संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| ऊनत्रिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - ऊनत्रिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत ऊनत्रिंशोऽध्यायः Translation - भाषांतर अलर्क उवाचयत् कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्तताम् ।बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रितिः ॥१॥उपकाराय यन्नृणां यच्च वर्ज्यं गृहे सता ।यथा च क्रियते तन्मे यथावत् पृच्छतो वद ॥२॥मदालसोवाचवत्स ! गार्हस्थ्यमादाय नरः सर्वमिदं जगत् ।पुष्णाति तेन लोकांश्च स जयत्यभिवाञ्छितान् ॥३॥पितरो मुनयो देवा भूतानि मनुजास्तथा ।कृमिकीटपतङ्गाश्च वयांसि पशवोऽसुराः ॥४॥गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च ।मुखं चास्य निरीक्षन्ते अपि नो दास्यतीति वै ॥५॥सर्वस्याधारभूतेयं वत्स ! धेनुस्त्रयीमयी ।यस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता ॥६॥ऋक्पृष्ठासौ यजुर्मध्या सामवक्त्रशिरोधरा ।इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ॥७॥शान्तिपुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ।आजीव्यमाना जगतां साक्षया नापचीयते ॥८॥स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ! ।हन्तकारस्तथा चान्यस्तस्याःस्तनचतुष्टयम् ॥९॥स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयम् ।मुनयश्च वषट्कारं देवभूतसुरेतराः ॥१०॥हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् ।एवमाप्याययत्येषा वत्स ! धेनुस्त्रयीमयी ॥११॥तेषामुच्छेदकर्ता च यो नरोऽत्यन्तपापकृत् ।स तमस्यान्धतामिस्त्रे तामिस्त्रे च निमज्जति ॥१२॥यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः ।पाययत्युचिते काले स स्वर्गायोपपद्यते ॥१३॥तस्मात् पुत्र ! मनुष्येण देवर्षिपितृमानवाः ।भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ॥१४॥तस्मात् स्त्रातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ।प्रजापतेस्तथैवादिभः काले कुर्यात् समाहितः ॥१५॥सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ।ततोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा ॥१६॥ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ।धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत् ॥१७॥प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ।प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम् ॥१८॥दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु ।अर्यम्णेऽथ बहिर्दद्याद् गृहेभ्यश्च समन्ततः ॥१९॥नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः ॥२०॥गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः ।ततस्तोयमुपादाय तेष्वेवाचमनाय वै ॥२१॥स्थानेषु निक्षिपेत् प्राज्ञस्तास्ता उद्दिश्य देवताः ।एवं गृहबलिं कृत्वा गृहे हृहपतिः शुचिः ॥२२॥आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् ।श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि ॥२३॥वैश्वदेवं हि नामैतत् सायं प्रातरुदाहृतम् ।आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम् ॥२४॥मुहूर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिथिर्भवेत् ।अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च ॥२५॥सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा ।न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम् ॥२६॥अज्ञातकुलनामानं तत्कालसमुपस्थितम् ।बुभुक्षुमागतं श्रान्तं याचमानमकिञ्चनम् ॥२७॥ब्राह्मणं प्राहुरतिथिं स पूज्यः शक्तितो बुधैः ।न पृच्छेद् गोत्रचरणं स्वाध्यायञ्चापि पण्डितः ॥२८॥शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥२९॥तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येद् गृहाश्रमी ।तस्माद् अदत्त्वा यो भुङ्क्ते स्वयं किल्विषभुङ्नरः ॥३०॥स पापं केवलं भुङ्क्ते पुरीषञ्चान्यजन्मनि ।अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ॥३१॥स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।अप्यम्बुशाकदानेन यद्वाप्यश्नाति स स्वयम् ॥३२॥पूजयेत् तु नरः शक्त्या तेनैवातिथिमादरात् ।कुर्याच्चाहरहः श्राद्धमन्नाद्येनोदकेन च ॥३३॥पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा ।अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेत् ॥३४॥भिक्षाञ्च याचतां दद्यात् परिव्राड्ब्रह्मचारिणाम् ।ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् ॥३५॥अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ।भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ॥३६॥अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ।पूजयित्वातिथीनिष्टान् ज्ञातीन् बन्धूंस्तथार्थिनः ॥३७॥विकलान् बालवृद्धांश्च भोजयेच्चातुरांस्तथा ।वाञ्छते क्षुत्परीतात्मा यच्चान्योऽन्नमकिञ्चनः ॥३८॥कुटुम्बिना भोजनीयः समर्थे विभवे सति ।श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ॥३९॥सीदता यद् कृतं तेन तत् पापं स समश्नुते ।सायं चैव विधिः कार्यः सूर्योढं तत्र चातिथिम् ॥४०॥पूजयीत यथाशक्ति शयनासनभोजनैः ।एवमुद्दवहतस्तात ! गार्हस्थ्यं भारमाहितम् ॥४१॥स्कन्धे विधाता देवाश्च पितरश्च महर्षयः ।श्रेयोऽभिवर्षिणः सर्वे तथैवातिथिबान्धवाः ॥४२॥पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः ।गाथाश्चात्र महाभाग ! स्वयमत्रिरगायत ॥४३॥ता शृणुष्व महाभाग ! गृहस्थाश्रमसंस्थिताः ।देवान् पितॄंश्चातिथींश्च तद्वत् सम्पूज्य बान्धवान् ॥४४॥जामयश्च गुरुञ्चैव गृहस्थो विभवे सति ।श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि ॥४५॥वैश्वदेवं हि नामैतत् कुर्यात् सायं तथा दिने ।मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् ।न च तत् स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥४६॥इति श्रीमार्कण्डेयपुराणे मदालसोपदेशो नामोनत्रिंशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP