मार्कण्डेयपुराणम् - सप्तदशाधिकशततमोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
खनीनेत्रचरित्रवर्णनम्
मार्कण्डेय उवाच
तस्य पुत्रः खनीनेत्रो महाबलपराक्रमः ।
यस्य यज्ञेष्वगायन्त गन्धर्वा विस्मयान्विताः ॥१॥
खनीनेत्रसमो नान्यो भुवि यज्वा भविष्यति ।
तेन यज्ञायुते पूर्णे दत्ता पृथ्वी ससागरा ॥२॥
दत्त्वा च सकलां पृथ्वीं ब्राह्मणानां महात्मनाम् ।
तपसा द्रव्यमासाद्य मोदयन्साधितेन यः ॥३॥
यतश्च प्राप्य वित्तर्द्धिमतुलां दातृसत्तमात् ।
जगृहुर्ब्राह्मणा विप्र नान्यराज्ञः प्रतिग्रहम् ॥४॥
सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च ।
सप्तषष्टिं च यो यज्ञानयजद् भूरिदक्षिणान् ॥५॥
अपुत्रः स महीपालो मृगयामुपचक्रमे ।
पुत्रार्थं पितृयज्ञाय मांसकामो महामुने ॥६॥
अश्वारूढो विना सैन्यमेक एव महावने ।
बद्धगोधाङ्गुलित्राणो बाणखड्गधनुर्धरः ॥७॥
तं वाहयन्तं तुरगमन्यतो गहनाद्वनात् ।
विनिष्क्रम्य मृगः प्राह मां हत्वाभिमतं कुरु ॥८॥
अन्ये मृगाः पलायन्ते महाभीत्या विलोक्य माम् ।
कथमात्मप्रदानं त्वं मृत्यवे कर्तुमिच्छसि ॥९॥
मृग उवाच
अपुत्रोऽहं महाराज वृथा जन्मप्रयोजनम् ।
विचारयन्न पश्यामि प्राणानामिह धारणम् ॥१०॥
मार्कण्डेय उवाच
अथाभ्येत्य मृगः प्राह तमन्यो वसुधाधिपम् ।
मृगस्य तस्य प्रत्यक्षमलमेतेन पार्थिव ॥११॥
घातयस्वेति मां मांसैर्मम कर्म समाचार ।
यथा कृतार्थता ते स्यान्मम चाप्युपकारि तत् ॥१२॥
पुत्रार्थं त्वं महाराज स्वपितॄन्यष्टुमिच्छसि ।
अपुत्रस्यास्य मांसेन लप्स्यसे वाञ्छितं कथम् ॥१३॥
यादृक्कर्म विनिष्पाद्यं तादृग्द्रव्यमुपाहरेत् ।
दुर्गन्धैर्न सुगन्धानां गन्धज्ञानविनिर्णयः ॥१४॥
राजोवाच
वैराग्यकारणं प्रोक्तमनेनापुत्रता मम ।
कथ्यतां प्राणसंत्यागे यत्ते वैराग्यकारणम् ॥१५॥
मृग उवाच
बहवो मे सुता भूप बह्व्यो दुहितरस्तथा ।
यच्चिन्तादुःखदावाग्निज्वालामध्ये वसाम्यहम् ॥१६॥
सर्वसाध्या नरेन्द्रेयं मृगजातिः सुकातरा ।
तेष्वपत्येषु मे चातिममत्वं तेन दुःखितः ॥१७॥
मनुष्यसिंहशार्दूलवृकादिभ्यो बिभेम्यहम् ।
विहीनात्सर्वसत्त्वेभ्यः श्वशृगालादपि प्रभो ॥१८॥
सोऽहं निमित्तं बन्धूनामिमां शून्यां वसुन्धराम् ।
नृसिंहादिभयात्सर्वामिच्छामि सुनृशंसकृत् ॥१९॥
तृणान्यन्येऽपि खादन्ति गोऽजावितुरगादिकाः ।
तांस्तेषां पोषणायाहमिच्छामि निधनं गतान् ॥२०॥
निष्क्रान्तेषु ततस्तेषु ममापत्येषु वै पृथक् ।
भवन्ति चिन्ताः शतशो ममत्वावृतचेतसः ॥२१॥
किं कूटपाशं किं वज्रं वागुरां किं सुतो मम ।
प्राप्तश्चरन्वने किं वा नृसिंहादिवशं गतः ॥२२॥
प्राप्तोऽयमेकः सम्प्राप्तास्तेऽवस्थां कीदृशीं मम ।
साम्प्रतं ते चिरायन्ते ये गताः सुमहावनम् ॥२३॥
दृष्टवा प्राप्तान्ममाभ्याशमहं तानात्मजान्नृप ।
ईषदुछ्रवसितः क्षेममिच्छामि रजनीं पुनः ॥२४॥
प्रभाते दिवसं क्षेममस्तगेऽर्के निशामपि ।
वाञ्छाम्यहं कदा क्षेमं सर्वकालं भविष्यति ॥२५॥
एतत्ते कथितं भूप महोद्वेगस्य कारणम् ।
अतः प्रसादं कुरु मे बाणोऽयं पात्यतां मयि ॥२६॥
इति दुःखशताविष्टः प्राणान्नाहं त्यजामि यत् ।
तत्कारणं निबोध त्वं ब्रुवतो मम पार्थिव ॥२७॥
असूर्या नाम ते लोका यान्गच्छन्या् त्मघातकाः ।
यज्ञोपयुक्ताः पशवः सम्प्रयान्युवतच्छ्रितीः प्रभो ॥२८॥
अग्निः पशुरभूत्पूर्वं पशुरासीज्जलाधिपः ।
भास्वानथोच्छ्रितीः प्राप्ता यज्ञे निष्ठामुपागताः ॥२९॥
तन्ममैतां कृपां कृत्वा नय मामुच्छ्रितिं नृप ।
आत्मनश्चेप्सितं कामं पुत्रलाभादवाप्स्यसि ॥३०॥
पूर्वमृग उवाच
राजेन्द्र नैष हन्तव्यो धन्योऽयं सुकृती मृगः ।
बहवस्तनया ह्यस्य हन्तव्योऽहमसन्ततिः ॥३१॥
उत्तरमृग उवाच
एकदेहभयं यस्य दुःखं धन्यः स वै भवान् ।
बहूनि यस्य देहानि तस्य दुःखान्यनेकधा ॥३२॥
एको यदाहमासं तु प्राक्तदा देहजं मम ।
दुःखमासीन्ममत्वे तु भार्यायास्तदभूद्द्विधा ॥३३॥
यदाजातान्यपत्यानि तदा यावन्ति तानि वै ।
तावच्छरीरभूमीनि मम दुःखान्यथाभवन् ॥३४॥
न कृतार्थो भवाम्यस्य नातिदुःखाय सम्भवः ।
इह दुःखाय मत्सूतिःपरत्र च विरोधिनी ॥३५॥
यतो रक्षणपोषार्थमपत्यानां करोमि तत् ।
चिन्तयामि च सम्भूतिस्तेन मे नरके ध्रुवम् ॥३६॥
राजोवाच
न वेद्मि किं सन्ततिमान्धन्योऽपुत्रोऽत्र किं मृग ।
पुत्रार्थश्चायमारम्भो मम दोलायते मनः ॥३७॥
दुःखाय सन्ततिः सत्यमैहिकामुष्मिकाय तत् ।
तथाप्यतनयान्यान्ति ऋणानीति श्रुतं मया ॥३८॥
सोऽहं यतिष्ये पुत्रार्थमृते प्राणिवधं मृग ।
तपसैव प्रचण्डेन यथापूर्वं महीपतिः ॥३९॥
इति श्रीमार्कण्डेयपुराणे खनीनेत्रचरितवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः । ११७ ।
N/A
References : N/A
Last Updated : April 17, 2023
TOP