संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षट्सप्ततितमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षट्सप्ततितमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षट्सप्ततितमोऽध्यायः Translation - भाषांतर मार्कण्डेय उवाचइत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम् ॥१॥अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ॥२॥जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।परिष्वजति हार्देन पुनरुल्लापयत्यथ ॥३॥जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत् ॥४॥भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम् ॥५॥पुत्र उवाचमामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।अन्तर्धानगता चेयं द्वितीया जातहारिणी ॥६॥पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः ॥७॥उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।ततो ममागतो हासः शृणु चाप्यत्र कारणम् ॥८॥स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।तथान्तर्धानगा चैव द्वितीया जातहारिणी ॥९॥स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे ॥१०॥किन्तु मदुपभोगाय मार्जारी जातहारिणी ।त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥११॥न मां जानासि कोऽप्येष न चैवापकृतं मया ।सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम् ॥१२॥तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम् ॥१३॥मातोवाचन त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया ॥१४॥स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात् ॥१५॥जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।जहार तं परित्यक्तं सा तदा जातहारिणी ॥१६॥सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम् ॥१७॥तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।तृतीयं भक्षयामास सा क्रमाज्जातहारिणी ॥१८॥हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः ॥१९॥विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।कारयामास संस्कारान् राजन्यस्य भवन्ति ये ॥२०॥आनन्देति च नामास्य पिता चक्रे विधानतः ।मुदा परमया युक्तो विक्रान्तः स नराधिपः ॥२१॥कृतोपनयनं तन्तु गुरुराह कुमारकम् ।जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम् ॥२२॥स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।वन्द्या मे कतमा माता जननी पालनी नु किम् ॥२३॥गुरुरुवाचन त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः ॥२४॥आनन्द उवाचइयं जनित्री चैत्रस्य विशालग्रमवासिनः ।विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम् ॥२५॥गुरुरुवाचकुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम् ॥२६॥आनन्द उवाचजातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी ॥२७॥तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥२८॥भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः ॥२९॥वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।मया तव वचः कार्यमुपैमि कतमां गुरो ॥३०॥गुरुरुवाचअतीव गहनं वत्स ! सङ्कटं महदागतम् ।न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः ॥३१॥आनन्द उवाचमोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः ॥३२॥आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः ॥३३॥अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः ॥३४॥अतो ब्रवीमि संसारे वसतः को न बान्धवः ।को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः ॥३५॥पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे ॥३६॥सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।विशालग्रामतः पुत्रश्चैत्र आनीयतामिह ॥३७॥मार्कण्डेय उवाचततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।तस्मान्निवर्त्य ममतामनुमेने वनाय तम् ॥३८॥चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥३९॥सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम् ॥४०॥तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत् ॥४१॥आनन्द उवाचआत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः ॥४२॥ब्रह्मोवाचक्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान् ॥४३॥भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि ॥४४॥मार्कण्डेय उवाचइत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।तत्कर्माभिमुखो यातस्तपसो विरराम ह ॥४५॥चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः ॥४६॥उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान् ॥४७॥तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु ॥४८॥आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम् ॥४९॥प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः ॥५०॥तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः ॥५१॥लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः ॥५२॥शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥५३॥सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥५४॥ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥५५॥एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः ॥५६॥साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे ॥५७॥य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम् ॥५८॥इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः N/A References : N/A Last Updated : March 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP