मार्कण्डेयपुराणम् - द्वात्रिंशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
मदालसोवाच
अतः परं शृणुष्वेमं पुत्र ! भक्त्या यदाहृतम् ।
पितॄणां प्रीतये यद्वा वर्ज्यं वा प्रीतिकारकम् ॥१॥
मासं पितॄणां तृप्तिश्च हविष्यान्नेन जायते ।
मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ॥२॥
त्रीन् मासान् हारिणां मांसं विज्ञेयं पितृतृप्तये ।
चतुर्मासांस्तु पुष्णाति शशस्य पिशितं पितॄन् ॥३॥
शाकुनं पञ्च वै मासान् षण्मासान् शूकरामिषम् ।
छागलं सप्त वै मासानैणेयञ्चाष्टमासिकीम् ॥४॥
करोति तृप्तिं नव वै रुरोर्मांसं न संशयः ।
गवयस्यामिषं तृप्तिं करोति दशमासिकीम् ॥५॥
तथैकादशमासंस्तु औरभ्रं पितृतृप्तिदम् ।
संवत्सरं तथा गव्यं पयः पायसमेव वा ॥६॥
वाध्रीणसामिषं लौहं कालशाकन्तथा मधु ।
दौहित्रामिषमन्यच्च यच्चान्यत् स्वकुलोद्भवैः ॥७॥
अनन्तां वै प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा ।
पितॄणां नात्र सन्देहो गायाश्राद्धञ्च पुत्रक ॥८॥
श्यामाकराजश्यामाकौ तद्वच्चैव प्रसातिकाः ।
नीवाराः पौष्कलाश्चैव धान्यानां पितृतृप्तये ॥९॥
यवव्रीहिसगोधूमतिला मुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चातिशोभनाः ॥१०॥
वर्ज्या मर्कटकाः श्राद्धे राजमाषास्तथाणवः ।
विप्राषिका मसूराश्च श्राद्धकर्मणि गर्हिताः ॥११॥
लशुनं गृञ्जनञ्चैव पलाण्डं,पिण्डमूलकम् ।
करम्भं यानि चान्यानि हीनानि रसवर्णतः ॥१२॥
गान्धारिकामलाबूनि लवणान्यूषराणि च ।
आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ॥१३॥
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ।
यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम् ॥१४॥
अन्यायकन्याशुल्कोत्थं द्रव्यञ्चात्र विगर्हितम् ।
दुर्गन्धि फेनिलञ्चाम्बु तथैवाल्पतरोदकम् ॥१५॥
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चाप्युपाहृतम् ।
यन्न सर्वापचोत्सृष्टं यच्चाभोज्यं निपानजम् ॥१६॥
तद्वर्ज्यं सलिलं तात ! सदैव पितृकर्मणि ।
मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥१७॥
माहिषञ्चामरञ्चैव धेन्वा गोश्चाप्यनिर्दशम् ।
पित्रर्थं मे प्रयच्छस्वेत्युक्त्वा यच्चाप्युपाहृतम् ॥१८॥
वर्जनीयं सदा सदिभस्तत्पयः श्राद्धकर्मणि ।
वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाग्निना ॥१९॥
अनिष्टदुष्टशब्दोग्रदुर्गन्धा चात्र कर्मणि ।
कुलापमानकाः श्राद्धे व्यायुज्य कुलहिंसकाः ॥२०॥
नग्नाः पातकिनश्चैव हन्युर्दृष्ट्या पितृक्रियाम् ।
अपुमानपविद्धश्च कुक्कुटो ग्रामशूकरः ॥२१॥
श्वा चैव हन्ति श्राद्धानि यातुधानाश्च दर्शनात् ।
तस्मात् सुसंवृतो दद्यात्तिलैश्चावकिरन्महीम् ॥२२॥
एवं रक्षा भवेच्छ्राद्धे कृता तातोभयोरपि ।
शावसूतकसंस्पृष्टं दीर्घरोगिभिरेव च ॥२३॥
पतितैर्मलिनैश्चैव न पुष्णाति पितामहान् ।
वर्जनीयं तथा श्राद्धे तथोदक्याश्च दर्शनम् ॥२४॥
मुण्डशौण्डसमाभ्यासो यजमानेन यादरात् ।
केशकीटावपन्नञ्च तथाश्वभिरवेक्षितम् ॥२५॥
पूति पर्युषितञ्चैव वार्ताक्यभिषवांस्तथा ।
वर्जनीयानि वै श्राद्धे यच्च वस्त्रानिलाहतम् ॥२६॥
श्रद्धया परया दत्तं पितॄणां नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥२७॥
तस्मात् श्रद्धावता पात्रे यच्छस्तं पितृकर्मणि ।
यथावच्चैव दातव्यं पितॄणां तृप्तिमिच्छता ॥२८॥
योगिनश्च सदा श्राद्धे भोजनीया विपश्चिता ।
योगाधारा हि पिररस्तस्मात् तान् पूजयेत् सदा ॥२९॥
ब्राह्मणानां सहस्रेभ्यो योगी त्वग्राशनी यदि ।
यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ॥३०॥
पितृगाथास्तथवात्र गीयन्ते ब्रह्मवादिभिः ।
या गीताः पितृभिः पूर्वमैलस्यासीन्महीपतेः ॥३१॥
कदा नः सन्ततावग्र्यः कस्यचिद् भविता सुतः ।
यो योगिभुक्तशोषान्नो भुवि पिण्डं प्रदास्यति ॥३२॥
गयायामथवा पिण्डं खड्गमांसं महाहविः ।
कालशाकं तिलाढ्यं वा कृसरं मासतृप्तये ॥३३॥
वैश्वदेवञ्च सौम्यञ्च खड्गमांसं परं हविः ।
विषाणवर्ज्यखड्गाप्त्या आसूर्यञ्चाश्नुवामहे ॥३४॥
दद्यात् श्राद्धं त्रयोदश्यां मघासु च यथाविधि ।
मधुसर्पिः समायुक्तं पायसं दक्षिणायने ॥३५॥
तस्मात् सम्पूजयेत् भक्त्या स्वपितॄन् पुत्र मानवः ।
कामानभीप्सन् सकलान् पापाच्चात्मविमोचनम् ॥३६॥
वसून् रुद्रांस्तथादित्यान्नक्षत्रग्रहतारकाः ।
प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ॥३७॥
आयुः प्रज्ञां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ॥३८॥
एतत् ते पुत्र ! कथितं श्राद्धकर्म यथोदितम् ।
काम्यानां श्रूयतां वत्स ! श्राद्धानां तिथिकीर्तनम् ॥३९॥
इति श्रीमार्कण्डेयपुराणे श्राद्धकल्पो नाम द्वात्रिंशोऽध्यायः
N/A
References : N/A
Last Updated : March 21, 2023
TOP