संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| चतुर्विशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - चतुर्विशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत चतुर्विशोऽध्यायः Translation - भाषांतर जड उवाचकृताहारं महात्मनामधिपं पवनाशिनाम् ।उपासाञ्चक्रिरे पुत्रौ भूपालतनयस्तथा ॥१॥कथाभिरनुरूपाभिः स महात्मा भुजङ्गमः ।प्रीतिं सञ्जनयामास पुत्रसख्युरुवाच च ॥२॥तव भद्र ! सुखं ब्रूहि गेहमभ्यागतस्य यत् ।कर्तव्यमुत्सृजाशङ्कां पितरीव सुतो मयि ॥३॥रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् ।यद्वाभिमतमत्यर्थं दुर्लभं तद्वृणुष्व माम् ॥४॥कुवलयाश्व उवाचतव प्रसादाद्भगवन् ! सुवर्णादि गृहे मम ।पितुरस्ति ममाद्यापिन किञ्चित् कार्यमीदृशम् ॥५॥ताते वर्षसहस्राणि शासतीमां वसुन्धराम् ।तथैव त्वयि पातालं न मे याञ्चोन्मुकं मनः ॥६॥ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरि जीवति ।तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु ॥७॥मित्राणि तुल्यशिष्टानि तद्वद्देहमनामयम् ।जनिता ध्रियते वित्तं यौवनं किन्नु नास्ति मे ॥८॥असत्यर्थे नृणां याञ्चाप्रवणं जायते मनः ।सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति ॥९॥यैर्न चिन्त्यं धनं किञ्चिन्मम गेहेऽस्ति नास्ति वा ।पितृबाहुतरुच्छायां संश्रिताः सुखिनो हि ते ॥१०॥ये तु बाल्यात् प्रभृत्येव विना पित्रा कुटुम्बिनः ।ते सुखास्वादविभ्रंशान्मन्ये धात्रैव वञ्चिताः ॥११॥तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् ।पितृमुक्तान् प्रयच्छामः कामतो नित्यमर्थिनाम् ॥१२॥तत् सर्वमिह संप्राप्तं यदङ्घ्रियुगलं तव ।मच्चूडामणिना स्पृष्टं यच्चाङ्गस्पर्शमाप्तवान् ॥१३॥जड उवाचइत्येवं प्रसृतं वाक्यमुक्तः पन्नगसत्तमः ।प्राह राजसुतं प्रीत्या पुत्रयोरुपकारिणम् ॥१४॥नाग उवाचयदि रत्नसुवर्णादि मत्तोऽवाप्तुं न ते मनः ।यदन्यन्मनसः प्रीत्यै तद्ब्रूहि त्वं ददाम्यहम् ॥१५॥कुवलयाश्व उवाचभगवंस्त्वत्प्रसादेन प्रार्थितस्य गृहे मम ।सर्वमस्ति विशेषेण सम्प्राप्तं तव दर्शनात् ॥१६॥कृतकृत्योऽस्मि चैतेन सफलं जीवितञ्च मे ।यदङ्गसंश्लेषमितस्तव देवस्य मानुषः ॥१७॥ममोत्तमाङ्गे त्वत्पादरजसा यदिहास्पदम् ।कृतं तेनैव न प्राप्तं किं मया पन्नगेश्वर ॥१८॥यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः ।तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपैतु मे ॥१९॥सुवर्णमणिरत्नादि वाहनं गृहमासनम् ।स्त्रियोऽन्नपानं पुत्राश्च चारुमाल्यानुलेपन् ॥२०॥एते च विविधाः कामा गीतवाद्यादिकञ्च यत् ।सर्वमेतन्मम मतं फलं पुण्यवनस्पतेः ॥२१॥तस्मान्नरेण तन्मुलः कार्यो यत्नः कृतात्मना ।कर्तव्यः पुण्यसक्तानां न किञ्चिद्भुवि दुर्लभम् ॥२२॥अश्वतर उवाचएवं भविष्यति प्राज्ञ ! तव धर्माश्रिता मतिः ।सत्यञ्चैतत् फलं सर्वं धर्मस्योक्तं यथा त्वया ॥२३॥तथाप्यवश्यं मद्गेहमागतेन त्वयाधुना ।ग्राह्यं यन्मानुषे लोके दुष्प्राप्तं भवतो मतम् ॥२४॥जड उवाचतस्यैतद्वचनं श्रुत्वा स तदा नृपनन्दनः ।मुकावलोकनञ्चक्रे पन्नगेश्वरपुत्रयोः ॥२५॥ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मतम् ।तत् पितुः सकलं वीरौ कथयामासतुः स्फुटम् ॥२६॥पुत्रापूचतुःततोऽस्य पत्नी दयिता श्रुत्वेमं विनिपातितम् ।अत्यजद्दयितान् प्राणान् विप्रलब्धा दुरात्मना ॥२७॥केनापि कृतवैरेण दानवेन कुबुद्धिना ।गन्धर्वराजस्य सुता नाम्ना ख्याता मदालसा ॥२८॥कुतज्ञोऽयं ततस्तात ! प्रतिज्ञां कृतवानिमाम् ।नान्या भार्या भवित्रीति वर्जयित्वा मदालसाम् ॥२९॥द्रष्टुं तां चारुसर्वाङ्गीमयं वीर ! ऋतध्वजः ।तात ! वाञ्छति यद्येतत् क्रियते तत् कृतं भवेत् ॥३०॥अश्वतर उवाचभूतैर्वियोगिनो योगस्तादृशैरेव तादृशः ।कथमेतद्विना स्वप्नं मायां वा शम्बरोदिताम् ॥३१॥जड उवाचप्रणिपत्य भुजङ्गेशं पुत्रः शत्रुजितस्ततः ।प्रत्युवाच महात्मानं प्रेमलज्जासमन्वितः ॥३२॥मायामयीमप्यधुना मम तात ! मदालसाम् ।यदि दर्शयते मन्ये परं कृतमनुग्रहम् ॥३३॥अश्वतर उवाचतस्मात् पश्येह वत्स ! त्वं मायाञ्चेद् द्रष्टुमिच्छसि ।अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ॥३४॥जड उवाचआनयामास नागेन्द्रो गृहगुप्तां मदालसाम् ।तेषां संमोहनार्थाय ज्जल्प च ततः स्फुटम् ॥३५॥दर्शयामास च तदा राजपुत्राय तां शुभाम् ।सेयं न वेति ते भार्या राजपुत्र ! मदालसा ॥३६॥जड उवाचस दृष्ट्वा तां तदा तन्वीं तत्क्षणात् विगतत्रपः ।प्रियेति तामभिमुखं ययौ वाचमुदीरयन् ।निवारयामास च तं नागः सोऽश्वतरस्त्वरन् ॥३७॥अश्वतर उवाचमायेयं पुत्र ! मा स्प्राक्षीः प्रागेव कथितं तव ।अन्तर्धानमुपैत्याशु माया संस्पर्शनादिभिः ॥३८॥ततः पपात मेदिन्यां स तु मूर्च्छापरिप्लुतः ।हा प्रियेति वदन् सोऽथ चिन्तयामास भामिनीम् ॥३९॥अहो स्नेहोऽस्य नृपतेर्ममोपर्यचलं मनः ।येनायं पातनोऽरीणां विना शस्त्रेण पातितः ॥४०॥मायेति दर्शिता तेन मिथ्या मायेति यत्स्फुटम् ।वाय्वम्बुतेजसां भुमेराकाशस्य च चेष्टया ॥४१॥जड उवाचततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः ।कथयामास तत् सर्वं मृतसञ्जीवनादिकम् ॥४२॥ततः प्रहृष्टः प्रतिलभ्य कान्तां प्रणम्य नागं निजगाम सोऽथ ।सुशोभमानः स्वपुरं तमश्वम् आरुह्य संचिन्तितमभ्युपतेम् ॥४३॥इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विशोऽध्यायः N/A References : N/A Last Updated : March 21, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP