मार्कण्डेयपुराणम् - सप्ततितमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
मार्कण्डेय उवाच
अथारुरोह स्वरथं प्रणिपत्य महामुनिम् ।
तेनाख्यातं वनन्तच्च प्रययावुत्पलावतम् ॥१॥
यथाख्यातस्वरूपाञ्च भार्यां भर्त्रा द्विजस्य ताम् ।
भक्षयन्तीं ददार्शाथ श्रीफलानि नरेश्वरः ॥२॥
पप्रच्छ च कथं भद्रे ! त्वमेतद्वनमागता ।
स्फुटं ब्रवीहि वैशालेरपि भार्या सुशर्मणः ॥३॥
ब्राह्मण्युवाच
सुताहमतिरात्रस्य द्विजस्य वनवासिनः ।
पत्नी विशालपुत्रस्य यस्य नाम त्वयोदितम् ॥४॥
साहं हृता बलाकेन राक्षसेन दुरात्मना ।
प्रसुप्ता भवनस्यान्ते भ्रातृमातृवियोजिता ॥५॥
भस्मीभवतु तद्रक्षो येनास्म्येवं वियोजिता ।
मात्रा भ्रातृभिरन्यैश्च तिष्टाम्यत्र सुदुः खिता ॥६॥
अस्मिन् वनेऽतिगहने तेनानीयाहमुज्झिता ।
न वेद्मि कारणं कि तन्नोपभुङ्क्ते न खादति ॥७॥
राजोवाच
अपि तज्ज्ञायते रक्षस्त्वामुत्सृज्य क्व वै गतम् ।
अहं भर्त्रा तवैवात्र प्रेषितो द्विजनन्दिनि ॥८॥
ब्राह्मण्युवाच
अस्यैव काननस्यान्ते स तिष्ठति निशाचरः ।
प्रविश्य पश्यतु भवान् न बिभेति ततो यदि ॥९॥
मार्कण्डेय उवाच
प्रविवेश ततः सोऽथ तया वर्त्मनि दर्शिते ।
ददृशे परिवारेण समवेतञ्च राक्षसम् ॥१०॥
दृष्टमात्रे ततस्तस्मिन् त्वरमाणः स राक्षसः ।
दूरादेव महीं मूर्ध्ना स्पृशन् पादान्तिकं ययौ ॥११॥
राक्षस उवाच
ममात्रागच्छता गेहं प्रसादस्ते महान् कृतः ।
प्रशाधि किं करोम्येष वसामि विषये तव ॥१२॥
अर्घञ्चेमं प्रतीच्छ त्वं स्थीयताञ्चेदमासनम् ।
वयं भृत्या भवान् स्वामी दृढमाज्ञापयस्व माम् ॥१३॥
राजोवाच
कृतमेव त्वया सर्वं सर्वामेवातिथिक्रियाम् ।
किमर्थं ब्राह्मणवधूस्त्वयानीता निशाचर ॥१४॥
नेयं सुरूपा सन्त्यन्या भार्यार्थञ्चेद् हृता त्वया ।
भक्ष्यार्थं चेत्कथं नात्ता त्वयैतत्कथ्यतां मम ॥१५॥
राक्षस उवाच
न वयं मानुषाहारा अन्ये ते नृप ! राक्षसाः ।
सुकृतस्य फलं यत्तु तदश्नीमो वयं नृप ॥१६॥
स्वभावञ्च मनुष्याणां योषिताञ्च विमानिताः ।
मानिताश्च समश्नीमो न वयं जन्तुखादकाः ॥१७॥
यदस्माभिर्नृणां क्षान्तिर्भुक्ता क्रुध्यन्ति ते तदा ।
भुक्ते दुष्टे स्वभावे च गुणवन्तो भवन्ति च ॥१८॥
सन्ति नः प्रमदा भूप ! रूपेणाप्सरसां समाः ।
राक्षस्यस्तासु तिष्ठत्सु मानुषीषु रतिः कथम् ॥१९॥
राजोवाच
यद्येषा नोपभोगाय नाहाराय निशाचर ।
गृहं प्रविश्य विप्रस्य तत्किमेषा हृता त्वया ॥२०॥
राक्षस उवाच
मन्त्रवित् स द्विजश्रेष्ठो यज्ञे यज्ञे गतस्य मे ।
रक्षोघ्नमन्त्रपठनात् करोत्युच्चाटनं नृप ॥२१॥
वयं बुभुक्षितास्तस्य मन्त्रोच्चाटनकर्मणा ।
क्व यामः सर्वयज्ञेषु स ऋत्विग् भवति द्विजः ॥२२॥
ततोऽस्माभिरिदन्तस्य वैकल्यमुपपादितम् ।
पत्न्या विना पुमानिज्याकर्मयोग्यो न जायते ॥२३॥
मार्कण्डेय उवाच
वैकल्योच्चारणात्तस्य ब्राह्मणस्य महामतेः ।
ततः स राजातिभृशं विषण्णः समजायत ॥२४॥
वैकल्यमेवं विप्रस्य वदन्मामेव निन्दति ।
अनर्हमर्घस्य च मां सोऽप्याह मुनिसत्तमः ॥२५॥
वैकल्यं तस्य विप्रस्य राक्षसोऽप्याह मे यथा ।
अपत्नीकतया सोऽहं सङ्कटं महदास्थितः ॥२६॥
मार्कण्डेय उवाच
एवं चिन्तयतस्तस्य पुनरप्याह राक्षसः ।
प्रणामनम्रो राजानं बद्धाञ्जलिपुटो मुने ॥२७॥
नरेन्द्राज्ञाप्रदानेन प्रसादः क्रियतां मम ।
भृत्यस्य प्रणतस्य त्वं युष्मद्विषयवासिनः ॥२८॥
राजोवाच
स्वभावं वयमश्नीमस्त्वयोक्तं यन्निशाचर ।
तदर्थिनो वयं येन कार्येण शृणु तन्मम ॥२९॥
अस्यास्त्वयाद्य ब्राह्मण्या दौः शील्यमुपभुज्यताम् ।
येन त्वयात्तदौः शील्या तद्विनीता भवेदियम् ॥३०॥
नीयतां यस्य भार्येयं तस्य वेश्म निशाचर ।
अस्मिन् कृते कृतं सर्वं गृहमभ्यागतस्य मे ॥३१॥
मार्कण्डेय उवाच
ततः स राक्षसस्तस्याः प्रविश्यान्तः स्वमायया ।
भक्षयामास दौः शील्यं निजशक्त्या नृपाज्ञया ॥३२॥
दौः शील्येनातिरौद्रेण पत्नी तस्य द्विजन्मनः ।
तेन सा संपरित्यक्ता तमाह जगतीपतिम् ॥३३॥
स्वकर्मफलपाकेन भर्तुस्तस्य महात्मनः ।
वियोजिताहं तद्धेतुरयमासीन्निशाचरः ॥३४॥
नास्य दोषो न वा तस्य मम भर्तुर्महात्मनः ।
ममैव दोषो नान्यस्य सुकृतं ह्युपभुज्यते ॥३५॥
अन्यजन्मनि कस्यापि विप्रयोगः कृतो मया ।
सोऽयं ममाप्युपगतः को दोषोऽस्य महात्मनः ॥३६॥
राक्षस उवाच
प्रापयामि तवादेशादिमां भर्तृगृहं प्रभो ।
यदन्यत्करणीयन्ते तदाज्ञापय पार्थिव ॥३७॥
राजोवाच
अस्मिन् कृते कृतं सर्वं त्वया मे रजनीचर ।
आगन्तव्यञ्च ते वीर ! कार्यकाले स्मृतेन मे ॥३८॥
मार्कण्डेय उवाच
नथेत्युक्त्वा तु तद्रक्षस्तामादाय द्विजाङ्गनाम् ।
निन्ये भर्तृगृहं शुद्धां दौः शोल्यापगमात्तदा ॥३९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमोऽध्यायः
N/A
References : N/A
Last Updated : March 26, 2023
TOP