संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्| सप्तत्रिंशोऽध्यायः मार्कण्डेयपुराणम् प्रस्तावना दशमोऽध्यायः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः अष्टाविंशोऽध्यायः ऊनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिशोऽध्यायः अष्टचत्वारिंशोऽध्यायः ऊनपञ्चाशोऽध्यायः पञ्चाशोऽध्यायः एकपञ्चाशोऽध्यायः द्विपञ्चाशोऽध्यायः त्रिपञ्चाशोऽध्यायः चतुःपञ्चाशोऽध्यायः पञ्चपञ्चाशोऽध्यायः षट्पञ्चाशोऽध्यायः सप्तपञ्चाशोऽध्यायः अष्टपञ्चाशोऽध्यायः ऊनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षष्टषष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुः सप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः ऊनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्तशीतितमाध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः अथैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अथाष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः अथैकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अथाष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकोनचत्वारिंशोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अथाष्टादशाधिकशततमोऽध्यायः अथैकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः अथैकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अथाष्टाविंशत्यधिकशततमोऽध्यायः अथैकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः अथैकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः मार्कण्डेयपुराणम् - सप्तत्रिंशोऽध्यायः मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे. Tags : markandey puranpuransanksritपुराणमार्कण्डेय पुराणसंस्कृत सप्तत्रिंशोऽध्यायः Translation - भाषांतर जड उवाचसोऽप्यलर्को यथान्यायं पुत्रवन्मुदिताः प्रजाः ।पालयामास धर्मात्मा स्वे स्वे कर्मण्यवस्थिताः ॥१॥दुष्टैषु दण्डं शिष्टेषु सम्यक् च परिपालनम् ।कुर्वन् परां मुदं लेभे इयाज च महामखैः ॥२॥अजायन्त सुताश्चास्य महाबलपराक्रमाः ।धर्मात्मानो माहत्मानो विमार्गपरिपन्थिनः ॥३॥चकार सोर्ऽथं धर्मेण धर्ममर्थेन वा पुनः ।तयोश्चैवाविरोधेन बुभुजे विषयानपि ॥४॥एवं बहूनि वर्षाणि तस्य पालयतो महीम् ।धर्मार्थकामसक्तस्य जग्मुरेकमहर्यथा ॥५॥वैराग्यं नास्य सञ्जज्ञे भुञ्जतो विषयान् प्रियान् ।न चाप्यलमभूत्तस्य धर्मार्थोपार्जनं प्रति ॥६॥तं तथा भोगसंसर्ग-प्रमत्तमजितेन्द्रियम् ।सुबाहुर्नाम शुश्राव भ्राता तस्य वनेचरः ॥७॥तं बुबोधयिषुः सोऽथ चिरं ध्यात्वा महीपतिः ।तद्वैरिसंश्रयं तस्य श्रेयोऽमन्यत भूपतेः ॥८॥ततः स काशिभूपालमुदीर्णबलवाहनम् ।स्वराज्यं प्राप्तुमागच्छद् बहुशः शरणं कृती ॥९॥सोऽपि चक्रे बलोद्योगमलर्कं प्रति पार्थिवः ।दूतञ्च प्रेषयामास राज्यमस्मै प्रदीयताम् ॥१०॥सोऽपि नैच्छत्तदा दातुमाज्ञापूर्वं स्वधर्मवित् ।प्रत्युवाच च तं दूतमलर्कः काशिभूभृतः ॥११॥मामेवाभ्येत्य हार्देन याचतां राज्यमग्रजः ।नाक्रान्त्या संप्रदास्यामि भयेनाल्पामपि क्षितिम् ॥१२॥सुबाहुरपि नो याञ्चां चकार मतिमांस्तदा ।न धर्मः क्षत्रियस्येति याञ्चा वीर्यधनो हि सः ॥१३॥ततः समस्तसैन्येन काशीशः परिवारितः ।आक्रान्तुमभ्यगाद्राष्ट्रमलर्कस्य महीपतेः ॥१४॥अनन्तरैश्च संश्लेषमभ्येत्य तदनन्तरम् ।तेषामन्यतमैर्भृत्यैः समाक्रम्यानयद्वशम् ॥१५॥अपीडयंश्च सामान्तांस्तस्य राष्ट्रोपरोधनैः ।तथा दुर्गानुपालांश्च चक्रे चाटविकान् वशे ॥१६॥कांश्चिच्चोपप्रदानेन कांश्चिद् भेदेन पार्थिवान् ।साम्नैवान्यान् वशं निन्ये निभृतास्तस्य येऽभवन् ॥१७॥ततः सोऽल्पबलो राजा परचक्रावपीजितः ।कोषक्षयमवापोच्चैः पुरञ्चारुध्यतारिणा ॥१८॥इत्थं सम्पीड्यमानस्तु क्षीणकोषो दिने दिने ।विषादमागात्परमं व्याकुलत्वञ्च चेतसः ॥१९॥आर्ति स परमां प्राप्य तत् सस्माराङ्गुलीयकम् ।यदुद्दिश्य पुरा प्राह माता तस्य मदालसा ॥२०॥ततः स्त्रातः शुचिर्भूत्वा वाचयित्वा द्विजोत्तमान् ।निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम् ॥२१॥तत्रैव लिखितं मात्रा वाचयामास पार्थिवः ।प्रकाशपुलकाङ्गोऽसौ प्रहर्षोत्फुल्ललोचनः ॥२२॥सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।स सदिभः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥२३॥कामः सर्वात्मना हेयो हातुञ्चेच्छक्यते न सः ।मुमुक्षां प्रति तत्कार्यं सैव तस्यापि भेषजम् ॥२४॥वाचयित्वा तु बहुशो नृणां श्रेयः कथं त्विति ।मुमुक्षयेति निश्चित्य सा च तत्सङ्गतो यतः ॥२५॥ततः स साधुसम्पर्कं चिन्तयन् पृथिवीपतिः ।दत्तात्रेयं महाभागमगच्छत् परमार्तिमान् ॥२६॥तं समेत्य महात्मानमकल्पषमसङ्गिनम् ।प्रणिपत्याभिसम्पूज्य यथान्यायमभाषत ॥२७॥ब्रह्मन् ! कुरु प्रसादं मे शरणं शरणार्थिनाम् ।दुः खापहारं कुरु मे दुः खार्तस्यातिकामिनः ॥२८॥दुः खापहारमद्यैव करोमि तव पार्थिव ! ।सत्यं ब्रूहि किमर्थं ते दुः खं तत् पृथिवीपते ॥२९॥जड उवाचइत्युक्तश्चिन्तयामास स राजा तेन धीमता ।त्रिविधस्यापि दुः खस्य स्थानमात्मानमेव च ॥३०॥स विमृष्य चिरं राजा पुनः पुनरुदारधीः ।आत्मानमात्मना धीरः प्रहस्येदमथाब्रावीत् ॥३१॥नाहमुर्वो न सलिलं न ज्योतिरनिलो न च ।नाकाशं किन्तु शारीरं समेत्य सुखमिष्यते ॥३२॥न्यूनातिरिक्ततां याति पञ्चकेऽस्मिन् सुखासुखम् ।यदि स्यान्म किन्न स्यादन्यस्थेऽपि हि तन्मयि ॥३३॥नित्यप्रभूतसद्भावे न्यूनाधिक्यान्नतोन्नते ।तथा च ममतात्यक्ते विशेषो नोपलभ्यते ॥३४॥तन्मात्रावस्थिते सूक्ष्मे तृतीयांशे च पश्यतः ।तथैव भूतसद्भावं शरीरं किं सुखासुखम् ॥३५॥मनस्यवस्थितं दुःखं सुखं वा मानसञ्च यत् ।यतस्ततो न मे दुः खं सुखं वा नह्यहं मनः ॥३६॥नाहङ्कारो न च मनो बुद्धिर्नाहं यतस्ततः ।अन्तः करणजं दुः खं पारख्यं मम तत्कथम् ॥३७॥नाहं शरीरं न मनो यतोऽहं पृथक् शरीरान्मनसस्तथाहम् ।तत् सन्तु चेतस्यथवापि देहे सुखानि दुः खानि च किं ममात्र ॥३८॥राज्यस्य वाञ्छां सुरुतेऽग्रजोऽस्य देहस्य चेत् पञ्चमयः स राशिः ।गुणप्रवृत्त्या मम किन्नु तत्र तत्स्थः स चाहञ्च शरीरतोऽन्यः ॥३९॥न यस्य हस्तादिकमप्यशेषं मांसं न चास्थीनि खिराविभागः ।कस्तस्य नागाश्वरथादिकोषैः स्वल्पोऽपि सम्बन्ध इहास्ति पुंसः ॥४०॥तस्मान्न मेऽरिर्न च मेऽस्ति दुः खं न मे सुखं नापि पुरं न कोषम् ।न चाश्वनागादि बलं न तस्य नान्यस्य वा कस्यचिद्वा ममास्ति ॥४१॥यथा घटीकुम्भकमण्डलुस्थम् आकाशमेकं बहुधा हि दृष्टम् ।तथा सुबाहुः स च काशिपोऽहं मल्ये च देहेषु शरीरभेदैः ॥४२॥इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तत्रिंशोऽध्यायः N/A References : N/A Last Updated : March 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP