मार्कण्डेयपुराणम् - षष्टषष्टितमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
ब्राह्मणवाक्यवर्णनम्
मार्कण्डेय उवाच
एवं निरस्यमानास्ता हरिणेन मृगाङ्गनाः ।
श्रुत्वा स्वरोचिरात्मानं मेने स पतितं यथा ॥१॥
त्यागे चकार च मनः स तासां मुनिसत्तम ।
चक्रवाकीमृगप्रोक्तो मृगचर्याजुगुप्सितः ॥२॥
समेत्य ताभिर्भूयश्च वर्द्धमानमनोभवः ।
आक्षिप्तनिर्वेदकथो रेमे वर्षशतानि षट् ॥३॥
किन्तु धर्माविरोधेन कुर्वन्धर्माश्रिताः क्रियाः ।
भुङ्क्ते स्वरोचिर्विषयान्सह ताभिरुदारधीः ॥४॥
ततश्च जज्ञिरे तस्य त्रयः पुत्राः स्वरोचिषः ।
विजयो मेरुनन्दश्च प्रभावश्च महाबलः ॥५॥
मनोरमा च विजयं प्रासूतेन्दीवरात्मजा ।
विभावरी मेरुनन्दं प्रभावं च कलावती ॥६॥
पद्मिनी नाम या विद्या सर्वभोगोपपादिका ।
स तेषां तत्प्रभावेण पिता चक्रे पुरत्रयम् ॥७॥
प्राच्यां तु विजयं नाम कामरूपे नगोत्तमे ।
विजयाय सुतायादौ स ददौ पुरमुत्तमम् ॥८॥
उदीच्यां मेरुनन्दस्य पुरीं नन्दवतीमिति ।
ख्यातां चकार प्रोत्तुङ्गवप्रप्राकारमालिनीम् ॥९॥
कलावतीसुतस्यापि प्रभावस्य निवेशितम् ।
पुरं तालमिति ख्यातं दक्षिणापथमाश्रितम् ॥१०॥
एवं निवेश्य पुत्रान्स पुरेषु पुरुषर्षभ ।
रेमे ताभिः समं विप्र मनोज्ञास्वद्रिभूमिषु ॥११॥
एकदा तु गतोऽरण्ये विहरन्स धनुर्द्धरः ।
चकर्ष धनुरालोक्य वराहमतिदूरगम् ॥१२॥
अथाह काचिदभ्येत्य तं तदा हरिणाङ्गना ।
मय्येव पात्यतां बाणः प्रसीदेति पुनः पुनः ॥१३॥
किमनेन हतेनाद्य मामाशु विनिपातय ।
त्वया निपातितो बाणो दुःखान्मां मोक्षयिष्यति ॥१४॥
स्वरोचिरुवाच
न ते शरीरं सरुजमस्माभिरुपलक्ष्यते ।
किन्नु तत्कारणं येन त्वं प्राणान्हातुमिच्छसि ॥१५॥
मृग्युवाच
अन्यास्वासक्तहृदये यस्मिंश्चेतः कृतास्पदम् ।
मम तेन विना मृत्युरौषधं किमिहापरम् ॥१६॥
स्वरोचिरुवाच
कस्त्वां नाभिलषेद्भीरु सानुरागासि कुत्र वा ।
यदप्रात्तौ निजान्प्राणान्परित्यक्तुं व्यवस्यसि ॥१७॥
मृग्युवाच
त्वामेवेच्छामि भद्रं ते त्वया मेऽपहृतं मनः ।
वृणोम्यहमतो मृत्युं मयि बाणो निपात्यताम् ॥१८॥
स्वरोचिरुवाच
त्वं मृगी चञ्चलापाङ्गी नररूपधरा वयम् ।
कथं त्वया समं योगो मद्विधस्य भविष्यति ॥१९॥
मृग्युवाच
यदि सापेक्षितं चित्तं मयि ते मां परिष्वज ।
यदि वाऽसाधु चित्तं ते करिष्यामि यथेप्सितम् ॥२०॥
एतावताहं भवता भविष्याम्यतिमानिता ॥
मार्कण्डेय उवाच
आलिलिङ्ग ततस्तां स स्वरोचिर्हरिणाङ्गनाम् ॥२१॥
तेन चालिङ्गिता सद्यः साभूद्दिव्यवपुर्धरा ।
ततः सविस्मयाविष्टः का त्वमित्थभ्यभाषत ॥२२॥
सा चास्मै कथयामास प्रेमलज्जाजडाक्षरम् ।
अहमम्यर्थिता देवैः काननस्यास्य देवता ॥२३॥
उत्पादनीयो हि मनुस्त्वया मयि महामते ।
प्रीतिमत्यां मयि सुतं भूर्लोकपरिपालकम् ॥२४॥
तमुत्पादय देवानां त्वामहं वचनाद्वदे |
मार्कण्डेय उवाच
ततः स तस्यां तनयं सर्वलक्षणलक्षितम् ॥२५॥
तेजस्विनमिवात्मानं जनयामास तत्क्षणात् ।
जातमात्रस्य तस्याथ देववाद्यानि सस्वनुः ॥२६॥
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।
सिषिचुः शीकरैर्मेघा ऋषयश्च तपोधनाः ॥२७॥
देवाश्च पुष्पवर्षं च मुमुचुश्च समन्ततः ।
तस्य तेजः समालोक्य नाम चक्रे पिता स्वयम् ॥२८॥
द्युतिमानिति येनास्य तेजसा भासिता दिशः ।
स बालो द्युतिमान्नाम महाबलपराक्रमः ॥२९॥
स्वरोचिषः सुतो यस्मात्तस्मात्स्वारोचिषोऽभवत् ।
स चापि विचरन्रम्ये कदाचिद्गिरिनिर्झरे ॥३०॥
स्वरोचिर्ददृशे हंसं निजपत्नीसमन्वितम् ।
उवाच स तदा हंसी साभिलाषां पुनः पुनः ॥३१॥
उपसंह्रियतामात्मा चिरं ते क्रीडितं मया ।
किं सर्वकालं भोगैस्ते आसन्नं चरमं वयः ॥३२॥
परित्यागस्य कालो मे तव चापि जलेचरि
हंस्युवाच
अकालः को हि भोगानां सर्वं भोगात्मकं जगत् ॥३३॥
यज्ञाः क्रियन्ते भोगार्थं ब्राह्मणैः संयतात्मभिः ।
दृष्टादृष्टांस्तथा भोगान्वाञ्छमाना विवेकिनः ॥३४॥
दानानि च प्रयच्छन्ति पूतान्धर्मांश्च कुर्वते ।
स त्वं नेच्छसि किं भोगान्भोगश्चेष्टफलं नृणाम् ॥३५॥
विवेकिनां तिरश्चां च किं पुनः संयतात्मनाम्
हंस उवाच
भोगेष्वासक्तचित्तानां परमार्थान्विता मतिः ।
भविष्यति कदा सङ्गमुपेतानां च बन्धुषु ॥३६॥
पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥३७॥
किं न पश्यसि वा भद्रे जातसङ्गं स्वरोचिषम् ।
आबाल्यात्कामसंसक्तं मग्नं स्नेहाम्बुकर्दमे ॥३८॥
यौवनेऽतीव भार्यासु साम्प्रतं पुत्रनप्तृषु ।
स्वरोचिषो मनो मग्नमुद्धारं प्राप्स्यते कुतः ॥३९॥
नाहं स्वरोचिषस्तुल्यः स्त्रीवश्यो वा जलेचरि ।
विवेकवांश्च भोगानां निवृत्तोऽस्मि च साम्प्रतम् ॥४०॥
मार्कण्डेय उवाच
स्वरोचिरेतदाकर्ण्य जातोद्वेगः खगेरितम् ।
आदाय भार्यास्तपसे ययावन्यत्तपोवनम् ॥४१॥
तत्र तप्त्वा तपो घोरं सह ताभिरुदारधीः ।
जगाम लोकानमलान्निवृत्ताखिलकल्मषः ॥४२॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे षष्टषष्टितमोऽध्यायः
N/A
References : N/A
Last Updated : March 26, 2023
TOP