मार्कण्डेयपुराणम् - चतुर्नवतितमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
N/Aपितृवरप्रदानवर्णनम्
मार्कण्डेय उवाच
एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥१॥
तद्दृष्ट्वा सुमहत्तेजः समासाद्य स्थितं जगत् ।
जानुभ्यामवनिं गत्वा रुचिः स्तोत्रमिदं जगौ ॥२॥
रुचिरुवाच
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥३॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥४॥
मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितरश्चार्णवेषु ये ॥५॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥६॥
देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥७॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥८॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयंभुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥९॥
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥१०॥
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषतः ॥११॥
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्त्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥१२॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥१३॥
मार्कण्डेय उवाच
एव स्तुतास्ततस्तेन तेजसा मुनिसत्तम ।
निश्चक्रमुस्तेऽपि ततो भासयन्तो दिशो दश ॥१४॥
निवेदितं च यत्तेन पुष्पगन्धानुलेपनम् ।
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान् ॥१५॥
प्रणिपत्य पुनर्भक्तया पुनरेव कृताञ्जलिः ।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥१६॥
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ।
वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥१७॥
रुचिरुवाच
साम्प्रतं सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम ।
सोऽहं पुत्रीमभीप्सामि धन्यां दिव्यां प्रजावतीम् ॥१८॥
पितर ऊचुः
अद्यैव सद्यः पत्नी ते भवत्वतिमनोरमा ।
तस्यां च पुत्रो भविता भवतो मनुरुत्तमः ॥१९॥
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः ।
रुचे रौच्य इति ख्यातिं यो यास्यति जगत्त्रये ॥२०॥
तस्यापि बहवः पुत्रा महाबलपराक्रमाः ।
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥२१॥
त्वं च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ।
क्षीणाधिकारो धर्मज्ञ ततः सिद्धिमवाप्स्यसि ॥२२॥
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः ।
तस्य तुष्टा वयं भोगानात्मज्ञानं तथोत्तमम् ॥२३॥
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
प्रदास्यामो न सन्देहो यच्चान्यदभिवाच्छितम् ॥२४॥
तस्मात्पुण्यफलं लोके वाञ्छद्भिः सततं नरैः ।
पितॄणां चाक्षया तृप्तिं स्तव्याः स्तोत्रेण मानवैः ॥२५॥
वाञ्छद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः ।
श्राद्धे च इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् ॥२६॥
पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरतः स्थितः ।
स्तोत्रश्रवणसम्प्रीत्या सन्निधाने परे कृते ॥२७॥
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ॥२८॥
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ।
अश्राद्धार्हैरुपहतैरुपहारैस्तथा कृतम् ॥२९॥
अकालेऽप्यथवाऽदेशे विधिहीनमथापि वा ।
अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य वा कृतम् ॥३०॥
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात् ।
यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् ॥३१॥
अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी ।
हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति ॥३२॥
शिशिरे द्विगुणाब्दांश्च तृप्तिं स्तोत्रमिदं शुभम् ।
वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि ॥३३॥
ग्रीष्मे षोडशैवैतत्पठितं तृप्तिकारकम् ।
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते ॥३४॥
वर्षासु तृप्तिरस्माकमक्षया जायते रुचे ।
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति ॥३५॥
अस्माकमेतत्पुरुषस्तृप्तिं पञ्चदशाब्दिकीम् ।
यस्मिन्गृहे च लिखितमेतत्तिष्ठति नित्यदा ॥३६॥
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ।
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतः पुरः ॥३७॥
श्रवणीयं महाभाग अस्माकं पुष्टिहेतुकम् ।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तम ॥३८॥
इति श्रीमार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृवरप्रदानं नाम चतुर्नवतितमोऽध्यायः । ९४ ।
N/A
References : N/A
Last Updated : March 29, 2023
TOP