मार्कण्डेयपुराणम् - द्वाविंशत्यधिकशततमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
अथ साऽविक्षितो माता वीरा वीर प्रजावती ।
पुण्येऽहनि समाहूय प्राह पुत्रमविक्षितम् ॥१॥
पुत्राहमभ्यनुज्ञाता तव पित्रा महात्मना ।
उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः ॥२॥
स चायत्तस्तव पितुस्त्वया साध्यो मयापि च ।
प्रतिज्ञाते त्वया पुत्र ततस्तत्र यताम्यहम् ॥३॥
द्रव्यस्यार्द्धं महाकोशात्तव दास्याम्यहं पितुः ।
धनं ते पितुरायत्तमनुज्ञाताऽस्मि तेन च ॥४॥
क्लेशसाध्यो मदायत्तः स हि श्रेयो भविष्यति ।
साध्यो भवेद्वा यदि ते कश्चिद्बलपराक्रमैः ॥५॥
स तेऽसाध्यो ह्यन्यथा वा दुःखसाध्यो भविष्यति ।
तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्रात्र चैव ते ॥
तदैतदहमावाप्स्ये कथ्यतां यन्मतं तव ॥६॥
अविक्षिदुवाच
वित्तं मे पितुरायत्तं मत्स्वामित्वं न तत्र वै ।
यन्मच्छरीरनिष्पाद्यं तत्करिष्ये त्वयोदितम् ॥७॥
किमिच्छकं व्रतं मातर्निश्चिन्ता भव निर्व्यथा ।
राज्ञा पित्राऽभ्यनुज्ञातं यदि वित्तेश्वरेण मे ॥८॥
मार्कण्डेय उवाच
ततः सा राजमहिषी तद्व्रतं समुपोषिता ।
यथोक्तं साऽकरोत्पूजां राजराजस्य संयता ॥९॥
निधीनामप्यशेषाणां निधिपालगणस्य च ।
लक्ष्म्याश्च परया भक्त्या यतवाक्कायमानसा ॥१०॥
विविक्ते तु गृहस्थोऽयमथ राजा करन्धमः ।
आसीन उक्तः सचिवैर्नीतिशास्त्रविशारदैः ॥११॥
सचिवा ऊचुः
राजन्वयः परिणतं तवैतच्छासतो महीम् ।
एकस्ते तनयोऽविक्षित्त्यक्तदारपरिग्रहः ॥१२॥
अपुत्रः स च ते निष्ठां यदा भूप गमिष्यति ।
तदारिपक्षं पृथिवी निश्चितं तव यास्यति ॥१३॥
वंशक्षयस्ते भविता पितृपिण्डोदकक्षयः ।
एतन्महत्तेऽरिभयं क्रियाहान्या भविष्यति ॥१४॥
तस्मात्कुरु तथा भूप यथा ते तनयः पुनः ।
करोति सततं बुद्धिं पितॄणामुपकारिणीम् ॥१५॥
मार्कण्डेय उवाच
एतस्मिन्नन्तरे शब्दं शुश्राव जगतीपतिः ।
पुरोहितस्य वीराया गदतो ह्यर्थिनं प्रति ॥१६॥
कः किमिच्छति दुःसाध्यं कस्य किं साध्यतामिति ।
करन्धमस्य महिषी किमिच्छिकमुपोषिता ॥१७॥
राजपुत्रोऽप्यविक्षित्तु श्रुत्वा पौरोहितं वचः ।
प्रत्युवाचार्थिनः सर्वान्राजद्वारमुपागतान् ॥१८॥
मया साध्यं शरीरेण यस्य किञ्जिद्ब्रवीतु सः ।
मम माता महाभागा किमिच्छिकमुपोषिता ॥१९॥
शृण्वन्तु मेऽर्थिनः सर्वे प्रतिज्ञातं मया तदा ।
किमिच्छथ ददाम्येष क्रियमाणो किमिच्छिके ॥२०॥
मार्कण्डेय उवाच
ततो राजा निशम्यैतद्वाक्यं पुत्रमुखाच्छ्रुतम् ।
समुत्पत्याब्रवीत्पुत्रमहमर्थी प्रयच्छ मे ॥२१॥
अविक्षिदुवाच
दातव्यं यन्मया तात भवते तद्ब्रवीहि माम् ।
कर्तव्यं दुष्करं वा ते साध्यं दुःसाध्यमेव वा ॥२२॥
राजोवाच
यदि सत्यप्रतिज्ञस्त्वं ददासि च किमिच्छकम् ।
पौत्रस्य दर्शय मुखं ममोत्सङ्गगतस्य तत् ॥२३॥
अविक्षिदुवाच
अहं तवैकस्तनयो ब्रह्मचर्यं च मे नृप ।
न मे पुत्रोऽस्ति पौत्रस्य दर्शयामि कथं मुखम् ॥२४॥
राजोवाच
पापाय ब्रह्मचर्यं ते यदिदं धार्यते त्वया ।
तस्मात्त्वं मोचयात्मानं मम पौत्रं च दर्शय ॥२५॥
अविक्षिदुवाच
विषमं स्यान्महाराज यदन्यत्तत्समादिश ।
वैराग्येण मया त्यक्तः स्त्रीसंभोगस्तथास्तु सः ॥२६॥
राजोवाच
बहुभिर्युध्यमानानां दृष्टो वै वैरिणां जयः ।
तत्रापि यदि वैराग्यमुपैषि तदपण्डितः ॥२७॥
किं वा नो बहुनोक्तेन ब्रह्मचर्यं परित्यज ।
मातुस्त्वमिच्छया वक्त्र पौत्रस्य मम दर्शय ॥२८॥
मार्कण्डेय उवाच
यदा स बहुशस्तेन प्रोक्तः पुत्रेण पार्थिवः ।
नान्यत्प्रार्थयते किंचित्तदा पुत्रोऽब्रवीत्पुनः ॥२९॥
दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तात सङ्कटम् ।
तत्करिष्यामि निर्लज्जो भूयो दारपरिग्रहम् ॥३०॥
स्त्रियाः समक्षं विजितः पतितो धरणीतले ।
स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करम् ॥३१॥
तथापि किं करोम्येष सत्यपाशवशङ्गतः ।
करिष्यामि यथाऽऽत्थ त्वं भुज्यतां निजशासनम् ॥३२॥
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम द्वाविंशत्यधिकशततमोऽध्यायः । १२२ ।
N/A
References : N/A
Last Updated : April 17, 2023
TOP