मार्कण्डेयपुराणम् - एकचत्वारिशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
अलर्क उवाच
भगवन् ! योगिनश्चर्यां श्रोतुमिच्छामि तत्त्वतः ।
ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ॥१॥
दत्तात्रेय उवाच
मानापमानौ यावेतौ प्रत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥२॥
मानापमानौ यावेतौ तावेवाहुर्विषामृते ।
अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ॥३॥
चक्षुः पूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥४॥
आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
महाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित् ॥५॥
व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्तवज्जने ।
अटेत योगविद् भैक्ष्यं न तु त्रिष्वेव नित्यशः ॥६॥
यथैवमवमन्यन्ते जनाः परिभवन्ति च ।
तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ॥७॥
भैक्ष्यञ्चरेद् गृहस्थेषु यायावरगृहेषु च ।
श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदिश्यते ॥८॥
अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥९॥
अत ऊर्ध्वं पुश्चापि अदुष्टापतितेषु च ।
भैक्ष्यचर्या विवर्णेषु जघन्या वृत्तिरिष्यते ॥१०॥
भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा ।
फलं मूलं प्रियङ्गुं वा कणपिण्याकसक्तवः ॥११॥
इत्येते च शुभाहारा योगिनः सिद्धिकारकाः ।
तत् प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ॥१२॥
अपः पूर्वं सकृत् प्राश्य तूष्णीं भूत्वा समाहितः ।
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता ॥१३॥
अपानाय द्वितीया तु समानायते चापरा ।
उदानाय चतुर्थो स्याद्व्यानायेति च पञ्चमी ॥१४॥
प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः ।
अपः पुनः सकृत् प्रश्य आचम्य हृदयं स्पृशेत् ॥१५॥
अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च ।
व्रतानि पञ्च भिक्षूणामहिंसापरमाणि वै ॥१६॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्तिताः ॥१७॥
सारभूतमुपासीत ज्ञानं यत्कार्यसाधकम् ।
ज्ञानानां बहुता येयं योगविघ्रकरा हि सा ॥१८॥
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।
अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥१९॥
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥२०॥
शून्येष्वेवावकाशेषु गुहासु च वनेषु च ।
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥२१॥
वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥२२॥
सर्वमात्ममयं यस्य सदसज्जगदीदृशम् ।
गुणागुणमयन्तस्य कः प्रियः को नृपाप्रियः ॥२३॥
विसुद्धबुद्धिः समलोष्टकाञ्चनः समस्तभूतेषु च तत्समाहितः ।
स्थानं परं शाश्वतमव्ययञ्च परं हि मत्वा न पुनः प्रजायते ॥२४॥
वेदाच्छ्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् ।
ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन् प्राप्ते शाश्वतस्योपलब्धिः ॥२५॥
समाहितो ब्रह्मपरोऽप्रमादी सुचिस्तथैकान्तरतिर्यतेन्द्रियः ।
समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्रोति ततः स्वयोगतः ॥२६॥
इति श्रीमार्कण्डेयपुराणे योगिचर्यानामैकचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : March 24, 2023
TOP