संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुर्विंशत्यधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - चतुर्विंशत्यधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मरुत्तपुत्रोत्पत्तिवर्णनम्
मार्कण्डेय उवाच
इति तस्या वचः श्रुत्वा स्मृत्वा पितृवचः शुभम् ।
किमिच्छके प्रतिज्ञाते यदुक्तं तेन भूभृता ॥१॥
प्रत्युवाच स तां कन्यामविक्षिन्नृपतेः सुतः ।
सानुरागमनाः कन्यां त्यक्तभोगां च तत्कृते ॥२॥
यदाहं त्यक्तवांस्तन्वीं त्वामरातिपराजितः ।
विजित्य शत्रून्सम्प्राप्ता त्वं मयात्र करोमि किम् ॥३॥
कन्योवाच
मम पाणिं गृहाण त्वं रमणीयेऽत्र कानने ।
सकामायाः सकामेन सङ्गमो गुणवान्भवेत् ॥४॥
राजपुत्र उवाच
एवं भवतु भद्रं ते विधिरेवात्र कारणम् ।
अन्यथा कथमन्यत्र त्वामहं च समागतः ॥५॥
मार्कण्डेय उवाच
एतस्मिन्नन्तरे प्राप्तो गन्धर्वतनयो मुने ।
वराप्सरोभिः सहितो गन्धर्वैरपरैर्वृतः ॥६॥
गन्धर्व उवाच
राजपुत्र सुतेयं मे भामिनी नाम मानिनी ।
अभिशापादगस्त्यस्य विशालतनयाऽभवत् ॥७॥
बालभावेन योऽगस्त्यः कोपितः क्रीडमानया ।
ततस्तेन तदा शप्ता मानुषी त्वं भविष्यसि ॥८॥
प्रसादितः स चास्माभिर्बालेयमविवेकिनी ।
तवापराद्धा विप्रर्षे प्रसादः क्रियतामिति ॥९॥
प्रसाद्यमानः सोऽस्माभिरिदमाह महामुनिः ।
बालेति मत्वा शापोऽल्पो दत्तोऽस्या नान्यथैव तत् ॥१०॥
इति शापादगस्त्यस्य विशालभवने शुभा ।
जातेयं मत्सुता सुभ्रूर्भामिनी नाम नामतः ॥११॥
तदस्याहं कृते प्राप्तो गृहाणेमां नृपात्मजाम् ।
ममात्मजा सुतस्तेऽत्र चक्रवर्ती भविष्यति ॥१२॥
मार्कण्डेय उवाच
तथेत्युक्त्वेति तस्याश्च स पाणिं पार्थिवात्मजः ।
जग्राह विधिवद्धोमं चक्रे तत्र च तुम्बुरुः ॥१३॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
पुष्पाणि ससृजुर्मेघा देववाद्यानि सस्वनुः ॥१४॥
विवाहे राजपुत्रस्य तया तत्र समेयुषः ।
समस्तवसुधात्राणकर्तृकारणभूतया ॥१५॥
ततो गन्धर्वलोकं ते सह तेन महात्मना ।
निःशेषेण ययुः सा च स राजसुतो मुने ॥१६॥
भामिन्या मुमुदे सार्द्धमविक्षिन्नृपनन्दनः ।
सा च तेन समं तत्र भोगसम्पत्समन्विता ॥१७॥
कदाचिदतिरम्येऽसौ नगरोपवने तया ।
विक्रीडति समं तन्व्या कदाचिदुपपर्वते ॥१८॥
कदाचित्पुलिने नद्या हंससारसशोभिते ।
कदाचिद्भवनस्यान्ते प्रासादे चातिशोभने ॥१९॥
विहारदेशेष्वन्येषु रमणीयेष्वहर्निशम् ।
स रेमे सहितस्तन्व्या सा च तेन महात्मना ॥२०॥
भक्ष्यानुलेपनं वस्त्रं स्रक्पानादिकमुत्तमम् ।
उपाजह्रुस्तयोस्तत्र मुनिगन्धर्वकिन्नराः ॥२१॥
तया च रमतस्तस्य भामिन्या सह दुर्लभे ।
गन्धर्वलोके वीरस्य पुत्रं सा सुषुवे शुभा ॥२२॥
तस्मिञ्जाते महावीर्ये गन्धर्वाणां महोत्सवः ।
बभूव मनुजव्याघ्रे तेन कार्यमवेक्षताम् ॥२३॥
जगुः केचित्तथैवान्ये मृदङ्गपटहानकान् ।
अवादयन्त चैवान्ये वेणुवीणादिकांस्तथा ॥२४॥
ननृतुश्च तथा तत्र बहवोऽप्सरसां गणाः ।
पुष्पवृष्टिमुचो मेघा जगर्जुर्मृदुनिस्वनाः ॥२५॥
तथा कोलाहले तस्मिन्वर्तमानेऽथ तुम्बुरुः ।
प्रणयेन स्मृतोऽभ्येत्य जातकर्माकरोन्मुनिः ॥२६॥
देवाः समाययुः सर्वे तथा देवर्षयोऽमलाः ।
पातालात्पन्नगेन्द्राश्च शेषवासुकितक्षकाः ॥२७॥
तथा देवासुराणां च ये प्रधाना द्विजोत्तम ।
यक्षाणां गुह्यकानां च वायवश्च तथाऽखिलाः ॥२८॥
तदाऽऽगतैरशेषर्षिदेवदानवपन्नगैः ।
मुनिभिश्चाकुलमभूद्गन्धर्वाणां महत्पुरम् ॥२९॥
ततः स तुम्बुरुः कृत्वा जातकर्मादिकाः क्रियाः ।
चक्रे स्वस्त्ययनं तस्य बालस्य स्तुतिपूर्वकम् ॥३०॥
चक्रवर्ती महावीर्यो महाबाहुर्महाबलः ।
महान्तं कालमीशित्वमशेषायाः क्षितेः कुरु ॥३१॥
इमे शक्रादयः सर्वे लोकपालस्तथर्षयः ।
स्वस्ति कुर्वन्तु त वीर वीर्यं चारिविनाशनम् ॥३२॥
मरुत्तव शिवायास्तु वाति पूर्वेण योऽरजाः ।
मरुत्ते विमलोऽक्षीणोऽवैषम्यायास्तु दक्षिणः ॥३३॥
पश्चिमस्ते मरुद्वीर्यमुत्तमं ते प्रयच्छतु ।
बलं यच्छतु चोत्कृष्टं मरुत्ते च तथोत्तरः ॥३४॥
इति स्वस्त्ययनस्यान्ते वागुवाचाशरीरिणी ।
मरुत्तवेति बहुशो यदिदं गुरुरब्रवीत् ॥३५॥
मरुत्त इति तेनायं भुवि ख्यातो भविष्यति ।
भुवि चास्य महीपाला यास्यन्याब्ज्ञावशा यतः ॥३६॥
एष सर्वक्षितीशानां वीरः स्थास्यति मूर्द्धनि ।
चक्रवर्त्ती महावीर्यः सप्तद्वीपवतीं महीम् ॥३७॥
आक्रम्य पृथिवीपालानयं भोक्ष्यत्यवारितः ।
प्रधानः पृथिवीशानां भविष्यत्येष यज्विनाम् ॥
आधिक्यं शौर्यवीर्येण भविष्यत्यस्य राजसु ॥३८॥
मार्कण्डेय उवाच
इत्याकर्ण्य वचः सर्वे केनाप्युक्तं दिवौकसाम् ।
तुतुषुर्विप्रगन्धर्वाश्चास्य माता तथा पिता ॥३९॥
इति श्री मार्कण्डेयषुराणेऽविक्षिच्चरितेऽविक्षितो मरुत्तपुत्रोत्पत्तिवर्णनं नाम चतुर्विंशत्यधिकशततमोऽध्यायः । १२४ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP