संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मार्कण्डेयपुराणम्| षोडशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षोडशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षोडशोऽध्यायः Translation - भाषांतर पितोवाचकथितं मे त्वया वत्स संसारस्य व्यवस्थितम् ।स्वरूपमतिहेयस्य घटीयन्त्रवदव्ययम् ॥१॥तदेवमेतदखिलं मयावगतमीदृशम् ।किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते ॥२॥पुत्र उवाचयदि मद्वचनं तात श्रद्दधास्यविशङ्कितः ।तत् परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव ॥३॥तमनुष्ठाय विधिवद् विहायाग्निपरिग्रहम् ।आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः ॥४॥एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः ।तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः ॥५॥ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् ।मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् ।यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति ॥६॥पितोवाचवत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् ।येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम् ॥७॥यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः ।नैति योगमयोगोऽपि तं योगमधुना वद ॥८॥संसारादित्यतापार्ति-विप्लुष्यद्देहमानसम् ।ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा ॥९॥अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् ।स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम् ॥१०॥पुत्र-दार-गृह-क्षेत्र-ममत्वनिगजडार्दितम् ।मां मोचयेष्टसद्भाव-विज्ञानोद्घाटनैस्त्वरन् ॥११॥पुत्र उवाचशृणु तात ! यथा योगो दत्तात्रेयेण धीमता ।अलर्काय पुरा प्रोक्तः सम्यक् पृष्टेन विस्तरात् ॥१२॥पितोवाचदत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् ।कश्चालर्को महाभागो यो यौगं परिपृष्टवान् ॥१३॥पुत्र उवाचकौशिको ब्राह्मणः कश्चित् प्रतिष्ठानेऽभवत् पुरे ।सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत् ॥१४॥तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् ।पादाभ्यङ्गाङ्गसंवाह-स्त्रानाच्छादनभोजनैः ॥१५॥श्लेष्म-मूत्र-पुरीषासृक्-प्रवाहक्षालनेन च ।रहश्चैवोपचारेण प्रियसम्भाषणेन च ॥१६॥स तया पूज्यमानोऽपि सदातीव विनीतया ।अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः ॥१७॥तथापि प्रणता भार्या तममन्यत दैवतम् ।तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत ॥१८॥अचङ्क्रमणशोलोऽपि स कदाचिद् द्विजोत्तमः ।प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम् ॥१९॥या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता ।तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते ॥२०॥दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता ।दर्शनानन्तरं सा मे हृदयान्नापसर्पति ॥२१॥यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा ।नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम् ॥२२॥वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा ।ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे ॥२३॥तत् तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा ।तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता ॥२४॥गाग्ं परिकरं बद्ध्वा शुल्कमादाय चाधिकम् ।स्कन्धे भर्तारमादाय जगाम मृदुगामिनी ॥२५॥निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते ।राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना ॥२६॥पथि शूले तथा प्रोतमचौरं यौरशङ्कया ।माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥२७॥पत्नीस्कन्धे समारूढश्चालयामास कौशिकः ।पादावमर्षणात् क्रुद्धो माण्डव्यस्तमुवाच ह ॥२८॥येनाहमेवमत्यर्थं दुः खितश्चालितः पदा ।दशां कष्टामनुप्राप्तः स पापात्मा नराधमः ॥२९॥सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः ।भास्करालोकनादेव स विनाशमवाप्स्यति ॥३०॥तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् ।प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति ॥३१॥ततः सूर्योदयाभावादभवत् सन्तता निशा ।बहून्यहः प्रमाणानि ततो देवा भयं ययुः ॥३२॥निः स्वाध्यायवषट्कार-स्वधास्वाहाविवर्जितम् ।कथं नु खल्विदं सर्वं न गच्छेत् संक्षयं जगत् ॥३३॥अहोरात्रव्यवस्थाया विना मासर्तुसंक्षयः ।तत्संक्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे ॥३४॥विना चायनविज्ञानात् कालः संवत्सरः कुतः ।संवत्सरं विना नान्यत् कालज्ञानं प्रवर्तते ॥३५॥पतिव्रताया वचसा नोद्गच्छति दिवाकरः ।सूर्योदयं विना नैव स्त्रानदानादिकाः क्रियाः ॥३६॥नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते ।नैवाप्ययनमस्माकं विना होमेन जायते ॥३७॥वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः ।वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥३८॥निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः ।तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः ॥३९॥अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः ।तोयवर्षेण हि वयं हविर्वर्षेण मानवाः ॥४०॥ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः ।क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः ॥४१॥विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् ।क्षितिञ्च सन्दूषयामः पापानामपकारिणाम् ॥४२॥दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् ।उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः ॥४३॥ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना ।तेषां पुण्यान् वयं योकान् विदधाम महात्मनाम् ॥४४॥तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थैतम् ।कथं नु दिनसर्गः स्यादन्योऽन्यमवदन् सुराः ॥४५॥तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् ।देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः ॥४६॥तेजः परं तेजसैव तपसा च तपस्तथा ।प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम ॥४७॥पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥४८॥तस्मात् पतिव्रतामत्रेरनुभूयां तपस्विनीम् ।प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥४९॥पुत्र उवाचतैः सा प्रसादिता गत्वा प्रोहेष्टं व्रियतामिति ।अयाचन्त दिनं देवा भवत्विति यथा पुरा ॥५०॥अनसूयोवाचपतिव्रताया माहात्म्यं न हीयेत कथन्त्विति ।संमान्य तस्मात् तां साध्वीमहः स्त्रक्ष्याम्यहं सुराः ॥५१॥यथा पुनरहोरात्र-संस्थानमुपजायते ।यथा च तस्याः स्वपतिर्न साध्व्या नाशमेष्यति ॥५२॥पुत्र उवाचएवमुक्त्वा सुरांस्तस्या गत्वा सा मन्दिरं शुभा ।उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः ॥५३॥अनसूयोवाचकच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् ।कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम् ॥५४॥भर्तृशुश्रूषणादेव मया प्राप्तं महत् फलम् ।सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः ॥५५॥पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा ।तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः ॥५६॥प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः ।सत्यार्जव-तपो-दानैर्दयायुक्तो भवेत् सदा ॥५७॥क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः ।कर्तव्या अन्वहं श्रद्धा-पुरस्कारेण शक्तितः ॥५८॥स्वजातिविहितानेव लोकानाप्नोति मानवः ।क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात् ॥५९॥स्त्रियस्त्वेवं समस्तस्य नरैर्दुः खार्जितस्य वै ।पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि ॥६०॥नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् ।भर्तृशुश्रूषयैवैतान् लोकानिष्टान् व्रजन्ति हि ॥६१॥तस्मात् साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति ।त्वया मतिः सदा कार्या यतो भर्ता परा गतिः ॥६२॥यद्देवेभ्यो यच्च पित्रागतेभ्यः कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः ।तस्याप्यर्धं केवलानन्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव ॥६३॥पुत्र उवाचतस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् ।प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः ॥६४॥धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता ।यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः ॥६५॥जानाम्येतन्न नारीणां काचित् पतिसमा गतिः ।तत्प्रीतिश्चोपकाराय इह लोके परत्र च ॥६६॥पतिप्रसादादिह च प्रेत्य चैव यशस्विनि ।नारी सुखमवाप्नोति नार्या भर्ता हि देवता ॥६७॥सा त्वं ब्रूहि महाभागे ! प्राप्ताया मम मन्दिरम् ।आर्याया यन्मया कार्यं तथार्येणापि वा शुभे ॥६८॥अनसूयोवाचएते देवाः सहेन्द्रेण मामुपागम्य दुः खिताः ।त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः ॥६९॥याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् ।अहं तदर्थमायाता शृणु चैतद्वचो मम ॥७०॥दिनाभावात् समस्तानामभावो यागकर्मणाम् ।तदभावात् सुराः पुष्टिं नोपयान्ति तपस्विनि ॥७१॥अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् ।तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति ॥७२॥तत् त्वमिच्छसि चेदेतत् जगदुद्धर्तुमापदः ।प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः ॥७३॥ब्राह्मण्युवाचमाण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः ।सूर्योदये विनाशं त्वं प्राप्स्यसीत्यतिमन्युना ॥७४॥अनसूयोवाचयदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् ।करोमि पूर्ववद्देहं भर्तारञ्च नवं तव ॥७५॥मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि ।पतिव्रतानामाराध्यमिति संमानयामि ते ॥७६॥पुत्र उवाचतथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी ।अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि ॥७७॥ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः ।शैलराजानमुदयमारुरोहोरुमण्डलः ॥७८॥समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत ।पपात च महीपृष्ठे पतन्तं जगृहे च सा ॥७९॥अनसूयोवाचन विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् ।पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते ॥८०॥यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् ।रूपतः शीलतो बुद्ध्या वाङ्माधुर्ंय्यादिभूषणैः ॥८१॥तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा ।प्राप्नोतु जीवितं भार्यासहायः शरदां शतम् ॥८२॥यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् ।तेन सत्येन विप्रोऽयं पुनर्जोवत्वनामयः ॥८३॥कर्मणा मनसा वाचा भर्तुराराधनं प्रति ।यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः ॥८४॥पुत्र उवाचततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा ।स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः ॥८५॥ततोऽपतत् पुष्पवृष्टिर्देववाद्यादिनिस्वनः ।लेभिरे च मुदं देवा अनसूयामथाब्रुवन् ॥८६॥देवा ऊचुःवरं वृणीष्व कल्याणि देवकार्यं महत् कृतम् ।त्वया यस्मात् ततो देवा वरदास्ते तपस्विनि ॥८७॥अनसूयोवाचयदि देवाः प्रसन्ना मे पितामहपुरोगमाः ।वरदा वरयोग्या च यद्यहं भवतां मता ॥८८॥तद्यान्तु मम पुत्रत्वं ब्रह्म-विष्णु-महेश्वराः ।योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये ॥८९॥एवमस्त्विति तां देवा ब्रह्म-विष्णु-शिवादयः ।प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम् ॥९०॥इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे अनसूयावरप्राप्तिर्नाम षोडशोऽध्यायः N/A References : N/A Last Updated : March 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP