संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| षोडशाधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - षोडशाधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत षोडशाधिकशततमोऽध्यायः Translation - भाषांतर विविंशचरितवर्णनम्मार्कण्डेय उवाचक्षुपः खनित्रपुत्रस्तु प्राप्य राज्यं यथा पिता ।तथैव पालयामास प्रजाधर्मेण रञ्जयन् ॥१॥स दानशीलो यष्टा च यज्ञानामवनीपतिः ।समः शत्रौ च मित्रे च व्यवहारादिवर्त्मनि ॥२॥एकदा स महीपालो निजस्थानगतो मुने ।सूतैरुक्तो यथा पूर्वं क्षुपो राजा तथाऽभवत् ॥३॥ब्रह्मणस्तनयः पूर्वं क्षुपोऽभूत्पृथिवीपतिः ।यादृक्चरितमस्यासीत्तादृक्तस्यैव चेष्टितम् ॥४॥राजोवाचश्रोतुमिच्छामि चरितं क्षुपस्य सुमहात्मनः ।यदि तादृङ्मया शक्यं चेष्टितुं तत्करोम्यहम् ॥५॥सूता ऊचुःस चकाराकरान्भूप राजा गोब्राह्मणान्पुरा ।षष्ठांशेन कृता चोर्व्यामिष्टिस्तेन महात्मना ॥६॥राजोवाचतेषां महात्मनां राज्ञां कोऽनुयास्यति मद्विधः ।तथाप्युत्कृष्टचेतानां चेष्टासूद्यमवान्भवेत् ॥७॥तच्छ्रूयतां प्रतिज्ञा या साम्प्रतं क्रियते मया ।क्षुपस्यानुकरिष्यामि महाराजस्य चेष्टितम् ॥८॥त्रींस्त्रीन्यज्ञान्करिष्यामि सस्यापाते गतागते ।पृथिव्यां चतुरन्तायां प्रतिज्ञेयं कृता मया ॥९॥यच्च गोब्राह्मणाः पूर्वमददन्भूभृते करम् ।तमेव प्रतिदास्यामि ब्राह्मणानां तथा गवाम् ॥१०॥मार्कण्डेय उवाचइति प्रतिज्ञाय वचः क्षुपस्तत्कृतवांस्तथा ।सस्यापाते स यज्ञांस्त्रीनयजद्यजतांवरः ॥११॥गोब्राह्मणाः पुरा राज्ञामददद्यं च वै करम् ।तावत्संख्यमदाद्वित्तमन्यद्गोब्राह्मणाय सः ॥१२॥तस्य पुत्रोऽभवद्वीरः प्रमथायामनिन्दितः ।यस्य प्रतापशौर्याभ्यां कृता वश्या महीभृतः ॥१३॥तस्यापि नन्दिनी नाम वैदर्भी दयिताऽभवत् ।विविंशं तनयं तस्यां जनयामास स प्रभुः ॥१४॥विविंशे शासति महीं महीपाले महौजसि ।महीतलमभूद्व्याप्तं निरन्तरतया नरैः ॥१५॥ववर्ष काले पर्जन्यो मही सस्यवती तथा ।सुफलानि च सस्यानि रसवन्ति फलानि च ॥१६॥रसाः पुष्टिकराश्चासन्पुष्टिर्नोन्मादकारिणी ।न वित्तनिचया नॄणां प्रभूतां मदहेतवः ॥१७॥तत्प्रतापेन रिपवो भयमापुर्महामुने ।स्वास्थ्यं जनः सुहृद्वर्गो मुदमाप सुपूजितः ॥१८॥इष्ट्वा स यज्ञान्सुबहून्सम्यक्सम्पाल्य मेदिनीम् ।सङ्ग्रामे निधनं प्राप्य शक्रलोकमितो गतः ॥१९॥इति श्रीमार्कण्डेयपुराणे विविंशचरितं नाम षोडशाधिकशततमोऽध्यायः । ११६ । N/A References : N/A Last Updated : April 17, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP