संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मार्कण्डेयपुराणम्| पञ्चाधिकशततमोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - पञ्चाधिकशततमोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत पञ्चाधिकशततमोऽध्यायः Translation - भाषांतर रवेर्माहात्म्यवर्णनम्मार्कण्डेय उवाचएवं सूर्यस्तवं कुर्वन्विश्वकर्मा दिवस्पतेः ।तेजसः षोडशं भागं मण्डलस्थमधारयत् ॥१॥शातितैस्तेजसो भागैर्दर्शभिः पञ्चभिस्तथा ।अतीवकान्तिमच्चारु भानोरासीत्तदा वपुः ॥२॥शातितं चास्य यत्तेजस्तेन चक्रं विनिर्मितम् ।विष्णोः शूलं च शर्वस्य शिबिका धनदस्य च ॥३॥दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ।अन्येषां चैव देवानामायुधानि स विश्वकृत् ॥४॥चकार तेजसा भानोर्भासुराण्यरिशान्तये ।इति शातिततेजाः स शुशुभे नातितेजसा ॥५॥वपुर्दधार मार्त्तण्डः सर्वावयवशोभनम् ।स ददर्श समाधिस्थः स्वां भार्यां वडवाकृतिम् ॥६॥अधृष्यां सर्वभूतानां तपसा नियमेन च ।उत्तरांश्च कुरून्गत्वा भूत्वाऽश्वो भानुरागमत् ॥७॥सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।जगाम सम्मुखे तस्य पृष्ठरक्षणतत्परा ॥८॥ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।वडवायं च तत्तेजो नासिकाभ्यां विवस्वतः ॥९॥देवौ तत्र समुत्पन्नावश्विनौ भिषजां वरौ ।नासत्यदस्रौ तनयावश्विवक्त्राद्विनिर्गतौ ॥१०॥मार्त्तण्डस्य सुतावेतावश्वरूपधरस्य हि ।रेतसोऽन्ते च रेवन्तः खड्गी धन्वी तनुत्रधृक् ॥११॥अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ।ततः स्वरूपममलं दर्शयामास भानुमान् ॥१२॥तस्य शान्तं समालोक्य सा रूपं मुदमाददे ।स्वरूपधारिणीं चेमां स निनाय निजालयम् ॥१३॥संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ।ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ॥१४॥द्वितीयश्च यमः शापाद्धर्मदृष्टिरनुग्रहात् ।यमस्तु तेन शापेन भृशं पीडितमानसः ॥१५॥धर्मोऽभिरोचते यस्माद्धर्मराजस्ततः स्मृतः ।कृमयो मांसमादाय पादतस्ते महीतलम् ॥१६॥पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ।धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाऽहिते ॥१७॥ततो नियोगे तं याम्ये चकार तिमिरापहः ।तस्मै ददौ पिता विप्र भगवांल्लोकपालताम् ॥१८॥पितॄणामाधिपत्यं च परितुष्टो दिवाकरः ।यमुनां च नदीं चक्रे कलिंदान्तरवाहिनीम् ॥१९॥अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ।गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः ॥२०॥एवमप्याह च ततो भगवांल्लोकभावितः ।त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि ॥२१॥अरण्यादिमहादाववैरिदस्युभयेषु च ।त्वां स्मरिष्यन्ति ये मर्त्या मोक्ष्यन्ते ते महापदः ॥२२॥क्षेमं बुद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम् ।नराणां परितुष्टस्त्वं पूजितः सम्प्रदास्यसि ॥२३॥छायासंज्ञासुतश्चापि सावर्णिः सुमहायशाः ।भाव्यः सोऽनागते काले मनुः सावर्णिकोऽष्टमः ॥२४॥मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्छासनाद्रवेः ॥२५॥यवीयसी तु या कन्याऽऽदित्यस्याभूद्द्विजोत्तम ।अभवत्सा सरिच्छ्रेष्ठा तपती लोकपावनी ॥२६॥यस्तु ज्येष्ठो महाभागः सर्गो यस्येह साम्प्रतम् ।विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ॥२७॥इदं यो जन्म देवानां शृणुयाद्धा पठेत वा ।विवस्वतस्तनूजानां रवेर्माहात्म्यमेव च ॥२८॥आपदं प्राप्य मुच्येत प्राप्नुयाच्च महायशः ।अहोरात्रकृतं पापमेतच्छमयते श्रुतम् ॥माहात्म्यमादिदेवस्य मार्तण्डस्य महात्मनः ॥२९॥इति श्रीमार्कण्डेयपुराणे रवेर्माहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः । १०५ । N/A References : N/A Last Updated : April 02, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP