे कथयाम्यादितस्तव ॥४६॥राज्ञः शत्रुजितः पुत्रः पित्रा सम्प्रेषितः शुभे ।मुनिरक्षणमुद्दिश्य गालवाश्रममागतः ॥४७॥कुर्वतो मम रक्षाञ्च मुनीनां धर्मचारिणाम् ।विघ्नार्थमागतः कोषऽपि शौकरं रूपमास्थितः ॥४८॥मया स विद्धो बाणेन चन्द्रार्धाकारवर्च्चसा ।अपक्रान्तोऽतिवेगेन तमस्म्यनुगतो हयी ॥४९॥पपात सहसा गर्ते सक्रीडोऽश्वश्च मामकः ।सोऽहमश्वं समारूढस्तमस्येकः परिभ्रमन् ॥५०॥प्रकाशमासादितवान् दृष्टा च भवती मया ।पृष्टया च न मे किञ्चिद्भवत्या दत्तमुत्तरम् ॥५१॥त्वाञ्चैवानुप्रविष्टोऽहमिमं प्रासादमुत्तमम् ।इत्येतत् कथितं सत्यं न देवोऽहं न दानवः ॥५२॥न पन्नगो न गन्धर्वः किन्नरो वा शुचिस्मिते ।समस्ता पूज्यपक्षो वै देवाद्या मम कुण्डले ।मनुष्योऽस्मि विशङ्का ते न कर्तव्यात्र कर्हिचित् ॥५३॥पुत्रावूचतुःततः प्रहृष्टा सा कन्या सखीवदनमुत्तमम् ।लज्जाजडं वीक्षमाणा किञ्चिन्नोवाच भामिनी ॥५४॥सा सखी पुनरप्येनां प्रहृष्टा प्रत्युवाच ह ।यथावत् कथितं तेन सुरभ्या वचनानुगे ॥५५॥कुण्डलोवाचवीर सत्यमसन्दिग्धं भवताभिहितं वचः ।नान्यत्र हृदयन्त्वस्या दृष्ट्वा स्थैर्यं प्रयास्यति ॥५६॥चन्द्रमेवाधिका कान्तिः समुपैति रविं प्रभा ।भूतिर्धन्यं धृतिर्धोरं क्षान्तिरभ्येति चोत्तमम् ॥५७॥त्वयैव विद्धोऽसन्दिग्धं स पापो दानवाधमः ।सुरभिः सा गवां माता कथं मिथ्या वदिष्यति ॥५८॥तद्धन्येयं सभाग्या च त्वत्सम्बन्धं समेत्य वै ।कुरुष्व वीर यत् कार्यं विधिनैव समाहितम् ॥५९॥पुत्रावूचतुःपरवानहमित्याह राजपुत्रः सतां पितुः ।सा च तं चिन्तयामास तुम्बुरुं तत्कुले गुरुम् ॥६०॥स चापि तत्क्षणात् प्राप्तः प्रगृहीतसमित्कुशः ।मदालसायाः सम्प्रीत्या कुण्डलागौरवेण च ॥६१॥प्रज्वाल्य पावकं हुत्वा मन्त्रवित् कृतमङ्गलाम् ।वैवाहिकविधिं कन्यां प्रतिपाद्य यथागतम् ॥६२॥जगाम तपसे धीमान् स्वाश्रमपदं तदा ।सा चाह तां सखीं बालां कृतार्थास्मि वरानने ॥६३॥संयुक्ताममुना दृष्ट्वा त्वामहं रूपशालिनीम् ।तमस्तप्स्येऽहमतुलं निर्व्यलीकेन चेतसा ॥६४॥तीर्थाम्बुधूतपापा च भवित्री नेदृशी यथा ।तञ्चाह राजपुत्रं सा प्रश्रयावनता तदा ।गन्तुकामा निजसखी-स्नेहविक्लवभाषिणी ॥६५॥कुण्डलोवाचपुंभिरप्यमितप्रज्ञ नोपदेशो भवद्विधे ।दातव्यः किमुत स्त्रीभिरतो नोपदिशामि ते ॥६६॥किन्त्वस्यास्तनुमध्यायाः स्नेहाकृष्टेन चेतसा ।त्वया विश्रम्भिता चास्मि स्मारयाम्यरिसूदन ॥६७॥भर्तव्या रक्षितव्या च भार्या हि पतिना सदा ।धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥६८॥यदा भार्या च भर्ता च परस्परवशानुगौ ।तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥६९॥कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो ।प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥७०॥तथैव भर्तारमृते भार्या धर्मादिसाधने ।न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥७१॥देवाता-पितृ-भृत्यानामतिथीनाञ्च पूजनम् ।न पुंभिः शक्यते कर्तुमृते भार्यां नृपात्मज ॥७२॥प्राप्तोऽपि चार्थो मनुजैरानीतोऽपी निजं गृहम् ।क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा ॥७३॥कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥७४॥पितॄन् पुत्रैस्तथैवान्न-साधनैरतिथीन् नरः ।पूजाभिरमरांस्तद्वत् साध्वीं भार्यां नरोऽवति ॥७५॥स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः ।नैव तस्मात् त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥७६॥एतन्मयोक्तं युवयोर्गच्छामि च यथेप्सितम् ।वर्ध त्वमनया सार्धं धन-पुत्र-सुखायुषा ॥७७॥पुत्रावूचतुःइत्युक्त्वा सा परिष्वज्य स्वसखीं तं नमस्य च ।जगाम दिव्यया गत्या यथाभिप्रेतमात्मनः ॥७८॥सोऽपि शत्रुजितः पुत्रस्तामारोप्य तुरङ्गमम् ।निर्गन्तुकामः पातालाद्विज्ञातो दनुसम्भवैः ॥७९॥ततस्तैः सहसोत्क्रुष्टं ह्रियते ह्रियतेऽति वै ।कन्यारत्नं यदानीतं दिवः पातालकेतुना ॥८०॥ततः परिघ-निस्त्रिंश-गदा-शूल-शरायुधम् ।दानवानां बलं प्राप्तं सह पातालकेतुना ॥८१॥तिष्ठ तिष्ठेति जल्पन्तस्ते तदा दानवोत्तमाः ।शरवर्षैस्तथा शूलैर्ववर्षुर्नृपनन्दनम् ॥८२॥स च शत्रुजितः पुत्रस्तदस्त्राण्यतिवीर्यवान् ।चिच्छेद शरजालेन प्रहसन्निव लीलया ॥८३॥क्षणेन पातालतलमसिखक्त्यृष्टिशायकैः ।छिन्नैः सञ्छन्नमभवदृतध्वजशरोत्करैः ॥८४॥ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दानवान् ।तेन ते दानवाः सर्वे सह पातालकेतुना ॥८५॥ज्वालामालातितीव्रेण स्फुटदस्थिचयाः कृताः ।निर्दग्धाः कापिलं तेजः समासाद्येव सागराः ॥८६॥ततः स राजपुत्रोऽश्वी निहत्यासुरसत्तमान् ।स्त्रीरत्नेन समं तेन समागच्छत् पितुः पुरम् ॥८७॥प्रणिपत्य च तत् सर्वं स तु पित्रे न्यवेदयत् ।पातालगमनञ्चैव कुण्डलायाश्च दर्शनम् ॥८८॥तद्वन्मदालसाप्राप्तिं दानवैश्चापि सङ्गरम् ।वधञ्च तेषामस्त्रेण पुनरागमनं तथा ॥८९॥इति श्रुत्वा पिता तस्य चरितं चारुचेतसः ।प्रीतिमानभवच्चेदं परिष्वज्याह चात्मजम् ॥९०॥सत्पात्रेण त्वया पुत्र तारितोऽहं महात्मना ।भयेभ्यो मुनयस्त्राता येन सद्धर्मचारिणः ॥९१॥मत्पूर्वैः ख्यातिमानीतं मया विस्तारितं पुनः ।पराक्रमवता वीर त्वया तद्वहुलीकृतम् ॥९२॥यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा ।तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥९३॥तद्वीर्यादधिकं यस्तु पुनरन्यत् स्वशक्तितः ।निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥९४॥यः पिता समुपात्तानि धनवीर्ययशांसि वै ।न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम् ॥९५॥तन्मया ब्राह्मणत्राणं कृतमासीद्यथा त्वया ।पातालगमनं यच्च यच्चासुरविनाशनम् ॥९६॥एतदप्यधिकं वत्स तेन त्वं पुरुषोत्तमः ।तद्धन्योऽस्म्य बाल त्वमहमेव गुणाधिकम् ॥९७॥त्वां पुत्रमीदृशं प्राप्य श्लाघ्यः पुण्यवतामपि ।न स पुत्रकृतां प्रीतिं मन्ये प्राप्नोति मानवः ॥९८॥पुत्रेण नातिशयितो यः प्रज्ञादानविक्रमैः ।धिग्जन्म तस्य यः पित्रा लोके विज्ञायते नरः ॥९९॥यः पुत्रात् ख्यातिमभ्येति तस्य जन्म सुजन्मनः ।आत्मना ज्ञायते धन्यो मध्यः पितृपितामहैः ॥१००॥मातृपक्षेण मात्रा च ख्यातिमेति नराधमः ।तत् पुत्र धनवीर्यैस्त्वं विवर्धस्व सुखेन च ॥१०१॥घन्धर्वतनया चेयं मा त्वया वै वियुज्यताम् ।इति पित्रा बहुविधं प्रियमुक्तः पुनः पुनः ॥१०२॥परिष्वज्य स्वमावासं सभार्यः स विसर्जितः ।स तया भार्याया सार्धं रेमे तत्र पितुः पुरे ॥१०३॥अन्येषु च तथोद्यान-वन-पर्वतसानुषु ।श्वश्रू-श्वसुरयोः पादौ प्रणिपत्य च सा शुभा ।प्रातः प्रातस्ततस्तेन सह रेमे सुमध्यमा ॥१०४॥इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसापरिणयनं नामैकविंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP